श्रवणम्

10.160.3
य उ᳚श॒ता मन᳚सा॒ सोम᳚मस्मै सर्वहृ॒दा दे॒वका᳚मः सु॒नोति᳚ ।
न गा इन्द्र॒स्तस्य॒ परा᳚ ददाति प्रश॒स्तमिच्चारु᳚मस्मै कृणोति ॥
▶ पदपाठः (Word-by-word)
यः । उ॒श॒ता । मन᳚सा । सोम᳚म् । अ॒स्मै॒ । स॒र्व॒॑हृ॒दा । दे॒व॑का᳚मः । सु॒नोति᳚ ।
न । गाः । इन्द्रः᳚ । तस्य᳚ । परा᳚ । द॒दा॒ति॒ । प्र॒॑श॒स्तम् । इत् । चारु᳚म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य उशता कामयमानेन सर्वहृदा। सर्वमविकलं हृदयं यस्य। यद्वा। सर्वेषामृत्विजां हृदयेन। सामर्थ्यान्मत्वर्थो लक्ष्यते। हृदयवता मनसास्मा इन्द्राय देवकामो देवमिन्द्रं कामयमानो यजमान सोमं सुनोति अभिषुणोति। इन्द्रस्तस्य यजमानस्य गा न परा ददाति। परादानं विनाशः। नि विनाशयति। अस्मै यजमानाय चारुं शोभनं अत एव प्रशस्तम् । इदित्यवधारणे। ज्प्रशंसनीयमेव धनं कृणोति। करोति॥३॥