यद्दे᳚वा अ॒दः स᳚लि॒ले सुसं᳚रब्धा॒ अति᳚ष्ठत ।
अत्रा᳚ वो॒ नृत्य᳚तामिव ती॒व्रो रे॒णुरपा᳚यत ॥
अत्रा᳚ वो॒ नृत्य᳚तामिव ती॒व्रो रे॒णुरपा᳚यत ॥
पदपाठः (Word-by-word)
यत् । दे॒वाः॒ । अ॒दः । स॒लि॒ले । सु॑सं᳚रब्धाः । अति᳚ष्ठत ।
अत्र᳚ । वः॒ । नृत्य᳚ताम्॑इव । ती॒व्रः । रे॒णुः । अप᳚ । आ॒य॒त॒ ॥
अत्र᳚ । वः॒ । नृत्य᳚ताम्॑इव । ती॒व्रः । रे॒णुः । अप᳚ । आ॒य॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
अनयोत्तरेण चादित्याः स्तूयन्ते। यद्यदा हे देवाः अदोऽमुष्मिन्सलिले यूयं सुसंरब्द्धाः सुष्ठु लब्धात्मनोऽतिष्थत स्थिवन्तः। आपो वा इदं सर्वम् । तै. आ. १०-२२। अप एव ससर्जादाविति श्रुतिस्मृती। अत्रास्मिन्सलिले नृत्यतामिव वो युश्माकं सम्बन्धी तीव्रो दुःसहो रेणुरंशभुत एकोऽपायत। अपागच्छत्। दिवं प्रति गत इति सूर्याभिप्रायम् । परा मार्ताण्डमास्यदिति वक्ष्यति॥६॥