श्रवणम्

2.9.6
सैनानी᳚केन सुवि॒दत्रो᳚ अ॒स्मे यष्टा᳚ दे॒वा{4} आय᳚जिष्ठः स्व॒स्ति ।
अद᳚ब्धो गो॒पा उ॒त नः᳚ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि᳚दीहि ॥
▶ पदपाठः (Word-by-word)
सः । ए॒ना । अनी᳚केन । सु॒॑वि॒दत्रः᳚ । अ॒स्मे इति᳚ । यष्टा᳚ । दे॒वान् । आ॑य᳚जिष्ठः । स्व॒स्ति ।
अद᳚ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒॑पाः । अग्ने᳚ । द्यु॒॑मत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सतादृशस्त्वं एना अनेनानीकेन ज्वालासमूहेनयुक्तस्त्वं सुविदत्रः सुप्रज्ञः सुधनोवास्मेअ- स्माकंभव देवान् यष्टा देवानांहविःप्रदानेनपूजकः आयजिष्ठः यष्टृतमः अदब्धः केनाप्यतिरस्कृतः गोपाः देवानां गोपायिता उतापिचनोस्माकंपरस्पाः दुरितेभ्यःपारयिताचत्वं द्युमत् कान्तियुक्तं उतापिचरेवत् धन्युक्तंयथाभवतितथास्वस्तिदिदीहि क्षेमेणसर्वतोदीप्यस्व ॥ ६ ॥

जोहूत्रइतिषळृचंदशमंसूक्तंगार्त्समदं त्रैष्टुभमाग्नेयं जोहूत्रइत्यनुक्रान्तत्वात् सूक्तविनियोगः पूर्वेण- सहोक्तः ।