श्रवणम्

10.28.5
क॒था त᳚ ए॒तद॒हमा चि᳚केतं॒ गृत्स᳚स्य॒ पाक᳚स्त॒वसो᳚ मनी॒षाम् ।
त्वं नो᳚ वि॒द्वा{4} ऋ᳚तु॒था वि वो᳚चो॒ यमर्धं᳚ ते मघवन्क्षे॒म्या धूः ॥
▶ पदपाठः (Word-by-word)
क॒था । ते॒ । ए॒तत् । अ॒हम् । आ । चि॒के॒त॒म् । गृत्स᳚स्य । पाकः᳚ । त॒वसः᳚ । म॒नी॒षाम् ।
त्वम् । नः॒ । वि॒द्वान् । ऋ॒तु॒॑था । वि । वो॒चः॒ । यम् । अर्ध᳚म् । ते॒ । म॒घ॒॑व॒न् । क्षे॒म्या । धूः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पाकः पक्तव्यप्रज्ञोहं गृत्सस्य मेधाविनस्तवसोवृद्धस्य ते तव मनीषां स्तुतिं कर्तुमिति शेषः एतदीदृशं त्वदीयं सामर्थ्यं कथा कथं केन प्रकारेण आचिकेतं आसमंता- ज्जानामि । त्वदुपदेशं विना न जानामीत्यर्थः । तस्मात्कारणात् विद्वान्सर्वज्ञस्त्वमेव नोस्म भ्यं ऋतुथा काले विवोचः विशेषेण ब्रूहि । हे मघवन् धनवन्निन्द्र ते तव अर्धं यं स्तुत्य वयवं वयं कुर्मः सा स्तुतिः क्षेम्या क्षेमेभवा क्लेशरहिता वोढुं शक्या धूरस्ति यस्मात् अतः स्तुत्यवयवमेव वयमक्लेशॆन कर्तुं न शक्नुमः अस्माकं मंदबुद्धित्वात् । तस्मात्त्वमेवा स्मभ्यं स्वसामर्थ्यं स्तुतिप्रकारं च पुनरपि कथयेत्यर्थः ॥ ५ ॥