होता᳚रं चि॒त्रर᳚थमध्व॒रस्य᳚ य॒ज्ञस्य᳚यज्ञस्य के॒तुं रुश᳚न्तम् ।
प्रत्य᳚र्धिं दे॒वस्य᳚देवस्य म॒ह्ना श्रि॒या त्व१॒᳚ग्निमति᳚थिं॒ जना᳚नाम् ॥
प्रत्य᳚र्धिं दे॒वस्य᳚देवस्य म॒ह्ना श्रि॒या त्व१॒᳚ग्निमति᳚थिं॒ जना᳚नाम् ॥
पदपाठः (Word-by-word)
होता᳚रम् । चि॒त्र॑र᳚थम् । अ॒ध्व॒रस्य᳚ । य॒ज्ञस्य᳚॑यज्ञस्य । के॒तुम् । रुश᳚न्तम् ।
प्रति᳚॑अर्धिम् । दे॒वस्य᳚॑देवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति᳚थिम् । जना᳚नाम् ॥
प्रति᳚॑अर्धिम् । दे॒वस्य᳚॑देवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति᳚थिम् । जना᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
अध्वरस्य यज्ञस्य होतारं एतन्नामानं ऋत्विजं यद्वा होतारं देवानामाह्वातारं चित्र- रथं नानारूपरथं अध्वरस्य रक्षोभिरहिंसितस्य यज्ञस्ययज्ञस्य सर्वस्य यज्ञस्य केतुं प्रज्ञा- पकं पताकास्थानीयंवा रुशंतं श्वेतवर्णं महा स्वमहत्वेन देवस्यदेवस्य सर्वेषां देवानां प्र- त्यर्धिं इन्द्रं प्रति भवन्तम् । यत् सर्वेषामार्धिमिन्द्रंप्रतीतिब्राह्मणम् । तादृशं जनानां यजमा- नानामतिथिं अतिथिवत्पूज्यं अग्निं तु क्षिप्रं श्रिया श्रियेर्थं वयं स्तुमः ॥ ५ ॥