श्रवणम्

10.72.5
अदि᳚ति॒र्ह्यज᳚निष्ट॒ दक्ष॒ या दु᳚हि॒ता तव᳚ ।
तां दे॒वा अन्व᳚जायन्त भ॒द्रा अ॒मृत᳚बन्धवः ॥
▶ पदपाठः (Word-by-word)
अदि᳚तिः । हि । अज᳚निष्ट । दक्ष᳚ । या । दु॒हि॒ता । तव᳚ ।
ताम् । दे॒वाः । अनु᳚ । अ॒जा॒य॒न्त॒ । भ॒द्राः । अ॒मृत᳚॑बन्धवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितिदेवताके पशावदितिर्ह्यजनिष्टेत्येषा हविषोऽनुवाक्या। सूत्रितं च। अदितिर्ह्यजनिष्ट सुत्रामाणम् पृथिवीं द्यामनेहसं॥ आ. ३-८॥ इति॥

हे दक्ष तव या दुहिताभूत् सादितिरजनिष्ट हि पुत्रानदित्यान्। तदेवाह। तां देवा अन्वजायन्त भद्राः स्तुत्या भजनीया अमृतबन्धवोऽमरणबन्धनाः॥५॥