श्रवणम्

10.111.2
ऋ॒तस्य॒ हि सद᳚सो धी॒तिरद्यौ॒त्सं गा᳚र्ष्टे॒यो वृ᳚ष॒भो गोभि᳚रानट् ।
उद᳚तिष्ठत्तवि॒षेणा॒ रवे᳚ण म॒हान्ति᳚ चि॒त्सं वि᳚व्याचा॒ रजां᳚सि ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । हि । सद᳚सः । धी॒तिः । अद्यौ᳚त् । सम् । गा॒र्ष्टे॒यः । वृ॒ष॒भः । गोभिः᳚ । आ॒न॒ट् ।
उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण᳚ । रवे᳚ण । म॒हान्ति᳚ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्योदकस्य सदसः स्थानस्यान्तरिक्षस्य धीतिर्धारकः स इन्द्रोऽद्यौत्। द्योतते। प्रकाशते। हि प्रसिद्धौ। द्युत दीप्तौ। लुङि द्युद्भ्यो लु‘गीति प्रस्मैपदम् । च्लेर्लुक् छान्दसः। हलन्तलक्षणा वृद्धिरपि। यद्वा। अद्यौत्। तादृश इन्द्रो यज्ञमभिगच्छति। द्यु अभिगमे आदादिकः। लङ्। उतो वृद्धिर्लुकि हलीति वृद्धिः। गार्ष्टेयः। सकृत्प्रसूता धेनुर्गृष्टिः। तस्या अपत्यं वृषभो गोभिः समानट्। संव्याप्नोति। तथैषोऽपि सर्वं स्वमहिम्ना व्याप्नोति। तथा तविषेण। महन्नामैतत्। महता रवेण शब्देनोदतिष्ठत्। उच्छ्रित उन्नतोऽभवत्। अत एव महान्ति चिन्महान्त्यपि रजांस्युदकानि भुवनानि वा सं विव्याच। संव्याप्नोति॥२॥