श्रवणम्

10.116.5
नि ति॒ग्मानि᳚ भ्रा॒शय॒न्भ्राश्या॒न्यव᳚ स्थि॒रा त᳚नुहि यातु॒जूना᳚म् ।
उ॒ग्राय᳚ ते॒ सहो॒ बलं᳚ ददामि प्र॒तीत्या॒ शत्रू᳚न्विग॒देषु᳚ वृश्च ॥
▶ पदपाठः (Word-by-word)
नि । ति॒ग्मानि᳚ । भ्रा॒शय᳚न् । भ्राश्या᳚नि । अव᳚ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒॑जूना᳚म् ।
उ॒ग्राय᳚ । ते॒ । सहः᳚ । बल᳚म् । द॒दा॒मि॒ । प्र॒ति॒॑इत्य᳚ । शत्रू᳚न् । वि॒॑ग॒देषु᳚ । वृ॒श्च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र भ्राश्यानि प्रकाश्यानि तिग्मानि तीक्ष्णान्यायुधानि नितरां भ्राशयन् प्रकाशयन्। भ्राशृ दीप्तौ। स त्वं यातुजूनाम्। जु इति सौत्रो धातुः। भ्राजभासेत्यत्र जवतेर्दीर्घः। का. ३-२-१७७-१। क्विप्चेति क्विप्। दीर्घस्यामि नुडागमश्छान्दसः। यातुधानानां स्थिरा स्थिराणि दृढान्यपि शरीराण्यव तनुहि। अवस्तात्तनुभूतान्पातय। उग्रायोद्गूर्णबलाय ते तुभ्यं सहः शत्रुसहनसमर्थं बलं बल्हेतुकं हविर्ददामि। अहं प्रयच्छामि। ततो विगदेषु । विविधं गदन्ति शब्दायन्ते। गदेर्घञर्थे कविधानमित्यधिकरने कः। शत्रून्प्रतीत्य प्रतिगम्य प्रतिकूलं गत्वा वृश्च । तांश्छिन्द्धि। ओव्रश्चू छेदने तौदादिकस्य लोट्॥५॥