अत᳚ उ त्वा पितु॒भृतो॒ जनि᳚त्रीरन्ना॒वृधं॒ प्रति᳚ चर॒न्त्यन्नै᳚ः ।
ता ईं॒ प्रत्ये᳚षि॒ पुन᳚र॒न्यरू᳚पा॒ असि॒ त्वं वि॒क्षु मानु᳚षीषु॒ होता᳚ ॥
ता ईं॒ प्रत्ये᳚षि॒ पुन᳚र॒न्यरू᳚पा॒ असि॒ त्वं वि॒क्षु मानु᳚षीषु॒ होता᳚ ॥
पदपाठः (Word-by-word)
अतः᳚ । ऊं॒ इति᳚ । त्वा॒ । पि॒तु॒॑भृतः᳚ । जनि᳚त्रीः । अ॒न्न॒॑वृध᳚म् । प्रति᳚ । च॒र॒न्ति॒ । अन्नैः᳚ ।
ताः । ई॒म् । प्रति᳚ । ए॒षि॒ । पुनः᳚ । अ॒न्य॑रू᳚पाः । असि᳚ । त्वम् । वि॒क्षु । मानु᳚षीषु । होता᳚ ॥
ताः । ई॒म् । प्रति᳚ । ए॒षि॒ । पुनः᳚ । अ॒न्य॑रू᳚पाः । असि᳚ । त्वम् । वि॒क्षु । मानु᳚षीषु । होता᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने अतउइत्यवधारणे अस्मादेवकारणात् पितुभृतः पितुनान्नेन सर्वस्य जगतोधार यित्र्यः पोषयित्र्योवा जनित्रीः जनयित्र्यः ओषधयः अन्नावृधं अन्नस्य वर्धकं त्वा त्वां अन्नैर्हेतुभिः प्रतिचरन्ति परिचरन्ति । अभिगच्छन्ति ततस्त्वं ईमेनास्ताओषधीः प्रत्येषि प्रतिगच्छसि । पुनरपि अन्यरूपाः जीर्णाः ओषधीः दावभूतस्त्वं गच्छसि । किंच मानुषी- षु मनुष्यजातिषु विक्षु प्रजासु यद्वा विक्षु अग्निहोत्रादिक्रियास्वभिनिविशन्तीषु मानुषीषु मनुष्यजातिषु होता देवानामाह्वाता होमनिष्पादकोवा असि भवसि । मनुष्येषु स्थित- इत्यर्थे ब्राह्मणम्—देवोह्येषमर्त्ये ष्विति ॥ ४ ॥ आतिथ्यायां स्विष्टकृतोनुवाक्या होतारमित्येषा । सूत्रितंच—होतारं चित्ररथमध्वरस्य प्रप्रायमग्निर्भरतस्यश्रृण्वइति संयाज्येइति ।