श्रवणम्

10.160.2 समानपद
तुभ्यं᳚ सु॒तास्तुभ्य᳚मु॒ सोत्वा᳚स॒स्त्वां गिर॒ः श्वात्र्या॒ आ ह्व᳚यन्ति ।
इन्द्रे॒दम॒द्य सव᳚नं जुषा॒णो विश्व᳚स्य वि॒द्वा{4} इ॒ह पा᳚हि॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । सु॒ताः । तुभ्य᳚म् । ऊं॒ इति᳚ । सोत्वा᳚सः । त्वाम् । गिरः᳚ । श्वात्र्याः᳚ । आ । ह्व॒य॒न्ति॒ ।
इन्द्र᳚ । इ॒दम् । अ॒द्य । सव᳚नम् । जु॒षा॒णः । विश्व᳚स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तुभ्यं त्वदर्थमेव सुता अभिषुताः सर्वे सोमाः सोत्वास इतः परमभिषोतव्याश्च तुभ्यमुत्वदर्थमेव। सुनोतेः कृत्यार्थे तवैकेनिति त्वन्प्रत्ययः। श्वात्र्याः श्व आशु शीघ्रमतन्त्यः प्रवर्तमाना गिरः स्तुतिरूपा वाचश्च त्वामेवा ह्वयन्ति। आक्रोशयन्ति। हे इन्द्र अद्यास्मिन्काल इदं सवनं प्रातःसवनादिकं जुषानः सेवमानो विश्वस्य सर्वस्य विद्वाञ्जाता त्वमिहास्मिन्यज्ञे सोमं पाहि। पिब॥२॥