यद्दे᳚वा॒ यत᳚यो यथा॒ भुव᳚ना॒न्यपि᳚न्वत ।
अत्रा᳚ समु॒द्र आ गू॒ळ्हमा सूर्य᳚मजभर्तन ॥
अत्रा᳚ समु॒द्र आ गू॒ळ्हमा सूर्य᳚मजभर्तन ॥
पदपाठः (Word-by-word)
यत् । दे॒वाः॒ । यत᳚यः । य॒था॒ । भुव᳚नानि । अपि᳚न्वत ।
अत्र᳚ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य᳚म् । अ॒ज॒भ॒र्त॒न॒ ॥
अत्र᳚ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य᳚म् । अ॒ज॒भ॒र्त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा हे देवाः यतयो यथा। वृष्त्या इयमयन्तिति वा वर्षणेन यातयन्तिति वा यतयो मेघाः। ते यथोदकैर्भुवनानि लोकं पूरयन्ति तद्वत्स्वतेजोभिरपिन्वत। पूरिवन्तः। अत्र समुद्रेऽप्स्वा गूळ्हं निगूळ्हं सूर्यं प्रातरुदयायाजभर्तन। आहृतवन्तः॥७॥