श्रवणम्

10.28.11
तेभ्यो᳚ गो॒धा अ॒यथं᳚ कर्षदे॒तद्ये ब्र॒ह्मणः᳚ प्रति॒पीय॒न्त्यन्नै᳚ः ।
सि॒म उ॒क्ष्णो᳚॑वसृ॒ष्टा{4} अ᳚दन्ति स्व॒यं बला᳚नि त॒न्व᳚ः शृणा॒नाः ॥
▶ पदपाठः (Word-by-word)
तेभ्यः᳚ । गो॒धाः । अ॒यथ᳚म् । क॒र्ष॒त् । ए॒तत् । ये । ब्र॒ह्मणः᳚ । प्र॒ति॒॑पीय᳚न्ति । अन्नैः᳚ ।
सि॒मः । उ॒क्ष्णः । अ॒व॒॑सृ॒ष्टान् । अ॒द॒न्ति॒ । स्व॒यम् । बला᳚नि । त॒न्वः᳚ । शृ॒णा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुदादिदेवगणाः ब्रह्मणः परिवृढस्येन्द्रस्य स्वभूतैरन्नैः सोमाख्यैः तृप्ताः सन्तः इति शेषः प्रतिपीयन्ति । पीयतिर्हिंसाकर्मा इन्द्रादेशाद्धिंसकान्प्रतिहिंसन्ति । तेभ्यः तेषां देवगणा नामर्थाय गोधाः पूर्वोक्ता गायत्री अयथं अनायासेन एतत्सोमजातं कर्षदाकृष्टवती । किञ्च सिमः सिमान् श्रेष्ठान् यद्वा सिमशब्दः सर्वशब्दपर्यायः सर्वानुक्ष्णः सिञ्चतः अवसृष्टान् इन्द्रेण निसृष्टान् अनुज्ञातान् हविर्भूतान् सोमान् यज्ञेष्वदन्ति । किंकुर्वन्तः स्वयमात्मनैव बलानि शत्रूणां सैन्यानि तन्वः शरीराणि च श्रृणानाः हिंसन्तः गायत्रीन्द्रादेशाद्देवेभ्यः सोममाहृत वतीत्यर्थः ॥ ११ ॥