श्रवणम्

10.72.4
भूर्ज᳚ज्ञ उत्ता॒नप᳚दो भु॒व आशा᳚ अजायन्त ।
अदि᳚ते॒र्दक्षो᳚ अजायत॒ दक्षा॒द्वदि᳚ति॒ः परि᳚ ॥
▶ पदपाठः (Word-by-word)
भूः । ज॒ज्ञे॒ । उ॒त्ता॒न॑प᳚दः । भु॒वः । आशाः᳚ । अ॒जा॒य॒न्त॒ ।
अदि᳚तेः । दक्षः᳚ । अ॒जा॒य॒त॒ । दक्षा᳚त् । ऊं॒ इति᳚ । अदि᳚तिः । परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भूरुत्तानपदो वृक्षाज्जज्ञे। तथा भुवः सकाशादाशा अजायन्त। तथादितेर्दक्षोऽजायत। उत्पन्नः। दक्षादु दक्षादिप्यदितिः पर्यजायत। न स्वोत्पन्नं कार्यम् स्वस्यैव कारनमपि भवतिति विप्रतिषिद्धमिति वाच्यम्। यास्काचार्य इदमेव वाक्यमुदाहृत्य विरोधमाशङ्क्य पर्यहरत्। तथा हि। अदितेर्दक्षो अजायत दक्षाद्वदितिः परीति च तत्कथमुपपद्येत समानजन्मानौ स्यातामित्यपि वा देवधर्मेणेतरेतरजन्मानौ स्यातामितरेतरप्रकृती। नि. ११-२३। इति॥४॥