दे॒वास᳚ आयन्पर॒शू{4}र᳚बिभ्र॒न्वना᳚ वृ॒श्चन्तो᳚ अ॒भि वि॒ड्भिरा᳚यन् ।
नि सु॒द्र्वं१॒᳚ दध᳚तो व॒क्षणा᳚सु॒ यत्रा॒ कृपी᳚ट॒मनु॒ तद्द᳚हन्ति ॥
नि सु॒द्र्वं१॒᳚ दध᳚तो व॒क्षणा᳚सु॒ यत्रा॒ कृपी᳚ट॒मनु॒ तद्द᳚हन्ति ॥
पदपाठः (Word-by-word)
दे॒वासः᳚ । आ॒य॒न् । प॒र॒शून् । अ॒बि॒भ्र॒न् । वना᳚ । वृ॒श्चन्तः᳚ । अ॒भि । वि॒ट्॑भिः । आ॒य॒न् ।
नि । सु॒॑द्र्व᳚म् । दध᳚तः । व॒क्षणा᳚सु । यत्र᳚ । कृपी᳚टम् । अनु᳚ । तत् । द॒ह॒न्ति॒ ॥
नि । सु॒॑द्र्व᳚म् । दध᳚तः । व॒क्षणा᳚सु । यत्र᳚ । कृपी᳚टम् । अनु᳚ । तत् । द॒ह॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवासोदेवाः इन्द्रेण चोदिताः सन्तः आयन् गच्छन्ति मेघवधार्थं परशून् वज्रान् अबि- भ्रन् धारयन्ति तदनंतरं विङ्भिः मरुदादिप्रजाभिः सहितावृश्चद्न्तः मेघान् छिन्दन्तः वना वनानि वृष्टिलक्षणान्युदकानि अभ्यायन् आभिमुख्येन गच्छन्ति । ततः सुद्र्वं शोभनद्रवणं वृष्ट्युदकं वक्षणासु नदीषु निदधतः नियमेन स्थापयन्तः यत्र यस्मिन्मेघजाते कृपीटं उदकनामैतत् निगूढमुदकं तिष्ठति तइमे देवाः तन्मेघजातं अनुलक्षीकृत्य दहन्ति उदकनि- र्गमनार्थं शोषयन्ति ॥ ८ ॥