आ॒भूष᳚न्तस्ते सुम॒तौ नवा᳚यां व॒यमि᳚न्द्र त्वा शु॒नं हु᳚वेम ॥
पदपाठः (Word-by-word)
आ॒॑भूष᳚न्तः । ते॒ । सु॒॑म॒तौ । नवा᳚याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
शुनासीरीये पर्वणीन्द्राय शुनासीराय पुरोडाशं द्वादशकपालमित्यस्याश्वायन्त इत्येषा याज्या। इन्द्रो देवा शुन इति वैकल्पिकस्यापि हविष इयमेव याज्या। सूत्रितं च। अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्रम्। आ. २-२०। इति॥
अश्वायन्तोऽश्वानिच्छन्तः। क्यच्यश्वाघस्यात्। पा. ७-४-३७। इत्यात्वम्। गव्यन्तो गा आत्मन इच्छन्तः। वान्तो यि प्रत्यय इत्यवादेशः। वाजयन्तोऽग्नीन्वाजनेन शूर्पादिना प्रज्वलयन्तः। वा गतिगन्धनयोः। णिचि वो विधूनने। पा. ७-३-३८। इति जुगागमः। अस्माच्छतर्यदुपदेशाल्लसार्वधादुकस्वरेणानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे ततो णिच एव स्वरः शिष्यते। अपर आह। वाजमन्नमात्मन इच्छन्त इति। तदानीमवग्रहभवस्वरौ छान्दसौ द्रष्टव्यौ। एवंभूता वयं हे इन्द्र त्वामुपगन्तवा उपगन्तुं प्राप्तुम् हवामहे। आह्वयामहे। गमेस्तुमर्थे सेसेनिति तवैप्रत्ययः। गतिसमासे तवै चान्तश्च युगपदिति गतेः प्रकृतिस्वरत्वमुत्तरपदस्यान्तोदात्तत्वम्। उ इति पूरकः। हे इन्द्र ते तव नवायामभिन्वायां प्रशस्तायां सुमतौ शोभनबुद्धावाभूषन्त आ समन्ताद्भवन्तो वर्तमानाः। यद्वा। आ समन्ताद्भूषयन्तोऽलङ्कुर्वन्तस्तवानुग्रहबुद्धौ वर्तमाना वयं शुनं सुखकरं त्वां हुवेम। आह्वयेम॥५॥