स॒प्तभि᳚ः पु॒त्रैरदि᳚ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् ।
प्र॒जायै᳚ मृ॒त्यवे᳚ त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ᳚रत् ॥
प्र॒जायै᳚ मृ॒त्यवे᳚ त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ᳚रत् ॥
पदपाठः (Word-by-word)
स॒प्त॑भिः᳚ । पु॒त्रैः । अदि᳚तिः । उप᳚ । प्र । ऐ॒त् । पू॒र्व्यम् । यु॒गम् ।
प्र॒॑जायै᳚ । मृ॒त्यवे᳚ । त्व॒त् । पुनः᳚ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥
प्र॒॑जायै᳚ । मृ॒त्यवे᳚ । त्व॒त् । पुनः᳚ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वमन्त्रोक्त एवार्थह् पुनरत्रोच्यते। सप्तभिर्माताण्डव्यतिरिक्तैर्मित्रादिभिरदितिः पूर्व्यं पुराणम् युगमुपप्रैत्। उपगता। अथ प्रजायै प्रानिनामुत्पत्तये मृत्यवे तेषाम् मरणाय मार्ताण्डं म्रुताद्व्यृद्धादण्डाज्जातं मार्ताण्डनामानं सुर्यं पुनराभरत्। आहरत्। द्युलोकेऽधारयत्। प्राणिमरणजननादीनां सूर्योदयास्तमयायत्तता स्फुटा। तस्यै व्यृद्धमाण्डमजायतेत्यादि ब्राह्मणम्। तै. सं. ६-५-६-१। इति॥९॥