अ॒ष्टौ पु॒त्रासो॒ अदि᳚ते॒र्ये जा॒तास्त॒न्व१॒᳚स्परि᳚ ।
दे॒वा{4} उप॒ प्रैत्स॒प्तभि॒ः परा᳚ मार्ता॒ण्डमा᳚स्यत् ॥
दे॒वा{4} उप॒ प्रैत्स॒प्तभि॒ः परा᳚ मार्ता॒ण्डमा᳚स्यत् ॥
पदपाठः (Word-by-word)
अ॒ष्टौ । पु॒त्रासः᳚ । अदि᳚तेः । ये । जा॒ताः । त॒न्वः᳚ । परि᳚ ।
दे॒वान् । उप᳚ । प्र । ऐ॒त् । स॒प्त॑भिः᳚ । परा᳚ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥
दे॒वान् । उप᳚ । प्र । ऐ॒त् । स॒प्त॑भिः᳚ । परा᳚ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥
सायणभाष्यम् (Sayana Commentary)
अष्टौ पुत्रासः पुत्रा मित्रादयोऽदितेर्भवन्ति येऽदितेस्तन्वः परि शरीराज्जाता उत्पन्नाः। अदितेरष्टौ पुत्रा अध्वर्युब्राह्मणे परिगणिताः। तथाहि। ताननुक्रमिष्यामो मित्रश्च वरुनश्च धाता चार्यमा चांश्च भगश्च विवस्वानादित्यश्चेति। तथा तत्रैव प्रदेशान्तरेऽदितिं प्रस्तुत्याम्नातम् । तस्या उच्छेषणमददुस्तत्प्रश्नात् सा रेतोऽधत्ततस्मै चत्वार आदित्या अजायन्त सा द्वितीयमपचदित्यष्टानामादित्यानामुत्पत्तिर्वर्णिता। तै. सं. ६-५-६-१॥ सादितिः सप्तभिः पुत्रैर्देवानुपप्रैत्। उपागच्छत्। अष्टमम् पुत्रं मार्ताण्डं सूर्यं परास्यत्। उपरि प्राक्षिपदित्यर्थः॥८॥