विष्णु᳚रि॒त्था प᳚र॒मम᳚स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा᳚ति तृ॒तीय᳚म् ।
आ॒सा यद᳚स्य॒ पयो॒ अक्र᳚त॒ स्वं सचे᳚तसो अ॒भ्य᳚र्च॒न्त्यत्र᳚ ॥
आ॒सा यद᳚स्य॒ पयो॒ अक्र᳚त॒ स्वं सचे᳚तसो अ॒भ्य᳚र्च॒न्त्यत्र᳚ ॥
पदपाठः (Word-by-word)
विष्णुः᳚ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय᳚म् ।
आ॒सा । यत् । अ॒स्य॒ । पयः᳚ । अक्र᳚त । स्वम् । स॑चे᳚तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र᳚ ॥
आ॒सा । यत् । अ॒स्य॒ । पयः᳚ । अक्र᳚त । स्वम् । स॑चे᳚तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र᳚ ॥
सायणभाष्यम् (Sayana Commentary)
परमं उत्कृष्टं विद्वान् जानानः जातः प्रादुर्भूतोबृहन् महान् इत्था इत्थमनेन प्रकारेण विष्णुः व्यापनशीलः ज्ञानादिगुणयुक्तोग्निः अस्य इमे तृतीयं त्रयाणां पूरकं त्रितं मां अभि- पाति अभिरक्षतु । एकतोद्वितस्त्रितइति त्रयोबभूवुरिति यास्केनोक्तम् । किंच अस्याग्नेः स्व- मात्मीयं पयउदकं आसा आस्येन यद्यदा अक्रत कुर्वन्ति यजमानायाचन्ते तदानीं अत्रा- स्मिन्लोके स्थिताः स्तोतारः सचेतसः समानमनस्काभूत्वा एनमभ्यर्चन्ति अभिष्टुवन्ति ॥ ३ ॥