श्रवणम्

10.72.3
दे॒वानां᳚ यु॒गे प्र᳚थ॒मे॑स᳚त॒ः सद᳚जायत ।
तदाशा॒ अन्व᳚जायन्त॒ तदु᳚त्ता॒नप᳚द॒स्परि᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वाना᳚म् । पू॒र्व्ये । यु॒गे । अस᳚तः । सत् । अ॒जा॒य॒त॒ ।
तत् । आशाः᳚ । अनु᳚ । अ॒जा॒य॒न्त॒ । तत् । उ॒त्ता॒न॑प᳚दः । परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वार्धमुक्तम्। तदन्वाशा दिशोऽजायन्त। तत्परि। तदन्वित्यर्थः। उत्तानपदः। उत्तानमूर्ध्वतानं पद्यन्त इत्युत्तानपदो वृक्षाः। तेऽजायन्त। प्रदुरभवन्॥३॥