श्रवणम्

10.28.9
श॒शः क्षु॒रं प्र॒त्यञ्चं᳚ जगा॒राद्रिं᳚ लो॒गेन॒ व्य᳚भेदमा॒रात् ।
बृ॒हन्तं᳚ चिदृह॒ते र᳚न्धयानि॒ वय᳚द्व॒त्सो वृ᳚ष॒भं शूशु᳚वानः ॥
▶ पदपाठः (Word-by-word)
श॒शः । क्षु॒रम् । प्र॒त्यञ्च᳚म् । ज॒गा॒र॒ । अद्रि᳚म् । लो॒गेन᳚ । वि । अ॒भे॒द॒म् । आ॒रात् ।
बृ॒हन्त᳚म् । चि॒त् । ऋ॒ह॒ते । र॒न्ध॒या॒नि॒ । वय᳚त् । व॒त्सः । वृ॒ष॒भम् । शूशु᳚वानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुक्रइन्द्रंप्रति ब्रूते—शशः एतत्संज्ञितोमया प्रेरितोमृगविशेषः प्रत्यञ्चं वधायात्मानं प्र- तिगच्छन्तं क्षुरं क्षुरवन्तं दृढदीर्घतीक्ष्णनखं सिंहव्याघ्नादिकं बलवत्क्रूरमृगमित्यर्थः जगार गिरति गृह्णानि वा । किञ्च लोगेन लोष्टेन अद्रिं हिमवदादिकं पर्वतं आराद्दूरस्थितमपि व्यभेदं अहं भिनद्मि । बृहन्तं चित् महान्तमपि हस्त्यादिकं ऋहते ह्रस्वकाय अल्पाय शशकादिकाय रंधयानि वशंगमयानि । शूशुवानः वीर्येण वर्धमानोवत्सः वृषभं महोक्षं वयत् युद्धाय गच्छति । हे इन्द्र एतदपि सर्वं त्वत्प्रसादादहं करोमीत्यर्थः ॥ ९ ॥