द्वितीयं मण्डलम् - सूक्तम् 11

21 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: विराट्स्थाना त्रिष्टुप्

सूक्तम् 2.11 - सम्पूर्णम्

1 / 21
ऋक्: 2.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
2.11.1 समानपद
श्रु॒धी हव᳚मिन्द्र॒ मा रि᳚षण्य॒ः स्याम᳚ ते दा॒वने॒ वसू᳚नाम् ।
इ॒मा हि त्वामूर्जो᳚ व॒र्धय᳚न्ति वसू॒यव॒ः सिन्ध᳚वो॒ न क्षर᳚न्तः ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । हव᳚म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम᳚ । ते॒ । दा॒वने᳚ । वसू᳚नाम् ।
इ॒माः । हि । त्वाम् । ऊर्जः᳚ । व॒र्धय᳚न्ति । व॒सु॒॑यवः᳚ । सिन्ध᳚वः । न । क्षर᳚न्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृत्समदःस्तौति हेइन्द्र मेहवंमदीयमिदंस्तोत्रं श्रुधि श्रृणु मारिषण्यः माहिंसीः इदमल्पं नसाधी- यइतिमानिराकार्षीः दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिनिपातितः वयंतेतववसूनांदावनेदानाय- स्यामपात्रभूताभवेम इमाः अस्माभिर्दत्तानिवसूयवः दातुर्यजमानस्यधनमिच्छन्ति छन्दसिपरेच्छा- यांक्यच् तादृशानिक्षरंतः स्रवन्तः सिन्धवइव घृतक्षरणोपेतानिऊर्जोहविर्लक्षणान्यन्नानि त्वांवयर्ध- न्तिहि ॥ १ ॥

2.11.2
सृ॒जो म॒हीरि᳚न्द्र॒ या अपि᳚न्व॒ः परि᳚ष्ठिता॒ अहि᳚ना शूर पू॒र्वीः ।
अम᳚र्त्यं चिद्दा॒सं मन्य᳚मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः ॥
▶ पदपाठः (Word-by-word)
सृ॒जः । म॒हीः । इ॒न्द्र॒ । याः । अपि᳚न्वः । परि᳚॑स्थिताः । अहि᳚ना । शू॒र॒ । पू॒र्वीः ।
अम᳚र्त्यम् । चि॒त् । दा॒सम् । मन्य᳚मानम् । अव᳚ । अ॒भि॒न॒त् । उ॒क्थैः । व॒वृ॒धा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शूरशत्रूणांहिंसक हेइन्द्र याअपोऽपिन्वः अवर्धयः पूर्वीः प्रभूतस्ताअहिनामेघेनवृत्रेण वापरि- ष्ठिताः अधिष्ठिताः आक्रान्ताः ततस्त्वंतस्मादहेः सकाशात् महीः महतीः अपः सृजः व्यसृजः उक्थैः शस्त्रैर्वावृधानोवर्धमानस्त्वंदासंसर्वस्योपक्षपयितारंअमर्त्यंचित् मरणधर्मरहितमेवात्मानंमन्यमानं- तमसुरंअवाभिनत् अवाङ्मुखंयथाभवतितथाहिंसितवानित्यर्थः भिदिर् विदारणे लङिसिपिरूपम् ॥ २ ॥

2.11.3 समानपद
उ॒क्थेष्विन्नु शू᳚र॒ येषु᳚ चा॒कन्स्तोमे᳚ष्विन्द्र रु॒द्रिये᳚षु च ।
तुभ्येदे॒ता यासु᳚ मन्दसा॒नः प्र वा॒यवे᳚ सिस्रते॒ न शु॒भ्राः ॥
▶ पदपाठः (Word-by-word)
उ॒क्थेषु᳚ । इत् । नु । शू॒र॒ । येषु᳚ । चा॒कन् । स्तोमे᳚षु । इ॒न्द्र॒ । रु॒द्रिये᳚षु । च॒ ।
तुभ्य᳚ । इत् । ए॒ताः । यासु᳚ । म॒न्द॒सा॒नः । प्र । वा॒यवे᳚ । सि॒स्र॒ते॒ । न । शु॒भ्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूरेन्द्र येषुहोत्रादिभिःक्रियमाणेषुशस्त्रेषुरुद्रियेषु रुद्रियंसुखं तत्साधनभूतेषु यद्वा रुद्राः स्तोतारः तत्कृतेशुउद्गातॄणांस्तोमेषुचनुक्षिप्रंचाकन् स्तुतीःकामयसे कमतेःकनतेर्वायङ्लुकिरूपम् इत् पूरणः यासुस्तोत्रशस्त्ररूपासुस्तुतिषुम्न्दसानोहृष्यन् भवसिताएताःशुभ्राः दीप्यमानाः स्तुतयः वायवेअस्म- दीयंयज्ञं प्रत्यागच्छते तुभ्येत् तुभ्यमेवप्रसिस्रते त्वदर्थमेवप्रसरन्ति नसम्प्रत्यर्थे ताअधुनासेवस्व ॥ ३ ॥

2.11.4 समानपद
शु॒भ्रं नु ते॒ शुष्मं᳚ व॒र्धय᳚न्तः शु॒भ्रं वज्रं᳚ बा॒ह्वोर्दधा᳚नाः ।
शु॒भ्रस्त्वमि᳚न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विश॒ः सूर्ये᳚ण सह्याः ॥
▶ पदपाठः (Word-by-word)
शु॒भ्रम् । नु । ते॒ । शुष्म᳚म् । व॒र्धय᳚न्तः । शु॒भ्रम् । वज्र᳚म् । बा॒ह्वोः । दधा᳚नाः ।
शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति᳚ । दासीः᳚ । विशः᳚ । सूर्ये᳚ण । स॒ह्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतवशुभ्रंशोभनंशुष्मंबलंस्तोत्रैर्वर्धयन्तः शुभ्रंदीप्तंवज्रमायुधंनुक्षिप्रंतवबाह्वोर्दधानाः निदधानाः स्तूयमानोहीन्द्रोसुरवधायवज्रमादत्तइतीत्थंरूपेणायुधंदधानाभवामः वावृधानः स्तोत्रै- र्वर्धमानः शुभ्रः तेजसायुक्तः त्वंअस्मेअस्माकंदासीः उपक्षपयित्रीः विशः आसुरीः प्रजाः सूर्येण- सुष्ठुप्रेरकेणाअयुधंहिप्रेरयति त्वंयुध्यस्वेति एवंरूपेणबाह्वोर्निहितेनवज्रेणसह्याः अभिभव सहते- र्व्यत्ययेनलिङिपरस्मैपदम् ॥ ४ ॥

2.11.5 समानपद
गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्स्वपी᳚वृतं मा॒यिनं᳚ क्षि॒यन्त᳚म् ।
उ॒तो अ॒पो द्यां त᳚स्त॒भ्वांस॒मह॒न्नहिं᳚ शूर वी॒र्ये᳚ण ॥
▶ पदपाठः (Word-by-word)
गुहा᳚ । हि॒तम् । गुह्य᳚म् । गू॒ळ्हम् । अ॒प्॑सु । अपि᳚॑वृतम् । मा॒यिन᳚म् । क्षि॒यन्त᳚म् ।
उ॒तो इति᳚ । अ॒पः । द्याम् । त॒स्त॒भ्वांस᳚म् । अह᳚न् । अहि᳚म् । शू॒र॒ । वी॒र्ये᳚ण ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूरेन्द्र गुहागुहायांहितंनिहितं अतएवगुह्यं अप्रकाश्यंगूह्ळंगूढं अप्सुउदकेषुअपीवृतंतिरोहितं अत्रैकस्मिन् तिरोधानरूपेर्थेपुनरुक्तयस्तिरोधानभूयस्त्वप्रतिपादनपराः अभ्यासेहिभूयानर्थोभवति यथाहोदर्शनीयाहोदर्शनीयेति तादृशंमायिनंमायाविनंअसुरंक्षियन्तं निवसंतं उतोअपिचापोद्यां दिवं- चतस्तभ्वांसं स्वसामर्थ्येनस्तंभयन्तं इत्थंभूतमहिमसुरंमेघंवावीर्येणसामर्थ्यभूतेन वज्रेण अहन् हतवानसि हनहिंसागत्योरित्यस्यलङिरूपम् ॥ ५ ॥

2.11.6
स्तवा॒ नु त᳚ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त᳚वाम॒ नूत᳚ना कृ॒तानि᳚ ।
स्तवा॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य᳚स्य के॒तू ॥
▶ पदपाठः (Word-by-word)
स्तव᳚ । नु । ते॒ । इ॒न्द्र॒ । पू॒र्व्या । म॒हानि᳚ । उ॒त । स्त॒वा॒म॒ । नूत᳚ना । कृ॒तानि᳚ ।
स्तव᳚ । वज्र᳚म् । बा॒ह्वोः । उ॒शन्त᳚म् । स्तव᳚ । हरी॒ इति᳚ । सूर्य᳚स्य । के॒तू इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पूर्व्यापुरातनानिमहानि महान्तितेतवकर्माणिनुक्षिप्रंस्तवस्तवाम उतअपिच नूतना अधुना- तनानिकृतानिकर्माणिस्तवस्तवाम बाह्वोरुशन्तंदीप्यमानंवज्रंस्तवस्तवाम किञ्च सूर्यस्यसुष्ठुप्रेरक- स्यसुवीर्यस्यवासूर्यात्मनोवाइन्द्रस्यकेतूप्रज्ञापकौ हरीएतन्नामकावश्वौ स्तव स्तवाम ष्टुञ् स्तुतौ ति- ङांतिङोभवन्तीतिउत्तमबहुवचनस्यमध्यमैकवचनादेशः बहुलंछन्दसीतिशपोलुगभावः ॥ ६ ॥

2.11.7 समानपद
हरी॒ नु त᳚ इन्द्र वा॒जय᳚न्ता घृत॒श्चुतं᳚ स्वा॒रम᳚स्वार्ष्टाम् ।
वि स᳚म॒ना भूमि᳚रप्रथि॒ष्टारं᳚स्त॒ पर्व᳚तश्चित्सरि॒ष्यन् ॥
▶ पदपाठः (Word-by-word)
हरी॒ इति᳚ । नु । ते॒ । इ॒न्द्र॒ । वा॒जय᳚न्ता । घृ॒त॒॑श्चुत᳚म् । स्वा॒रम् । अ॒स्वा॒र्ष्टा॒म् ।
वि । स॒म॒ना । भूमिः᳚ । अ॒प्र॒थि॒ष्ट । अरं᳚स्त । पर्व᳚तः । चि॒त् । स॒रि॒ष्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वाजयन्ता वेगंकुर्वन्तौ तत्करोतीतिणिच् तेतवहरीएतन्नामकावश्वौ घृतश्चुतंघृतस्योदक- स्यच्यवयितारंस्वारंमेघध्वनिंनुक्षिप्रंअस्वार्ष्टां अशब्दयतांस्वरतिःशब्दकर्मा पाकंपचतीतिवदेकधातु- रनुवादः लङिरूपं समनासमस्थला यद्वा समनासर्वतोव्यप्रथिष्टगर्जनंश्रुत्वाममोपरिवृष्टिर्भवतीति- प्रथिताभूत् तथापर्वतश्चित् मेघोपिसरिष्यन् वर्षणार्थमितस्ततोगमिष्यन् अंरस्त अरमत रमतेर्लुङि- रूपम् ॥ ७ ॥

2.11.8 समानपद
नि पर्व᳚तः सा॒द्यप्र᳚युच्छ॒न्त्सं मा॒तृभि᳚र्वावशा॒नो अ᳚क्रान् ।
दू॒रे पा॒रे वाणीं᳚ व॒र्धय᳚न्त॒ इन्द्रे᳚षितां ध॒मनिं᳚ पप्रथ॒न्नि ॥
▶ पदपाठः (Word-by-word)
नि । पर्व᳚तः । सा॒दि॒ । अप्र᳚॑युच्छन् । सम् । मा॒तृ॑भिः᳚ । वा॒व॒शा॒नः । अ॒क्रा॒न् ।
दू॒रे । पा॒रे । वाणी᳚म् । व॒र्धय᳚न्तः । इन्द्र᳚॑इषिताम् । ध॒मनि᳚म् । प॒प्र॒थ॒न् । नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्रयुच्छन् अप्रमाद्यन् वर्षणेसावधानःपर्वतोमेघःनिषादि नभसिनिषण्णाआसीत् मातृभिरद्भिः माध्यमिकाभिर्वाग्भिर्वासंवावशानः सहशब्दंकुर्वाणः अक्रान् अक्रमीत् इतस्ततःसञ्चारमकरोत् क्रम- तेर्लङिबहुलंछन्दसीतिविकरणस्यलुक् दूरेपारेअतिदूरेन्तरिक्षेस्थितांवाणींमाध्यमिकांवाचंवर्धयन्तः स्तोत्रैःसमृद्धांकुर्वन्तः स्तोतारोमरुतोवाइन्द्रेषितामिन्द्रेणप्रेरितांधमनिंशब्दं कुर्वाणांतांवाचं नि नित- रांपप्रथन् अप्रथयन् ॥ ८ ॥

2.11.9
इन्द्रो᳚ म॒हां सिन्धु᳚मा॒शया᳚नं माया॒विनं᳚ वृ॒त्रम᳚स्फुर॒न्निः ।
अरे᳚जेतां॒ रोद᳚सी भिया॒ने कनि᳚क्रदतो॒ वृष्णो᳚ अस्य॒ वज्रा᳚त् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । म॒हाम् । सिन्धु᳚म् । आ॒॑शया᳚नम् । मा॒या॒॑विन᳚म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः ।
अरे᳚जेताम् । रोद᳚सी॒ इति᳚ । भि॒या॒ने इति᳚ । कनि᳚क्रदतः । वृष्णः᳚ । अ॒स्य॒ । वज्रा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

बलवानिन्द्रः महांमहान्तंसिन्धुं स्यन्दतेइतस्ततः सञ्चरतीतिसिन्धुर्मेघः तमाशयानं तमधिष्ठायश- यानंमायाविनंवृत्रमसुरं यद्वा सिन्धुरुदकंतदधिष्ठायशयानं वृत्रंवृणोत्याकाशमिति वृत्रोमेघः तंनिर- स्फुरत् निरहन् वृष्णःवर्षकस्यअस्येन्द्रस्यकनिक्रदतः शब्दंकुर्वाणाद्वज्रात् भियानेभयंप्राप्तेरोदसीद्या- वाप्रुथिव्यौ अरेजेतां अकंपेतांदाधर्तिदर्धर्तीत्यादिनाकनिक्रदच्छब्दोनिपातितः ॥ ९ ॥

2.11.10
अरो᳚रवी॒द्वृष्णो᳚ अस्य॒ वज्रो॑मा᳚नुषं॒ यन्मानु᳚षो नि॒जूर्वा᳚त् ।
नि मा॒यिनो᳚ दान॒वस्य᳚ मा॒या अपा᳚दयत्पपि॒वान्त्सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
अरो᳚रवीत् । वृष्णः᳚ । अ॒स्य॒ । वज्रः᳚ । अमा᳚नुषम् । यत् । मानु᳚षः । नि॒॑जूर्वा᳚त् ।
नि । मा॒यिनः᳚ । दा॒न॒वस्य᳚ । मा॒याः । अपा᳚दयत् । प॒पि॒॑वान् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्णः कामानांवर्षकस्येन्द्रस्यवज्रः अरोरवीत् भृशंशब्दमकरोत् कदेत्यपेक्षायामाह—यद्यदाअ- मानुषंमनुष्याणांरहितं यद्वा मानुषोहंनभवामीत्येवंमन्यमानं तमसुरं मानुषोमनुष्याणांहितकारी यद्वा मतिमानिन्द्रोनिजूर्वात् नितरांहिंस्यात् जिघांसतीत्यर्थः जूर्वतोर्हिसाकर्मणोलेटिरूपं सुतस्या- भिषुतंसोमंपपिवान्पीतवान्मायिनोमायाविनोदानवस्यदानुर्नामवृत्रमाता दानुःशयइत्यादिषुदृष्ट- त्वात् तस्याःपुत्रस्यवृत्रस्यमायाः वंचनानिन्यपादयत् न्यपातयत् बबाधइतिया वत् ॥ १० ॥

2.11.11 समानपद
पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मन्द᳚न्तु त्वा म॒न्दिनः᳚ सु॒तासः᳚ ।
पृ॒णन्त᳚स्ते कु॒क्षी व᳚र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र᳚माव ॥
▶ पदपाठः (Word-by-word)
पिब᳚॑पिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम᳚म् । मन्द᳚न्तु । त्वा॒ । म॒न्दिनः᳚ । सु॒तासः᳚ ।
पृ॒णन्तः᳚ । ते॒ । कु॒क्षी इति᳚ । व॒र्ध॒य॒न्तु॒ । इ॒त्था । सु॒तः । पौ॒रः । इन्द्र᳚म् । आ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शूर बलवन् हेइन्द्र पिबपिबेत् अभिषुतमिमंसोमंपिबैव आदरार्थैषावीप्सा मन्दिनोमदकराः सुतासोभिषुताः सोमाः त्वामन्दतु त्वांमान्दयन्तु । मदिस्तुत्यादिषु व्यत्ययेनपरस्मैपदम् तेसो- मास्तेतवकुक्षीउदरस्योभौपार्श्वौप्रुणन्तः पूरयन्तः सन्तः त्वांवर्धयन्तु इत्थाअनेनप्रकारेण पौरः उदरपूरकः सुतोभिषुतः सोमः इन्द्रंत्वामाव तर्पयतु अवतेस्तर्पणार्थस्यलिटिरूपम् ॥ ११ ॥

2.11.12
त्वे इ॒न्द्राप्य᳚भूम॒ विप्रा॒ धियं᳚ वनेम ऋत॒या सप᳚न्तः ।
अ॒व॒स्यवो᳚ धीमहि॒ प्रश᳚स्तिं स॒द्यस्ते᳚ रा॒यो दा॒वने᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । इ॒न्द्र॒ । अपि᳚ । अ॒भू॒म॒ । विप्राः᳚ । धिय᳚म् । व॒ने॒म॒ । ऋ॒त॒॑या । सप᳚न्तः ।
अ॒व॒स्यवः᳚ । धी॒म॒हि॒ । प्र॑श᳚स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र विपामेधानिवोवयंत्वेत्वयित्वद्धृदयेअभूम अपिसानुनयप्रश्नेवर्तते तेतवहृदयेकिंवर्ता- महइति ऋतयाऋतंकर्मफलंतत्कामनयासपन्तः त्वांपरिचरणाख्येनकर्मणास्पृशन्तोवयंधियं त्व- दुद्देशेनक्रियमाणंकर्मवनेम संभजेमहि वनषणसंभक्तौ आशीर्लिङिलिङ्याशिष्यङित्यङ्प्रत्ययः किञ्च अवस्यवः त्वत्तोरक्षणमिच्छन्तः प्रशस्तिंशस्तिःशंसनं प्रकृष्टशंसनंस्तोत्रं धीमहि त्वयिनिदधी- महि ततः तेत्वदीयस्यरायोधनस्यदावनेदानायपात्रभूताः सद्यः स्याम इदानीं भवेम ॥ १२ ॥

2.11.13
स्याम॒ ते त᳚ इन्द्र॒ ये त᳚ ऊ॒ती अ᳚व॒स्यव॒ ऊर्जं᳚ व॒र्धय᳚न्तः ।
शु॒ष्मिन्त᳚मं॒ यं चा॒कना᳚म देवा॒स्मे र॒यिं रा᳚सि वी॒रव᳚न्तम् ॥
▶ पदपाठः (Word-by-word)
स्याम᳚ । ते । ते॒ । इ॒न्द्र॒ । ये । ते॒ । ऊ॒ती । अ॒व॒स्यवः᳚ । ऊर्ज᳚म् । व॒र्धय᳚न्तः ।
शु॒ष्मिन्॑त᳚मम् । यम् । चा॒कना᳚म । दे॒व॒ । अ॒स्मे इति᳚ । र॒यिम् । रा॒सि॒ । वी॒र॑व᳚न्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतवऊतीऊत्याप्रणयनेन अवतेःप्राप्त्यर्थस्यक्तिनिरूपम् तेतवअवस्यवोरक्षाकामाऊर्जंहवि- र्लक्षणमन्नंवर्धयन्तोभवन्ति येवयंतेत्वस्यामत्वदधीनाभवेम देवद्योतमान हेइन्द्र शुष्मिन्तमं दानभो- गायार्हतयाबलवत्तमम् यद्वा शत्रूणांशोषयितृतमंयंरयिंचाकनाम कामयामहे कनतेःकान्त्यर्थस्यय ङ्लुगन्तस्यलोटिरूपं वीरवन्तं पुत्रपौत्रैःसहितंतादृशंरयिमस्मे अस्मभ्यंरासिदेहि ॥ १३ ॥

2.11.14
रासि॒ क्षयं॒ रासि᳚ मि॒त्रम॒स्मे रासि॒ शर्ध᳚ इन्द्र॒ मारु᳚तं नः ।
स॒जोष᳚सो॒ ये च᳚ मन्दसा॒नाः प्र वा॒यवः᳚ पा॒न्त्यग्र᳚णीतिम् ॥
▶ पदपाठः (Word-by-word)
रासि᳚ । क्षय᳚म् । रासि᳚ । मि॒त्रम् । अ॒स्मे इति᳚ । रासि᳚ । शर्धः᳚ । इ॒न्द्र॒ । मारु᳚तम् । नः॒ ।
स॒॑जोष᳚सः । ये । च॒ । म॒न्द॒सा॒नाः । प्र । वा॒यवः᳚ । पा॒न्ति॒ । अग्र᳚॑नीतिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र क्षयं क्षियन्तिनिवसन्त्यत्रैतिक्षयोगृहं तदस्मभ्यंरासिदेहि तथामित्रं सखायं अस्मेअस्मभ्यं- रासि वाक्यभेदादनिघातः मारुत मरुतांदेवविशांसंबन्धिशर्धोबलंनोस्मभ्यंरासि एतेनमरुतामप्या- गमनंप्रार्थ्यते येचमरुतः सजोषसः सहप्रीयमाणाः मन्दसानामदन्तोमोदमानावायवोयज्ञं प्रतिगन्ता- रःसन्तः अग्रणीतिं अग्नेनीयमानं सोमं प्रपांति प्रकर्षेणपिबन्ति तेषांशर्धइतिसमन्वयः यद्वा येचवा- यवोग्रेनीयमानं सोमंपिबन्ति तेषांवायूनां बलंरासि वायवइतिपूजायांबहुवचनं वायुर्हिसोमस्याग्र- पातेति ॥ १४ ॥

2.11.15
व्यन्त्विन्नु येषु᳚ मन्दसा॒नस्तृ॒पत्सोमं᳚ पाहि द्र॒ह्यदि᳚न्द्र ।
अ॒स्मान्त्सु पृ॒त्स्वा त᳚रु॒त्राव᳚र्धयो॒ द्यां बृ॒हद्भि᳚र॒र्कैः ॥
▶ पदपाठः (Word-by-word)
व्यन्तु᳚ । इत् । नु । येषु᳚ । म॒न्द॒सा॒नः । तृ॒पत् । सोम᳚म् । पा॒हि॒ । द्र॒ह्यत् । इ॒न्द्र॒ ।
अ॒स्मान् । सु । पृ॒त्॑सु । आ । त॒रु॒त्र॒ । अव᳚र्धयः । द्याम् । बृ॒हत्॑भिः᳚ । अ॒र्कैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र येषुतवसहायभूतेषुमरुत्सु मन्दसानोमाद्यन् भवसि तेमरुतोनुक्षिप्रंव्यन्तु सोमंभक्षयन्तु इत् इवार्थे द्रह्यत् दृंहतेरिदंरूपं आत्मानं दृढीकुर्वन् त्वंतृपत् तर्पयन्तमिमंसोमंपाहि पिबतरुत्र शत्रूणांहिं- सकहेइन्द्र बृहद्भिर्बलवद्भिः अर्कैरर्चनीयैर्मरुद्भिःसहितस्त्वं आइतिचार्थे तेना स्मान् द्यांच सुसुष्ठुपृ- त्सुसङ्ग्रामेषु पशुपुत्रादिभिरस्मान् अस्मत् पालनेनचदिवमवर्धयः यद्वा येषुसोमेषुमन्दसानोमोद- मानोभवसि तेसोमाव्यन्तु त्वांगच्छंतु शेषंपूर्ववत् ॥ १५ ॥

2.11.16
बृ॒हन्त॒ इन्नु ये ते᳚ तरुत्रो॒क्थेभि᳚र्वा सु॒म्नमा॒विवा᳚सान् ।
स्तृ॒णा॒नासो᳚ ब॒र्हिः प॒स्त्या᳚व॒त्त्वोता॒ इदि᳚न्द्र॒ वाज᳚मग्मन् ॥
▶ पदपाठः (Word-by-word)
बृ॒हन्तः᳚ । इत् । नु । ये । ते॒ । त॒रु॒त्र॒ । उ॒क्थेभिः᳚ । वा॒ । सु॒म्नम् । आ॒॑विवा᳚सान् ।
स्तृ॒णा॒नासः᳚ । ब॒र्हिः । प॒स्त्य᳚॑वत् । त्वा॑ऊ᳚ताः । इत् । इ॒न्द्र॒ । वाज᳚म् । अ॒ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तरुत्रआपद्भिस्तरकहेइन्द्र येपुमांसः सुम्नं सुखकरं त्वामुक्थेभिः उक्थैः शस्त्रैः आविवासान्परिचरे- युः विवासतेर्लेट्यडागमः तेइत् तएवपुमांसः नुक्षिप्रंअविलंबेनबृहन्तोमहान्तः भवन्ति वेतिपूरणः किंच बर्हिःस्तृणानासः वेद्यांबर्हिराच्छादयन्तः येत्वांपरिचरन्ति तेत्वोताइत् त्वयारक्षिताःसन्तएव- पस्त्यावत् गृहसहितंवाजमन्नमग्मन् गच्छन्ति ॥ १६ ॥

2.11.17
उ॒ग्रेष्विन्नु शू᳚र मन्दसा॒नस्त्रिक᳚द्रुकेषु पाहि॒ सोम᳚मिन्द्र ।
प्र॒दोधु᳚व॒च्छ्मश्रु᳚षु प्रीणा॒नो या॒हि हरि᳚भ्यां सु॒तस्य᳚ पी॒तिम् ॥
▶ पदपाठः (Word-by-word)
उ॒ग्रेषु᳚ । इत् । नु । शू॒र॒ । म॒न्द॒सा॒नः । त्रि॑क᳚द्रुकेषु । पा॒हि॒ । सोम᳚म् । इ॒न्द्र॒ ।
प्र॒॑दोधु᳚वत् । श्मश्रु᳚षु । प्री॒णा॒नः । या॒हि । हरि᳚॑भ्याम् । सु॒तस्य᳚ । पी॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूर बलवन्निन्द्र उग्रेषुउद्गूर्णेषुबहुस्तोत्रशस्त्रवत्सुत्रिकद्रुकेषुज्योतिर्गौरायुरित्येतन्नामकेषु आभिप्लविकेष्वहस्सुमन्दसानोहृष्यन् नुक्षिप्रंसोमंपाहिपिब इदितिपूरणः ततः प्रीणानः सोमपाने- नप्रीतोभवन् श्मश्रुषुलिप्तंसोमंप्रदोधुवत् धूञ्कम्पने यङ्लुगन्तस्यशतरिरूपम् पुनःपुनर्धुन्वन् सुतस्या- भिषुतस्यपीतिंपानमुद्दिश्यहरिभ्यामश्वाभ्यांयुक्तः सन् याहिगच्छ ॥ १७ ॥

2.11.18
धि॒ष्वा शवः᳚ शूर॒ येन᳚ वृ॒त्रम॒वाभि᳚न॒द्दानु᳚मौर्णवा॒भम् ।
अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒ नि स᳚व्य॒तः सा᳚दि॒ दस्यु᳚रिन्द्र ॥
▶ पदपाठः (Word-by-word)
धि॒ष्व । शवः᳚ । शू॒र॒ । येन᳚ । वृ॒त्रम् । अ॒व॒॑अभि᳚नत् । दानु᳚म् । औ॒र्ण॒॑वा॒भम् ।
अप᳚ । अ॒वृ॒णोः॒ । ज्योतिः᳚ । आर्या᳚य । नि । स॒व्य॒तः । सा॒दि॒ । दस्युः᳚ । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शूरहेइन्द्र शवस्तादृशंबलंधिष्वधारय दधातेर्लोटिबहुलंछन्दसीतिशपोलुक् छन्दस्युभयथेति वा- आर्धधातुकत्वादिडागमः येनबलेनदानुंदानोःपुत्रं और्णवाभं ऊर्णनाभिः कीटविशेषःऔर्णवाभइत्युच्य- ते तमिवअवाभिनत् बिभेदिथ यद्वा और्णः ऊर्णनाभिः तदाभंतत्सदृशमित्यर्थः ततस्तमोरूपस्यहनना- दार्यायकर्मणामनुष्ठात्रेजनाय कुत्सायराजर्षयेवा ज्योतिः प्रकाशकमादित्यमपावृणोः उद्घाटितवानसि दस्युः कर्मणामुपक्षपयितासवृत्रः सव्यतः तवसव्यपार्श्वेनिषादि त्वयानितरांसन्नोबाधितोवर्तते ॥ १८ ॥

2.11.19
सने᳚म॒ ये त᳚ ऊ॒तिभि॒स्तर᳚न्तो॒ विश्वा॒ः स्पृध॒ आर्ये᳚ण॒ दस्यू᳚न् ।
अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू᳚प॒मर᳚न्धयः सा॒ख्यस्य᳚ त्रि॒ताय᳚ ॥
▶ पदपाठः (Word-by-word)
सने᳚म । ये । ते॒ । ऊ॒ति॑भिः᳚ । तर᳚न्तः । विश्वाः᳚ । स्पृधः᳚ । आर्ये᳚ण । दस्यू᳚न् ।
अ॒स्मभ्य᳚म् । तत् । त्वा॒ष्ट्रम् । वि॒श्व॑रू᳚पम् । अर᳚न्धयः । सा॒ख्यस्य᳚ । त्रि॒ताय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सनेम तान् पुरुषान् संभजेम येते तवोतिभिःपालनैः विश्वाः स्पृधःस्पर्धमानाः सर्वाविशः तरन्तः हिंसन्तः तथाआर्येणआर्यभावेनदस्यूनुपक्षपयितॄन् हिंसन्तोभवन्ति तदस्मभ्यंवशमानय किंतत्तदाह— त्वाष्ट्रंत्वष्टुःसुतंविश्वरूपमेतन्नामकमसुरंअरन्धयः रध्यतिर्वशगमने वशमानयः यद्वा तमसुरमवधीः रधहिंसासंराध्योःरधिजभोरचीतिनुम् इन्द्रः त्वाष्ट्रमवधीदित्ययमर्थः तैत्तिरीयके—विश्वरूपोवैत्वा- ष्ट्रइत्यत्रमहताप्रबंधेनप्रपञ्चितः । किञ्च साख्यस्यसखिभावस्यानुपालनाय त्रितायमहर्षयेवशमानयः यद्वा सनेमतेवयंप्रवृद्धाभवेम येवयंतवरक्षाभिःस्पर्धमानाः प्रजादस्यूंश्च तरन्तोतिक्रामन्तोभवेम सने- मेतिवृद्ध्यर्थआद्युदात्तः यथासनेममित्रावरुनासनन्तइति । सकर्मकश्चेन्मध्योदात्तः सनेमवाजंतवेति । तरन्तः तॄप्लवनतरणयोः शतरिरूपं संज्ञावचनश्चेदन्तोदात्तः यथा तरन्तइवमहनेति ॥ १९ ॥

2.11.20 समानपद
अ॒स्य सु᳚वा॒नस्य᳚ म॒न्दिन᳚स्त्रि॒तस्य॒ न्यर्बु᳚दं वावृधा॒नो अ᳚स्तः ।
अव᳚र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि᳚रस्वान् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । सु॒वा॒नस्य᳚ । म॒न्दिनः᳚ । त्रि॒तस्य᳚ । नि । अर्बु᳚दम् । व॒वृ॒धा॒नः । अ॒स्त॒रित्य᳚स्तः ।
अव᳚र्तयत् । सूर्यः᳚ । न । च॒क्रम् । भि॒नत् । व॒लम् । इन्द्रः᳚ । अङ्गि᳚रस्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्दिनोस्यमदकरमिमंसुवानस्यसुतवतः त्रितस्यतीर्णतमस्यमहर्षेरर्थंवावृधानः सोमेनवर्धमा- नइन्द्रःअर्बुदंअंबूनिददातीति अर्बुदोमेघः अनुस्वारस्यरेफश्छान्दसः यद्वा नामैतत् अर्बुदाख्यमसुरं- न्यस्तः स्तॄहिंसायामित्यस्यलङितिपि बहुलंछन्दसीतिविकरणस्यलुक् गुणेकृतेहल्ङ्यादिनातिलोपः नितरामवधीत् महान्तंचिदर्बुदंनिक्रमीः पदेत्यादिषुअर्बुदवधःस्पष्टमुक्तः किंच अङ्गिरस्वान् अङ्गि- रोभिःसहितइन्द्रःअवर्तयत् असुरहननार्थंवज्रमभ्रामयत् सूर्योन यथासूर्यश्चक्रं भ्रामयति तद्वत् यद्वा यस्मादसुरात् भियासूर्यःस्वकीयंरथचक्रंनावर्तयत् निषेधार्थीयोत्रनकारः वर्तयितुंनाशकत्तंबलंपणी- नांप्रभुमसुरंभिनत् वज्रेणाभिनत् यद्वा द्विचक्रोहिपूर्वंसूर्यस्यरथः तस्यैकंचक्रमिन्द्रेणापहृतं सूर्यइति सुपांसुलुगितिषष्ठ्येकवचनस्यसुः सूर्यस्यसंबन्धिअपहृतंतदेकं चक्रमवर्तयत् रक्षोहननार्थंअभ्रामयत् तेनचक्रेणबलमभिनच्च नश्चार्थे ॥ २० ॥ अहर्गणेषुमाध्यन्दिनसवनेषुतायमानरूपेषुअच्छावाकस्यअहरहःशस्यसंज्ञकमभितष्टेवेतिसूक्तम् नूनंसातइत्येषातस्यान्तेशंसनीया सूत्रितंच—नूनंसातइत्यन्तमुत्तममिति ।

2.11.21
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु᳚ही॒यदि᳚न्द्र॒ दक्षि᳚णा म॒घोनी᳚ ।
शिक्षा᳚ स्तो॒तृभ्यो॒ माति᳚ ध॒ग्भगो᳚ नो बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । सा । ते॒ । प्रति᳚ । वर᳚म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि᳚णा । म॒घोनी᳚ ।
शिक्ष᳚ । स्तो॒तृ॑भ्यः᳚ । मा । अति᳚ । ध॒क् । भगः᳚ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यादक्षिणादक्षमुत्साहनंकरोतीतिदक्षिणास्तोतृभ्योदेया सातेत्वत्संबन्धिनीमघोनी धनव- तीजरित्रेस्तोत्रेवरंश्रेष्ठमभिमतमर्थंनूनंप्रतिदुहीयत् इदानींप्र्तिदोग्धि संपादयतीत्यर्थः तादृशींदक्षिणां- स्तोतृभ्योस्मभ्यंशिक्षप्रयच्छ किञ्च भगोभजनीयः त्वमातिधक् दहेर्दानार्थस्यलुङि मन्त्रेघसेत्यादिना- च्लेर्लुक् नोस्मानतिक्रम्यअन्येभ्योदक्षिणंमादाः प्रथममस्मभ्यंदत्त्वापश्चादन्येभ्योदीयतामित्यर्थः यद्वा नोस्माकंकामान् माधक् माधाक्षीः अपेक्षितफलदानेनपूरयेत्यर्थः सुवीराःशोभनपुत्रपौत्राःसन्तोवयं- विदथेस्मिन्यज्ञेबृहत्प्रभूतंस्तोत्रंवदेम त्वामुद्दिश्यब्रवाम अत्रसातेप्रतिदुग्धामितिप्रकृत्यवीरोवीरयत्य- मित्रान् वेतेर्वास्याद्गतिकर्मणोवीरयतेर्वेत्यन्तंनिरुक्तमनुसन्धेयम् ॥ २१ ॥

॥ इतिगार्त्समदेमण्डलेप्रथमोनुवाकः ॥ १ ॥

द्वितीयेनुवाकेएकादशसूक्तानि तत्रयोजातइतिपञ्चदशर्चंप्रथमंसूक्तम् गार्त्समदंत्रैष्टुभमैन्द्रं संसवे- निष्केवल्येनिविद्धानीयस्य पुरस्ताद्योजातएवेतिशंस्येत् यदिपर्यायानितिखण्डेसूत्रितम्—योजातए- वेतिनिष्केवल्यइति । आभिप्लविकेतृतीयेहनिनिष्केवल्येयोजातएवेतिनिविद्धानीयं सूत्रितञ्च—तृ- तीयस्यत्र्यर्यमायोजातएवेतिमध्यन्दिनइति । विश्वजितिमाध्यन्दिनसवनेमैत्रावरुणः स्वशस्त्रेप्राकृता- त्सूक्तात् पूर्वंयोजातइतिसामसूक्तंशंसेत् विश्वजितोग्निंनरइतिखण्डेसूत्रितम् सत्रामदासोयोजातएवा भूरेकइतिसामसूक्तानीति । अग्निष्टुन्निष्केवल्येनिविद्धानमिदं श्येनाजिरानामितिखण्डेसूत्रितम्—ति- ष्ठाहरीयोजातएवेतिमध्यन्दिनइति । महाव्रतेनिष्केवल्येयोजातएवेतिसूक्तं उरूइतिखण्डेसूत्रितम्— वनेनवायोन्यधायिचाकन् योजातएवप्रथमोमनस्वानिति । अत्रेतिहासोबृहद्देवतायामुक्तः—संयुज्य- तपसात्मानमैन्द्रंबिभ्रन्महद्वपुः ।

अदृश्यतमुहूर्तेनदिविचव्योम्निचेहच ॥ १ ॥

तमिन्द्रइतिमत्वातुदैत्यौ- भीमपराक्रमौ । धुनिश्चचुमुरिश्चोभौसायुधावभिपेततुः ॥ २ ॥

विदित्वासतयोर्भावमृषिःपापंचिकीर्ष- तोः । योजातइतिसूक्तेनकर्माण्यैन्द्राण्यकीर्तयत् ॥ ३ ॥

अन्येत्वन्यथावर्णयन्ति—पुराकिलेन्द्रादयोवैन्य- यज्ञंसमाजग्मुः गृत्समदोपितत्रागत्यसदस्यासीत् दैत्याश्चेन्द्रजिघांसयातत्रसमागमन् तान्दृष्ट्वानिर्ज- गामेन्द्रोयज्ञात् गृत्समदाकृतिः सचगृत्समदोवैन्येनपूजितोयज्ञवाटान्निगच्छत् निर्गच्छंतंतमृषिंदृष्ट्वा- अयमेवेन्द्रइतिमन्यमानास्तमसुराः परिवव्रुः नाहमिन्द्रस्तुच्छः किन्त्वेवंगुणोपेतः सइत्यनेनसूक्तेनता- न्प्रत्युवाच । अपरेत्वेवंकथयन्ति—गृत्समदस्ययज्ञेप्रविष्टमेकाकिनमिन्द्रंज्ञात्वाअसुरःपरिवव्रुः सइन्द्रो- गृत्समदरूपेणयज्ञवाटान्निर्गत्यस्वर्गंजगाम ततःअसुराः इन्द्रोविलम्बितइत्यन्तःप्रविश्यगृत्समदंदृष्ट्वा पूर्वमेवगृत्समदोगतः अयंत्विन्द्रोस्मद्भयात् गृत्समदरूपेणास्तइति तंजगृहुः सतान्नाहमिन्द्रोयमित्यने- नसूक्तेन प्रत्युवाच अयमेवार्थोमहाभारतेप्रपञ्चितः ।