श्रवणम्

10.1.6 समानपद
स तु वस्त्रा॒ण्यध॒ पेश᳚नानि॒ वसा᳚नो अ॒ग्निर्नाभा᳚ पृथि॒व्याः ।
अ॒रु॒षो जा॒तः प॒द इळा᳚याः पु॒रोहि᳚तो राजन्यक्षी॒ह दे॒वान् ॥
▶ पदपाठः (Word-by-word)
सः । तु । वस्त्रा᳚णि । अध᳚ । पेश᳚नानि । वसा᳚नः । अ॒ग्निः । नाभा᳚ । पृ॒थि॒व्याः ।
अ॒रु॒षः । जा॒तः । प॒दे । इळा᳚याः । पु॒रः॑हि᳚तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् दीप्यमानाग्ने वस्त्राणि आच्छादकानि तेजांसि अध अपिच पेशनानि तेषां तेजसां काष्णर्यशौक्ल्यादीनि रूपाणि यद्वा अधानन्तरं पेशनानि पेशइति हिरण्यनाम हिरण्यवत् हिरण्यसदृशानि भास्वराणि तेजांसि वसान आच्छादयन् पृथिव्यानाभा नाभौ नाभिस्थानीये इळायास्पदे उत्तरवेद्याम् । एतद्वा इळायास्पदंयदुत्तरवेदीनाभिरित्याम्नानात् । तस्यां जातः समुत्पन्नः अरुषः आरोचमानोयोग्निः एवं विधोसि सत्वं पुरोहितः पुरतोनि- हितः पूर्वस्यां दिशि आहवनीयायतने स्थापितः सन् इहास्मिन्यज्ञे देवान् इन्द्रादीन् यक्षि पूजय ॥ ६ ॥