श्रवणम्

10.28.2 समानपद
स रोरु᳚वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒ वर्ष्म᳚न्तस्थौ॒ वरि᳚म॒न्ना पृ᳚थि॒व्याः ।
विश्वे᳚ष्वेनं वृ॒जने᳚षु पामि॒ यो मे᳚ कु॒क्षी सु॒तसो᳚मः पृ॒णाति᳚ ॥
▶ पदपाठः (Word-by-word)
सः । रोरु᳚वत् । वृ॒ष॒भः । ति॒ग्म॑शृ᳚ङ्गः । वर्ष्म᳚न् । त॒स्थौ॒ । वरि᳚मन् । आ । पृ॒थि॒व्याः ।
विश्वे᳚षु । ए॒न॒म् । वृ॒जने᳚षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति᳚ । सु॒त॑सो᳚मः । पृ॒णाति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभः कामानां वर्षिता तिग्मश्रृंगः तीक्ष्णरश्मिः सइन्द्रोहं पृथिव्याअन्तरिक्षस्य वर्ष्मन् वर्ष्मनि वर्ष्मन् शब्दउन्नतवचनः स्थिर्वचनोवा एवंभूते वरिमन् विस्तीर्णे प्रदेशे रोरुवत् भृशं शब्दायमानः सन् आतस्थौ आतिष्ठामि । एवं भूतोहं विश्वेषु सर्वेषु वृजनेफ़्द्षु संग्रा- मेषु एनमीदृशं वसुक्रं यजमानं पामि रक्षामि योयजमानः सुतसोमः अभिषुतसोमः मे मम कुक्षी उभौ पार्श्वौ पृणाति सोमरसपुरोडाशादिहविर्भिः पूरयति ईदृशं रक्षामीति संबंधः ॥ २ ॥