इन्द्र॒ मा त्वा॒ यज᳚मानासो अ॒न्ये नि री᳚रम॒न्तुभ्य᳚मि॒मे सु॒तासः᳚ ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । मा । त्वा॒ । यज᳚मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य᳚म् । इ॒मे । सु॒तासः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तीव्रस्येति पञ्चर्चं नवमं सूक्तं वैश्वामित्रस्य पूरनस्यार्षम् त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। तीव्रस्य पञ्च पूरणो वैश्वामित्र इति। तीव्रसोमाख्य एकाह इदं निष्केवल्यनिविद्धानम्। सूत्रितं च। क्वस्य वीरस्तीव्रस्याभिवयस इति मध्यन्दिनः। आ. ९-७। इति। महाव्रतेऽपि माध्यन्दिने सवने ब्रह्मशस्त्रेऽप्येतत्सूक्तम्। तथैव पञ्चमारण्यके सुत्रितम्। तीव्रस्याभिवयसो अस्य पाहीति माध्यन्दिने। ऐ. आ. ५-१-१। इति॥
तीव्रस्य तीक्ष्णस्य क्षिप्रंमदकरस्याभिवयसः। वय इत्यन्ननाम। अभिगतं चरुपुरॊडाशाद्यन्नम् यस्य तादृशस्यास्य सोमस्य। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्थी। ईदृशम् सोमं हे इन्द्र पाहि। पिब। पिबतेश्छान्दसः शपो लुक्। तदर्थं सर्वरथा सरनशीलरथौ हरी अश्वाविहास्मिन्यज्ञगृहे विमुञ्च। रथाद्विसृज। हे इन्द्र अस्मत्त्तोऽन्ये यजमानासो यजमानास्त्वा त्वां मा निरीरमन्। नितरां मा रमयन्तु। वयमेव रमयाम इत्यर्थः। ततस्तुभ्यं त्वदर्थमेव सुतासः सुता भिषुता इमे प्रत्यक्षेणोपलभ्यमानाः सोमा वर्तन्ते॥१॥