श्रवणम्

10.28.12
ए॒ते शमी᳚भिः सु॒शमी᳚ अभूव॒न्ये हि᳚न्वि॒रे त॒न्व१॒᳚ः सोम᳚ उ॒क्थैः ।
नृ॒वद्वद॒न्नुप᳚ नो माहि॒ वाजा᳚न्दि॒वि श्रवो᳚ दधिषे॒ नाम᳚ वी॒रः ॥
▶ पदपाठः (Word-by-word)
ए॒ते । शमी᳚भिः । सु॒॑शमी᳚ । अ॒भू॒व॒न् । ये । हि॒न्वि॒रे । त॒न्वः᳚ । सोमे᳚ । उ॒क्थैः ।
नृ॒॑वत् । वद᳚न् । उप᳚ । नः॒ । मा॒हि॒ । वाजा᳚न् । दि॒वि । श्रवः᳚ । द॒धि॒षे॒ । नाम᳚ । वी॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवर्ष्यादयः तन्वः शरीराणि सोमे सोमयागे उक्थैः शस्त्रैः हिन्विरे वर्धयन्ति । एते देवादयः इन्द्रादेशात्सोमे आहृते सति शमीभिः सोमयागकर्मभिः सुशमी सुकर्माणः अभू- वन् । नृवत् मनुष्यवद्वदन् इदं युष्मभ्यं मया दत्तमिति व्यक्तां वाचमुद्धारयन् नोस्मभ्यमुप माहि उपगम्य वाजानन्नानि बलानि वा हे इन्द्र त्वं देहीतिशॆषः । अतः कारणात् वीरः दानशूरस्त्वं दिवि द्युलोके श्रवः दानपतिरितिकीर्तितं नाम नामधेयं दधिषे धारयसि ॥ १२ ॥

वनेवेत्यष्टर्चं त्रयोदशं सूक्तं वसुक्रस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रान्तंच—वनेनाष्टाविति । चतुर्थे हनि स्तोमवृद्धौ ब्राह्मणाच्छंसिनएतत्सूक्तमावापार्थम् । सूत्रितञ्च—स्तोमेवर्धमानेकोअद्यनर्यो वनेनवायइति । महाव्रते निष्केवल्येप्येतत्सूक्तम् । सूत्रितंच—प्रवोमहेमन्दमानायांधसइतिनिवि- द्धानंवनेनवायोन्यधायिचाकन्निति ।