श्रवणम्

10.28.1
विश्वो॒ ह्य१॒᳚न्यो अ॒रिरा᳚ज॒गाम॒ ममेदह॒ श्वशु᳚रो॒ ना ज᳚गाम ।
ज॒क्षी॒याद्धा॒ना उ॒त सोमं᳚ पपीया॒त्स्वा᳚शित॒ः पुन॒रस्तं᳚ जगायात् ॥
▶ पदपाठः (Word-by-word)
विश्वः᳚ । हि । अ॒न्यः । अ॒रिः । आ॒॑ज॒गाम᳚ । मम᳚ । इत् । अह᳚ । श्वशु᳚रः । न । आ । ज॒गा॒म॒ ।
ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम᳚म् । प॒पी॒या॒त् । सु॑आ᳚शितः । पुनः᳚ । अस्त᳚म् । ज॒गा॒या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया वसुक्रपत्नी स्तौति—अन्यइन्द्रव्यतिरिक्तः अरिः अर्यः ईश्वरः विश्वोहि सर्वएव देवगणआजगाम अस्मद्यज्ञं प्रत्याययौ । इदित्यवधारणे अहेत्यद्भुते । सर्वदेवगणे आगते सति ममैव श्वशुरः इन्द्रोनाजगाम सइन्द्रोयद्यागच्छेत्तर्हि धानाः भृष्टयवान् जक्षीयात् भक्षयेत् । उतापिच सोममभिषुतं पपीयात् ततः स्वाशितः सुष्ठु भुक्तः तृप्तः सन् पुनर्भूयः अस्तं स्वगृहं प्रति जगायात् गच्छेत् ॥ १ ॥