स जा॒तो गर्भो᳚ असि॒ रोद᳚स्यो॒रग्ने॒ चारु॒र्विभृ᳚त॒ ओष᳚धीषु ।
चि॒त्रः शिशु॒ः परि॒ तमां᳚स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि᳚क्रदद्गाः ॥
चि॒त्रः शिशु॒ः परि॒ तमां᳚स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि᳚क्रदद्गाः ॥
पदपाठः (Word-by-word)
सः । जा॒तः । गर्भः᳚ । अ॒सि॒ । रोद᳚स्योः । अग्ने᳚ । चारुः᳚ । वि॑भृ᳚तः । ओष᳚धीषु ।
चि॒त्रः । शिशुः᳚ । परि᳚ । तमां᳚सि । अ॒क्तून् । प्र । मा॒तृ॑भ्यः᳚ । अधि᳚ । कनि᳚क्रदत् । गाः॒ ॥
चि॒त्रः । शिशुः᳚ । परि᳚ । तमां᳚सि । अ॒क्तून् । प्र । मा॒तृ॑भ्यः᳚ । अधि᳚ । कनि᳚क्रदत् । गाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने जातउत्पन्नः चारुः कल्याणरूपः ओषधीषु ओषधिविकारेष्वरणीषु विभृतः वि- शेषेण मथितः आहवनीयाद्यात्मना विविधं ह्रियमाणः ओषधीषु वर्तमानः सत्वं रोदस्यो- र्द्यावापृथिव्योर्गर्भोसि गर्भोभवसि अग्निरूपआदित्यरूपश्चेति । किंच चित्रश्चित्रवर्णः काली करालीचमनोजवेत्यादिसप्तजिह्वादिभिर्नानारूपः यद्वा चित्रश्चायनीयः शिशुः ओषधीनां शिशुः अग्निः तमांसि अक्तून् रात्रिवत् कृष्णान् शत्रूंश्च परिभवसि स्वतेजसा अभिभवसि सत्वं मातृभ्यः मातृरूपाभ्यः ओषधीभ्यः अधिः पंचम्यर्थद्योतकः ताभ्यः कनिक्रदत् पुनः पुनः शब्दंकुर्वन् प्रगाः प्रगच्छसि प्रजायसे ॥ २ ॥