श्रवणम्

2.9.5 समानपद
उ॒भयं᳚ ते॒ न क्षी᳚यते वस॒व्यं᳚ दि॒वेदि᳚वे॒ जाय᳚मानस्य दस्म ।
कृ॒धि क्षु॒मन्तं᳚ जरि॒तार᳚मग्ने कृ॒धि पतिं᳚ स्वप॒त्यस्य᳚ रा॒यः ॥
▶ पदपाठः (Word-by-word)
उ॒भय᳚म् । ते॒ । न । क्षी॒य॒ते॒ । व॒स॒व्य᳚म् । दि॒वे॑दि᳚वे । जाय᳚मानस्य । द॒स्म॒ ।
कृ॒धि । क्षु॒॑मन्त᳚म् । ज॒रि॒तार᳚म् । अ॒ग्ने॒ । कृ॒धि । पति᳚म् । सु॒॑अ॒प॒त्यस्य᳚ । रा॒यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दस्मदर्शनीयहेअग्ने दिवेदिवेप्रतिदिनमग्निहोत्रकालेजायमानस्यते तवउभयंवसव्यंदिव्यं भौमंचव- सु वस्वादित्वात्स्वार्थिकोयप्रत्ययः तादृशमुभयंवसुनक्षीयते नहीयते अस्योभयविधधनसद्भावेमन्त्र- वर्णः त्वंह्यग्नेदिव्यस्यराजसित्वंपार्थिवस्येत्यत्रोक्तः । अतस्त्वंजरितारं तवस्तोत्रंकुर्वाणमिमंयजमानं- क्षुमन्तमन्नवन्तं कीर्तिमन्तंवाकृधिकुरु किञ्च स्वपत्यस्यशोभनापत्ययुक्तस्यरायोधनस्यपतिं स्वामिनं- कृधिकुरु ॥ ५ ॥ साकमेधेपर्वणिपूर्वेद्युरनुसवनंतिस्रइष्टयःकर्तव्याः प्रथमायामग्नेरनीकवतःसैनानीकेनेतियाज्या तथाततः साकमेधाइतिखण्डेसूत्रितम्—सैनानीकेनसुविदत्रोअस्मेइति ।