द्वितीयं मण्डलम् - सूक्तम् 9

6 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 2.9 - सम्पूर्णम्

1 / 6
ऋक्: 2.9.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
2.9.1
नि होता᳚ होतृ॒षद᳚ने॒ विदा᳚नस्त्वे॒षो दी᳚दि॒वा{4} अ᳚सदत्सु॒दक्ष᳚ः ।
अद᳚ब्धव्रतप्रमति॒र्वसि᳚ष्ठः सहस्रम्भ॒रः शुचि᳚जिह्वो अ॒ग्निः ॥
▶ पदपाठः (Word-by-word)
नि । होता᳚ । हो॒तृ॒॑सद᳚ने । विदा᳚नः । त्वे॒षः । दी॒दि॒॑वान् । अ॒स॒द॒त् । सु॒॑दक्षः᳚ ।
अद᳚ब्धव्रत॑प्रमतिः । वसि᳚ष्ठः । स॒ह॒स्र॒म्॑भ॒रः । शुचि᳚॑जिह्वः । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिः श्वसितंवेदायोवेदेभ्योऽखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

वागीशाद्याःसुमनसः सर्वार्थानामुपक्रमे । यंनत्वाकृतकृत्याःस्युस्तंनमामिगजाननम् ॥ २ ॥

निहोतेतिषळ्रुचंनवमंसूक्तंगृत्समदस्यार्षं निहोतेत्यनुक्रान्तत्वात् अनुक्तत्वान्त्रिष्टुप् मण्डलादिपरि- भाषयाग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौत्रैष्टुभेछन्दस्यस्यविनियोगःअथैतस्याइतिखण्डे- सूत्रितम्—निहोताहोतृषदनइतिसूक्तेइति अग्निप्रणयनेआद्येऋचौविनियुक्ते पञ्चम्यांपौर्णमास्यामि- तिखण्डेसूत्रितम्—निहोताहोतृषदनेविदानइतिद्वेइति ।

ग्रुत्समदःस्तौति होतादेवानामाह्वाताविदानोविद्वान् त्वेषः प्रवृद्धः दीदिवान् दीप्यमानः सुदक्षः शोभनबलः अदब्धव्रतप्रमतिः अदब्धानिअहिंसितानिव्रतानिकर्माणियस्याःसाअदब्धव्रतप्रमतिः प्रकृ- ष्टाबुद्धिःयस्य सतथोक्तः वसिष्ठः सर्वस्यवासयितृतमः वासयतेस्तृजन्तस्यइष्ठनिरूपं सहस्रंभरः सहस्र- स्यानेकविधस्यभर्ताविहरणेननानाविधरूपस्यधारकइत्यर्थः यद्वा सहस्रस्यसर्वस्यभर्ता तथाचवाज- सनेयकेम्—सर्वंवैसहस्रंसर्वंभरइत्येवतदाहेति । शुचिजिह्वः शुचिर्दीप्ताजिह्वाज्वालायस्यसतथोक्तः एवंभूतोग्निः होतृषदने होतात्रसीदतीतिहोतृषदनमुत्तरावेदी अधिकरणेल्युट् तत्रन्यसदत् नितरांसी- दतु उक्तार्थेब्राह्मणम्—निहोताहोतृषदनेविदानइत्यग्निर्वैदेवानांहोतातस्यैतद्धोतृषदनंयदुत्तरवेदीना- भिस्त्वेषोदीदिवाँअसदत्सुदक्षइत्यासन्नोहिसतर्हिभवत्यदब्धव्रतप्रमतिर्वसिष्ठइत्यग्निर्वैदेवानांवसिष्ठः सहस्रंभरःशुचिजिह्वोअग्निरित्येषाहवाअस्यसहस्रंभरतायदेनमेकंसन्तंबहुधाविहरन्तीति ॥ १ ॥

2.9.2
त्वं दू॒तस्त्वमु᳚ नः पर॒स्पास्त्वं वस्य॒ आ वृ᳚षभ प्रणे॒ता ।
अग्ने᳚ तो॒कस्य᳚ न॒स्तने᳚ त॒नूना॒मप्र᳚युच्छ॒न्दीद्य᳚द्बोधि गो॒पाः ॥
▶ पदपाठः (Word-by-word)
त्वम् । दू॒तः । त्वम् । ऊं॒ इति᳚ । नः॒ । प॒रः॒॑पाः । त्वम् । वस्यः᳚ । आ । वृ॒ष॒भ॒ । प्र॒॑ने॒ता ।
अग्ने᳚ । तो॒कस्य᳚ । नः॒ । तने᳚ । त॒नूना᳚म् । अप्र᳚॑युच्छन् । दीद्य᳚त् । बो॒धि॒ । गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषभ अभिमतफलवर्षक हेअग्ने त्वंदूतः अस्मदीयेयज्ञेदेवाह्वानार्थंदूतोभव त्वमुत्वमेवनोस्माकं प्रस्पाः आपद्भ्यः पारयितापाताचभव किञ्च त्वंवस्योवसुनोधनस्यआप्रणेताअस्मदाभिमुख्येनप्रापयि- ताभव अप्रयुच्छन् अप्रमाद्यन् दीद्यत् दीदयतिर्दीप्तिकर्मा शोभमानः त्वंनोस्माकं तोकस्यपुत्रस्यतने तनोतिविस्तारयतिकुलप्रितितनः पौत्रः तस्मिन् अस्मदीयानांतनूनांगोपाः गोपायितातथाचब्राह्मण- म्—अग्निर्वैदेवानांगोपाअग्निमेवतत्सर्वतोगोप्तारंपरिदत्तआत्मनेचयजमानायँचेति । तादृशस्त्वं- चगोपायिताभवामीतिबोधिबुध्यस्व ॥ २ ॥

2.9.3
वि॒धेम᳚ ते पर॒मे जन्म᳚न्नग्ने वि॒धेम॒ स्तोमै॒रव᳚रे स॒धस्थे᳚ ।
यस्मा॒द्योने᳚रु॒दारि᳚था॒ यजे॒ तं प्र त्वे ह॒वींषि᳚ जुहुरे॒ समि᳚द्धे ॥
▶ पदपाठः (Word-by-word)
वि॒धेम᳚ । ते॒ । प॒र॒मे । जन्म᳚न् । अ॒ग्ने॒ । वि॒धेम᳚ । स्तोमैः᳚ । अव᳚रे । स॒ध॑स्थे᳚ ।
यस्मा᳚त् । योनेः᳚ । उ॒त्॑आरि᳚थ । यजे᳚ । तम् । प्र । त्वे इति᳚ । ह॒वींषि᳚ । जु॒हु॒रे॒ । सम्॑इ᳚द्धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने परमेउत्कृष्टेजन्मन् जायतेप्रादुर्भवत्यस्मिन्नितिजन्मस्थानंद्यौः तस्मिन्द्युलोकेवस्थिताय- तेतुभ्यंविधेम स्तुतिभिःपरिचरेम अवरेद्युलोकादधस्तनेसधस्थेन्तरिक्षेस्थितायतुभ्यंस्तोमैः स्तोत्रै- र्विधेम परिचरेम यद्यस्माद्योनेः प्रुथिवीरूपातस्थानात्त्वमुदास्थि उद्गतोसि प्रादुर्भूतोसि तंपृथिवी- प्रदेशंयजेपूजयामि तत्रहिसमिद्धेसमिद्भिःसमिध्यमानेत्वेत्वयि हवींषिपुरोडाशादीनि प्रजुहुरेअध्व- र्य्वादयः प्रजुह्वति जुहोतोर्लिटिरूपम् ॥ ३ ॥

2.9.4 समानपद
अग्ने॒ यज᳚स्व ह॒विषा॒ यजी᳚याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ᳚णीहि॒ राधः᳚ ।
त्वं ह्यसि᳚ रयि॒पती᳚ रयी॒णां त्वं शु॒क्रस्य॒ वच᳚सो म॒नोता᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । यज᳚स्व । ह॒विषा᳚ । यजी᳚यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः᳚ ।
त्वम् । हि । असि᳚ । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य᳚ । वच᳚सः । म॒नोता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने यजीयान् यष्टृतमस्त्वं हविषास्मद्दत्तेनयजस्व देवान्संयोजयदेष्णंदेयंराधोन्नंश्रुष्टी श्रुष्टीति- क्षिप्रनाम क्षिप्रंअभिगृणीहि देवानांपुरतः इदंस्वादुतरमिदंस्वादुतरमितिब्रूहि यद्वा श्रुष्टीक्षिप्रकारी त्वंदेष्णंदेयंराधोधनंअभिगृणीहि अस्मदाभिमुख्येनब्रूहिप्रयच्छेत्यर्थः दानसामर्थ्यंदर्शयति त्वंरयीणां- धनानांमध्येरयिपतिः उत्तमधनस्यपतिरसिहि यद्वा रयीणांरयिपतिरित्यत्रैकोरयिशब्दोनुवादः त्वं- शुक्रस्यदीप्तस्यवचसः अस्मदीयस्यस्तोत्रस्यमनोताप्रज्ञाताभवसि यद्वा मानयिता ॥ ४ ॥

2.9.5 समानपद
उ॒भयं᳚ ते॒ न क्षी᳚यते वस॒व्यं᳚ दि॒वेदि᳚वे॒ जाय᳚मानस्य दस्म ।
कृ॒धि क्षु॒मन्तं᳚ जरि॒तार᳚मग्ने कृ॒धि पतिं᳚ स्वप॒त्यस्य᳚ रा॒यः ॥
▶ पदपाठः (Word-by-word)
उ॒भय᳚म् । ते॒ । न । क्षी॒य॒ते॒ । व॒स॒व्य᳚म् । दि॒वे॑दि᳚वे । जाय᳚मानस्य । द॒स्म॒ ।
कृ॒धि । क्षु॒॑मन्त᳚म् । ज॒रि॒तार᳚म् । अ॒ग्ने॒ । कृ॒धि । पति᳚म् । सु॒॑अ॒प॒त्यस्य᳚ । रा॒यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दस्मदर्शनीयहेअग्ने दिवेदिवेप्रतिदिनमग्निहोत्रकालेजायमानस्यते तवउभयंवसव्यंदिव्यं भौमंचव- सु वस्वादित्वात्स्वार्थिकोयप्रत्ययः तादृशमुभयंवसुनक्षीयते नहीयते अस्योभयविधधनसद्भावेमन्त्र- वर्णः त्वंह्यग्नेदिव्यस्यराजसित्वंपार्थिवस्येत्यत्रोक्तः । अतस्त्वंजरितारं तवस्तोत्रंकुर्वाणमिमंयजमानं- क्षुमन्तमन्नवन्तं कीर्तिमन्तंवाकृधिकुरु किञ्च स्वपत्यस्यशोभनापत्ययुक्तस्यरायोधनस्यपतिं स्वामिनं- कृधिकुरु ॥ ५ ॥ साकमेधेपर्वणिपूर्वेद्युरनुसवनंतिस्रइष्टयःकर्तव्याः प्रथमायामग्नेरनीकवतःसैनानीकेनेतियाज्या तथाततः साकमेधाइतिखण्डेसूत्रितम्—सैनानीकेनसुविदत्रोअस्मेइति ।

2.9.6
सैनानी᳚केन सुवि॒दत्रो᳚ अ॒स्मे यष्टा᳚ दे॒वा{4} आय᳚जिष्ठः स्व॒स्ति ।
अद᳚ब्धो गो॒पा उ॒त नः᳚ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि᳚दीहि ॥
▶ पदपाठः (Word-by-word)
सः । ए॒ना । अनी᳚केन । सु॒॑वि॒दत्रः᳚ । अ॒स्मे इति᳚ । यष्टा᳚ । दे॒वान् । आ॑य᳚जिष्ठः । स्व॒स्ति ।
अद᳚ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒॑पाः । अग्ने᳚ । द्यु॒॑मत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सतादृशस्त्वं एना अनेनानीकेन ज्वालासमूहेनयुक्तस्त्वं सुविदत्रः सुप्रज्ञः सुधनोवास्मेअ- स्माकंभव देवान् यष्टा देवानांहविःप्रदानेनपूजकः आयजिष्ठः यष्टृतमः अदब्धः केनाप्यतिरस्कृतः गोपाः देवानां गोपायिता उतापिचनोस्माकंपरस्पाः दुरितेभ्यःपारयिताचत्वं द्युमत् कान्तियुक्तं उतापिचरेवत् धन्युक्तंयथाभवतितथास्वस्तिदिदीहि क्षेमेणसर्वतोदीप्यस्व ॥ ६ ॥

जोहूत्रइतिषळृचंदशमंसूक्तंगार्त्समदं त्रैष्टुभमाग्नेयं जोहूत्रइत्यनुक्रान्तत्वात् सूक्तविनियोगः पूर्वेण- सहोक्तः ।