अद्रि᳚णा ते म॒न्दिन᳚ इन्द्र॒ तूया᳚न्त्सु॒न्वन्ति॒ सोमा॒न्पिब᳚सि॒ त्वमे᳚षाम् ।
पच᳚न्ति ते वृष॒भा{4} अत्सि॒ तेषां᳚ पृ॒क्षेण॒ यन्म᳚घवन्हू॒यमा᳚नः ॥
पच᳚न्ति ते वृष॒भा{4} अत्सि॒ तेषां᳚ पृ॒क्षेण॒ यन्म᳚घवन्हू॒यमा᳚नः ॥
पदपाठः (Word-by-word)
अद्रि᳚णा । ते॒ । म॒न्दिनः᳚ । इ॒न्द्र॒ । तूया᳚न् । सु॒न्वन्ति᳚ । सोमा᳚न् । पिब᳚सि । त्वम् । ए॒षा॒म् ।
पच᳚न्ति । ते॒ । वृ॒ष॒भान् । अत्सि᳚ । तेषा᳚म् । पृ॒क्षेण᳚ । यत् । म॒घ॒॑व॒न् । हू॒यमा᳚नः ॥
पच᳚न्ति । ते॒ । वृ॒ष॒भान् । अत्सि᳚ । तेषा᳚म् । पृ॒क्षेण᳚ । यत् । म॒घ॒॑व॒न् । हू॒यमा᳚नः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते त्वदर्थं मन्दिनः मादयितॄन् तूयान् अविलंबितान् सोमान् अद्रिणा अभिष- वग्राद्व्णा सुन्वन्ति यजमानाअभिषुण्वन्ति । एषामस्मदादियजमानानां संबंधीन् सोमान् त्वं पिबसि । किञ्च ते त्वदर्थं वृषभान् पशून् ये यजमानाः पचन्ति तेषां संबंधि हविर्भू- तान् अत्सि भक्षयसि । हे मघवन् धनवन्निन्द्र त्वं यत् यदा पृक्षेण हविर्भूतेनान्नेन निर्मितेन हूयमानः यजमानैर्हूयसे तदेति पूर्वेण संबंधः ॥ ३ ॥