श्रवणम्

10.80.7
अ॒ग्नये॒ ब्रह्म᳚ ऋ॒भव᳚स्ततक्षुर॒ग्निं म॒हाम᳚वोचामा सुवृ॒क्तिम् ।
अग्ने॒ प्राव᳚ जरि॒तारं᳚ यवि॒ष्ठाग्ने॒ महि॒ द्रवि᳚ण॒मा य᳚जस्व ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नये᳚ । ब्रह्म᳚ । ऋ॒भवः᳚ । त॒त॒क्षुः॒ । अ॒ग्निम् । म॒हाम् । अ॒वो॒चा॒म॒ । सु॒॑वृ॒क्तिम् ।
अग्ने᳚ । प्र । अ॒व॒ । ज॒रि॒तार᳚म् । य॒वि॒ष्ठ॒ । अग्ने᳚ । महि᳚ । द्रवि᳚णम् । आ । य॒ज॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नये ब्रह्म स्तोत्रमृभवो मेधाविनस्ततक्षुः। अकुर्वन्। वयं च महां महान्तमग्निं प्रति सुवृक्तिं स्तुतिमवोचाम। हे यविष्ठ युवतमाग्ने जरितारं स्तोतारं प्राव। प्ररक्ष। हे अग्ने महि महद्द्रविणं धनमा यजस्व। प्रयच्छेत्यर्थः। अत्र प्रतिवाक्यमग्न्यभिधानं तस्य स्तुत्यत्वप्रदर्शनार्थम्॥७॥