श्रवणम्

10.80.5 समानपद
अ॒ग्निमु॒क्थैरृष᳚यो॒ वि ह्व᳚यन्ते॒॑ग्निं नरो॒ याम᳚नि बाधि॒तासः᳚ ।
अ॒ग्निं वयो᳚ अ॒न्तरि᳚क्षे॒ पत᳚न्तो॒॑ग्निः स॒हस्रा॒ परि᳚ याति॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । उ॒क्थैः । ऋष᳚यः । वि । ह्व॒य॒न्ते॒ । अ॒ग्निम् । नरः᳚ । याम᳚नि । बा॒धि॒तासः᳚ ।
अ॒ग्निम् । वयः᳚ । अ॒न्तरि᳚क्षे । पत᳚न्तः । अ॒ग्निः । स॒हस्रा᳚ । परि᳚ । या॒ति॒ । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निमुक्थैः शस्त्रैरुषयः पूर्वे वि ह्वयन्ते। विविधमाह्वयन्ति यज्ञे स्वीये। अग्निं नरो मनुष्या यामनि सङ्ग्रामे। यातिर्वधकर्मसु पठितः। बाधितासः शत्रुभ्यो बाधिताः प्राप्नुवन्ति जयार्थम्। तथाग्निं वयः पक्शिणोऽन्तरिक्षे पतन्तः पश्यन्ति रात्रिषु। तस्मादिमाम् वयांसि नक्तं नाध्यासते। तै. सं. ५-६-४-४। इति ब्राह्मणम्। यद्वा। दावभूतमग्निमन्तरिक्षगा वयः पतन्ति। तथाग्निर्गोनां सहस्रा सहस्राणि परि परितो याति। गच्छति॥५॥