द्वितीयं मण्डलम् - सूक्तम् 34

15 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: मरुतः छन्दः: जगती

सूक्तम् 2.34 - सम्पूर्णम्

1 / 15
ऋक्: 2.34.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
2.34.1
धा॒रा॒व॒रा म॒रुतो᳚ धृ॒ष्ण्वो᳚जसो मृ॒गा न भी॒मास्तवि᳚षीभिर॒र्चिनः᳚ ।
अ॒ग्नयो॒ न शु᳚शुचा॒ना ऋ᳚जी॒षिणो॒ भृमिं॒ धम᳚न्तो॒ अप॒ गा अ᳚वृण्वत ॥
▶ पदपाठः (Word-by-word)
धा॒रा॒व॒राः । म॒रुतः᳚ । धृ॒ष्णु॑ओ᳚जसः । मृ॒गाः । न । भी॒माः । तवि᳚षीभिः । अ॒र्चिनः᳚ ।
अ॒ग्नयः᳚ । न । शु॒शु॒चा॒नाः । ऋ॒जी॒षिणः᳚ । भृमि᳚म् । धम᳚न्तः । अप᳚ । गाः । अ॒वृ॒ण्व॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धारावरा उदकधारयान्तरिक्षमावृण्वन्तः यद्वा धाराणांधृतानांस्थिराणांवृक्षादीनां निवारयिता- रः चालयितारः यद्वा सर्वस्यजगतोधारयितारः धृष्णवोजसः परेषांधर्षकेणबलेनयुक्ताः अतएवमृगा- नभीमाः सिंहाइवभयङ्कराः तविषीभिरात्मीयैर्बलैः वृष्टिप्रदानादिना अर्चिनः सर्वंजगत् पूजयन्तः अग्नयोनशुशुचानाः दीप्तावह्नयइवदीप्यमानाः शुचदीप्तौ लटःकानच् ऋजीषिणः ऋजीषमुदकंतद्व- न्तः यद्वा ऋजीषोपगतसारः सोमः तेनयुक्ताः तृतीयसवनेह्याग्निमारुते मरुतःस्तूयन्ते तत्रचसवनद्वये अभिषुतंगतसारं सोममभिषुण्वन्ति अतस्तेषांतद्युक्तत्वं एवं भूतामरुतः भृमिंभ्राम्यन्तं मेघंधमन्तः वर्षणार्थंइतस्ततःप्रेरयन्तः गाः तदन्तर्गतावर्ष्याः अपः अपावृण्वत अपावृताकुर्वन्ति यथासर्वैर्दृश्यन्ते तथाप्रवर्षन्तीत्यर्थः यद्वा भृम्याख्योवीणाविशेषः तंधमन्तोवादयन्तः गाः वलनाम्नासुरेणापिहिताः अपावृण्वत अपगतावरणाअकुर्वन् ॥ १ ॥

2.34.2 समानपद
द्यावो॒ न स्तृभि᳚श्चितयन्त खा॒दिनो॒ व्य१॒᳚भ्रिया॒ न द्यु᳚तयन्त वृ॒ष्टयः᳚ ।
रु॒द्रो यद्वो᳚ मरुतो रुक्मवक्षसो॒ वृषाज᳚नि॒ पृश्न्या᳚ः शु॒क्र ऊध᳚नि ॥
▶ पदपाठः (Word-by-word)
द्यावः᳚ । न । स्तृ॑भिः᳚ । चि॒त॒य॒न्त॒ । खा॒दिनः᳚ । वि । अ॒भ्रियाः᳚ । न । द्यु॒त॒य॒न्त॒ । वृ॒ष्टयः᳚ ।
रु॒द्रः । यत् । वः॒ । म॒रु॒तः॒ । रु॒क्म॒॑व॒क्ष॒सः॒ । वृषा᳚ । अज᳚नि । पृश्न्याः᳚ । शु॒क्रे । ऊध᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तृभिः नक्षत्रनामैतत् य्दाहयास्कः—ऋक्षस्तृभिरितिनक्षत्राणामिति । नक्षत्रैर्द्यावोन यथाद्युलो- काश्चितयन्तचेतयन्ति स्वात्मानंज्ञापयन्ति चितीसंज्ञाने प्रकाशन्तइत्यर्थः तथाखादिनः शत्रूणांखाद- कामरुतः स्वकीयैराभरणैर्ज्ञायंते यद्वा खादः कटकं तद्युक्ताःसन्तः प्रकाशन्ते तथावृष्टयोवर्षकामरुतः आभ्रियानअभ्रेषुभवाविद्युतइव विद्युतयन्त सर्वंजगद्विद्योतयन्ति प्रकाशयन्ति अभ्रशब्दाद्भवार्थे स- मुद्राभ्राद्घइतिघप्रत्ययः शेषःप्रत्यक्षकृतः रुक्मवक्षसः रुक्मंरोचमानाभरणंवक्षस्युरसियेषां तादृशा- हेमरुतः यद्यदावोयुष्मान् वृषासेचनसमर्थोरुद्रोमहादेवः पृश्र्याःपृश्निर्माध्यमिकावाक् तस्याः संबन्धि- निशुक्रेनिर्मलेऊधनिउच्छ्रितप्रदेशेअजनिअजनयत् तदानीमितिपूर्वत्रसंबन्धः यद्वा पृश्निर्नानावर्णा- इयंभूमिःपुरागोरूपधरासीत् तस्यांमहेशोवृषोभूत्वामरुतउत्पादयामासेत्याचक्षते तदत्रोच्यते—हेम- रुतोयद्यस्माद्वोयुष्मान् वृषावृषरूपोरुद्रः पृश्न्यागोः शुक्रेनिर्मलेऊधनिऊधसिपयसउत्पत्तिस्थाने- अजनिअजीजनत् तस्माद्यूयंएवंमहानुभावाजाताइत्यर्थः तथाचतैत्तिरीयकम्—पृश्नियैवैपयसोमरु- तोजाताइति ॥ २ ॥

2.34.3
उ॒क्षन्ते॒ अश्वा{4}॒ अत्या{4}᳚ इवा॒जिषु᳚ न॒दस्य॒ कर्णै᳚स्तुरयन्त आ॒शुभि᳚ः ।
हिर᳚ण्यशिप्रा मरुतो॒ दवि᳚ध्वतः पृ॒क्षं या᳚थ॒ पृष᳚तीभिः समन्यवः ॥
▶ पदपाठः (Word-by-word)
उ॒क्षन्ते᳚ । अश्वा᳚न् । अत्या᳚न्॑इव । आ॒जिषु᳚ । न॒दस्य᳚ । कर्णैः᳚ । तु॒र॒य॒न्ते॒ । आ॒शु॑भिः᳚ ।
हिर᳚ण्य॑शिप्राः । म॒रु॒तः॒ । दवि᳚ध्वतः । पृ॒क्षम् । या॒थ॒ । पृष᳚तीभिः । स॒॑म॒न्य॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतः अश्वान् व्याप्तान् लोकान् उक्षंतेसिञ्चन्ति अशूव्याप्तौ औणादिकः क्वन्प्रत्ययः आजिषुसङ्- ग्रामेषु अत्यानिव सततगामिनस्तुरगान् यथाखेदापनोदाय उदकैःसिञ्चंति तद्वत् अपिच तेमरुतः आशुभिः शीघ्रगमनैरश्वैः नदस्व शब्दवतोमेघस्यकर्णैः कृतैर्मध्यप्रदेशैः तुरयन्ते वर्षणार्थंवृष्ट्युत्पाद- नाय त्वरितंगच्छन्ति तुरत्वरणे शेषःप्रत्यक्षकृतः हेहिरण्यशिप्राः शिप्रं शिरस्त्राणं सुवर्णमयशिरस्त्रा- णाः समन्यवः समान्मनस्काः समानक्रोधावा हेमरुतः दविध्वतः महीरुहादिकंकंपयन्तोयूयं धूञ् कं- पनेइत्यस्माद्दाधर्त्यादावेतद्रूपंनिपात्यते पृपतीभिः युष्मद्रथेयोजिताभिः शेतबिंद्वङ्किताभिः मृगीभिः वडवाभिर्वा पृक्षं अन्ननामैतत् हविर्लक्षणान्नवन्तंयजमानंअर्शाआदित्वादच् याथगच्छथ ॥ ३ ॥

2.34.4
पृ॒क्षे ता विश्वा॒ भुव᳚ना ववक्षिरे मि॒त्राय᳚ वा॒ सद॒मा जी॒रदा᳚नवः ।
पृष᳚दश्वासो अनव॒भ्ररा᳚धस ऋजि॒प्यासो॒ न व॒युने᳚षु धू॒र्षदः᳚ ॥
▶ पदपाठः (Word-by-word)
पृ॒क्षे । ता । विश्वा᳚ । भुव᳚ना । व॒व॒क्षि॒रे॒ । मि॒त्राय᳚ । वा॒ । सद᳚म् । आ । जी॒र॑दा᳚नवः ।
पृष᳚त्॑अश्वासः । अ॒न॒व॒भ्र॑रा᳚धसः । ऋ॒जि॒प्यासः᳚ । न । व॒युने᳚षु । धूः॒॑सदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृक्षे प्रुक्षवते हविर्लक्षणान्नयुक्ताययजमानायतातानिविश्वासर्वाणिभुवनाभुवनान्युदकानिमित्राय वाशब्दउपमार्थः मित्रायेवसदंसदाआववक्षिरे मरुतआवहन्ति यद्वा वाशब्दोवधारणे मित्रभूताययज- मानायैव पृक्षेन्नेनिमित्तभूतेसतिवृष्ट्युदकान्यावहंति कीदृशामरुतः जीरदानवः क्षिप्रदानाः पृषदश्वा- सः पृषद्भिःश्वेतबिंदुभिर्युक्ताअश्वायेषांतेतथोक्ताः अनवभ्रराधसः भृशुभ्रंशुअधःपतने अवभ्रंशनमवभ्रः डोन्यत्रापिदृश्यतइतिडप्रत्ययः नास्त्यवभ्रोयस्येतिबहुव्रीहौनञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वं अनव- भ्रंभ्रंशनरहितंराधोधनंयेषांते बहुव्रीहौपूर्वपदप्रकृतिस्वरत्वं ऋजिप्यासोन ऋजुअकुटिलंप्राप्नुवन्तोग- च्छन्तोश्वाइववयुनेषुगन्तृषुमध्ये धूर्षदः धुरि मेघस्यवहनेसीदन्तोनिषण्णाइत्यर्थः ॥ ४ ॥

2.34.5
इन्ध᳚न्वभिर्धे॒नुभी᳚ र॒प्शदू᳚धभिरध्व॒स्मभि᳚ः प॒थिभि᳚र्भ्राजदृष्टयः ।
आ हं॒सासो॒ न स्वस᳚राणि गन्तन॒ मधो॒र्मदा᳚य मरुतः समन्यवः ॥
▶ पदपाठः (Word-by-word)
इन्ध᳚न्व॑भिः । धे॒नु॑भिः᳚ । र॒प्शदू᳚ध॑भिः । अ॒ध्व॒स्म॑भिः᳚ । प॒थि॑भिः᳚ । भ्रा॒ज॒त्॑ऋ॒ष्ट॒यः॒ ।
आ । हं॒सासः᳚ । न । स्वस᳚राणि । ग॒न्त॒न॒ । मधोः᳚ । मदा᳚य । म॒रु॒तः॒ । स॒॑म॒न्य॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समन्यवः समानमनस्काः समानक्रोधाः समानतेजसोवाहेमरुतः भ्राजदृष्टयोदीप्यमानायुधायूयं इंधन्वभिः समिन्धनवद्भिः इन्धनशब्दाच्छन्दसीवनिपावितिमत्वर्थीयोवनिप् छान्दसोवर्णलोपः धेनुभिः प्रीणयितृभिश्च रप् शादूधभिः विरप् शीतिमहन्नाम महोधस्कैः ऊधांसिजलस्रोतोमार्गः यद्वा रपलपव्यक्तायांवाचि शब्दायमानोच्छ्रितप्रदेशैः अध्वरस्मभिः ध्वंसनरहितैः पथिभिः पतन्तिगच्छ- न्तीतिपन्थानोमेघाः एवंभूतैर्मेघैःसहमार्गैरेववाआगन्तन आगच्छत किमर्थं मधोर्मदाय सोमस्यमदा- र्थं तत्रदृष्टान्तः—हंसासोन यथाहंसाः स्वसराणिस्वकीयानि निवासस्थानानि प्राप्नुवन्तितद्वत् ॥ ५ ॥

2.34.6
आ नो॒ ब्रह्मा᳚णि मरुतः समन्यवो न॒रां न शंस॒ः सव᳚नानि गन्तन ।
अश्वा᳚मिव पिप्यत धे॒नुमूध᳚नि॒ कर्ता॒ धियं᳚ जरि॒त्रे वाज᳚पेशसम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ब्रह्मा᳚णि । म॒रु॒तः॒ । स॒॑म॒न्य॒वः॒ । न॒राम् । न । शंसः᳚ । सव᳚नानि । ग॒न्त॒न॒ ।
अश्वा᳚म्॑इव । पि॒प्य॒त॒ । धे॒नुम् । ऊध᳚नि । कर्ता᳚ । धिय᳚म् । ज॒रि॒त्रे । वाज᳚॑पेशसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समन्यवः समानमनसः समानक्रोधावाहेमरुतः नोस्माकंब्रह्माणिअन्ननामैतत् अन्नानि सवनानि अभिषुत सोमलक्षणानिहवींषिआगन्तन आगच्छत गमेर्लोटिछान्दसःशपोलुक् तप्तनप्तनथनाश्चेतित- स्यतनबादेशः अतएवङित्त्वाभावादनुनासिकलोपाभावः तत्रदृष्टान्तः—नरांनशंसः नरामस्माकंशंसः शंसनीयंस्तोत्रं यथा आगच्छथतद्वत् नरशब्दात् षष्ठीब्रहुवचनस्यानित्यमागमशासनमितिनुडभावः शंसः कर्मणिघञंतआद्युदात्तः सुपांसुलुगित्यमःसुआदेशः आगत्यचधेनुं उदकदानेन प्रीणयितारमश्व- मिवऊधनि पिप्यत यथा अश्वाःपीनावयवाभवन्ति तद्वन्मेघंवर्षणसमर्थं आप्यायितं कुरुतेत्यर्थः अ- पिचजरित्रेस्तोत्रे वाजपेशसंवाजैरन्नैराश्लिष्टं पिशअवयवे धियंकर्मकर्त कुरुत करोतेश्छान्दसःशपोलुक् पूर्ववत्तशब्दस्यतबादेशः ॥ ६ ॥

2.34.7
तं नो᳚ दात मरुतो वा॒जिनं॒ रथ᳚ आपा॒नं ब्रह्म᳚ चि॒तय᳚द्दि॒वेदि᳚वे ।
इषं᳚ स्तो॒तृभ्यो᳚ वृ॒जने᳚षु का॒रवे᳚ स॒निं मे॒धामरि᳚ष्टं दु॒ष्टरं॒ सहः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । नः॒ । दा॒त॒ । म॒रु॒तः॒ । वा॒जिन᳚म् । रथे᳚ । आ॒पा॒नम् । ब्रह्म᳚ । चि॒तय᳚त् । दि॒वे॑दि᳚वे ।
इष᳚म् । स्तो॒तृ॑भ्यः᳚ । वृ॒जने᳚षु । का॒रवे᳚ । स॒निम् । मे॒धाम् । अरि᳚ष्टम् । दु॒स्तर᳚म् । सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः तंपुत्रंनोस्मभ्यंदात दत्त प्रयच्छत छान्दसःशपोलुक् कीदृशं वाजिनमन्नवन्तं बलवन्तंवार थेरंहणेयुष्मदीयेआगमनेनिमित्तभूतेसति दिवेदिवेप्रतिदिवसंचितयत् प्रज्ञापयत् युष्मद्गुणप्रख्यापकं- ब्रह्मस्तोत्रंआपानंआप्नुवन्तं अपिच इषमन्नंस्तोतृभ्योस्मभ्यंदात प्रयच्छत तथावृजनेषुसङ्ग्रामेषुकार- वेस्तोत्रे वचनव्यत्ययः मेधांयुद्धप्रज्ञांसनिंधनदातृत्वंच अरिष्टंशत्रुभिरहिंसितंदुस्तरंशत्रुभिस्तरीतुमश- क्यंसहोबलंचप्रयच्छत ॥ ७ ॥

2.34.8 समानपद
यद्यु॒ञ्जते᳚ म॒रुतो᳚ रु॒क्मव᳚क्ष॒सो॑श्वा॒न्रथे᳚षु॒ भग॒ आ सु॒दान᳚वः ।
धे॒नुर्न शिश्वे॒ स्वस᳚रेषु पिन्वते॒ जना᳚य रा॒तह᳚विषे म॒हीमिष᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । यु॒ञ्जते᳚ । म॒रुतः᳚ । रु॒क्म॑व᳚क्षसः । अश्वा᳚न् । रथे᳚षु । भगे᳚ । आ । सु॒॑दान᳚वः ।
धे॒नुः । न । शिश्वे᳚ । स्वस᳚रेषु । पि॒न्व॒ते॒ । जना᳚य । रा॒त॑ह᳚विषे । म॒हीम् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुक्मवक्षसः रोचमानाभरणोरस्काः सुदानवः शोभनदानामरुतः यद्यदारथेषुभगेभजनीयेस्थाने धुरीत्यर्थः अश्वानायुञ्चते आभिमुख्येनयुक्तान्कुर्वन्ति तदानीमेवरातहविषेदत्तहविष्कायजनाययज- मानायमहींमहतीमिषमन्नंतत्कारण भूतमुदकंवास्वसरेषुस्वकीयेषुगृहेषुपिन्वते सिञ्चंतिकिरन्ति पि- विसेचने तत्रदृष्टान्तः—धेनुर्नशिश्वे यथाधेनुः प्रस्नुतस्तनीसती स्वकीयायवत्सायक्षीरंप्रयच्छतितद्वत् ॥ ८ ॥

2.34.9 समानपद
यो नो᳚ मरुतो वृ॒कता᳚ति॒ मर्त्यो᳚ रि॒पुर्द॒धे व᳚सवो॒ रक्ष᳚ता रि॒षः ।
व॒र्तय᳚त॒ तपु᳚षा च॒क्रिया॒भि तमव᳚ रुद्रा अ॒शसो᳚ हन्तना॒ वधः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । म॒रु॒तः॒ । वृ॒क॑ता᳚ति । मर्त्यः᳚ । रि॒पुः । द॒धे । व॒स॒वः॒ । रक्ष᳚त । रि॒षः ।
व॒र्तय᳚त । तपु᳚षा । च॒क्रिया᳚ । अ॒भि । तम् । अव᳚ । रु॒द्राः॒ । अ॒शसः᳚ । ह॒न्त॒न॒ । वध॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः योमर्त्योमनुष्यः वृकतातिआदाता वृकः वृकआदाने वृकज्येष्ठाभ्यांतिल् तातिलौचच्छन्द सीतिस्वार्थिकस्तातिल् प्रत्ययः तादृशःसन् नोस्माकंरिपुर्दधे रिपुतयाआत्मानंधारयति हेवसवोवास- यितारोमरुतः रिषोहिंसकादस्मान् रक्षत पालयत अस्माकंशत्रुभूतंमर्त्यंतपुषातापयित्र्याचक्रिया ऋ- ष्ट्याख्ययाशक्त्याअभिवर्तयत अभितोनिवर्तयत हेरुद्राः रुद्रपुत्राः यद्वा रोरूयमाणाद्रवन्तः अशसो- भक्षकस्य अशभोजने इत्यस्मादौणादिकोसिप्रत्ययः तादृशस्यराक्षसादेर्वधः हननसाधनमायुधंअवह- न्तनअवयुत्यास्मत्तः पृथक् क्रुत्यनाशयत हन्तेर्लोटितप्तनप्तनथनाश्चेतितनप् ॥ ९ ॥

2.34.10
चि॒त्रं तद्वो᳚ मरुतो॒ याम᳚ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो᳚ दु॒हुः ।
यद्वा᳚ नि॒दे नव᳚मानस्य रुद्रियास्त्रि॒तं जरा᳚य जुर॒ताम᳚दाभ्याः ॥
▶ पदपाठः (Word-by-word)
चि॒त्रम् । तत् । वः॒ । म॒रु॒तः॒ । याम᳚ । चे॒कि॒ते॒ । पृश्न्याः᳚ । यत् । ऊधः᳚ । अपि᳚ । आ॒पयः᳚ । दु॒हुः ।
यत् । वा॒ । नि॒दे । नव᳚मानस्य । रु॒द्रि॒याः॒ । त्रि॒तम् । जरा᳚य । जु॒र॒ताम् । अ॒दा॒भ्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकं तत् चित्रं चायनीयंयामप्रापणं चेकिते सर्वैर्ज्ञायते इदानींपरोक्षवदाह अपि- शब्दःप्रसिद्धौ यद्यदाखलुपृश्न्याः माध्यमिकायावाचःसंबन्धिनं ऊधः उद्धतंमेघं आपयः प्रापयितारो- मरुतः दुहुःदुहंति दुहेश्छान्दसोलिट् छन्दसिचेतिवक्त्व्यमितिद्विर्वचनाभावः यद्वा यदाचनवमानस्य स्तुवतः त्रितस्यनिदे निंदकायशत्रवेहिंसांकृतवंतइतिशेषः णिदिकुत्सायां क्विप् चेतिक्विप् तदानीं हेअ दाभ्याः अहिंस्याः रुद्रियाः रुद्रस्यपुत्रामरुतः त्रितमृषिंजुरतांहिंसतांशत्रूणां जरायजरणायविनाश- नायअभूतेतिशेषः ॥ १० ॥

2.34.11
तान्वो᳚ म॒हो म॒रुत᳚ एव॒याव्नो॒ विष्णो᳚रे॒षस्य᳚ प्रभृ॒थे ह᳚वामहे ।
हिर᳚ण्यवर्णान्ककु॒हान्य॒तस्रु᳚चो ब्रह्म॒ण्यन्त॒ः शंस्यं॒ राध᳚ ईमहे ॥
▶ पदपाठः (Word-by-word)
तान् । वः॒ । म॒हः । म॒रुतः᳚ । ए॒व॒॑याव्नः᳚ । विष्णोः᳚ । ए॒षस्य᳚ । प्र॒॑भृ॒थे । ह॒वा॒म॒हे॒ ।
हिर᳚ण्य॑वर्णान् । क॒कु॒हान् । य॒त॑स्रु᳚चः । ब्र॒ह्म॒ण्यन्तः᳚ । शंस्य᳚म् । राधः᳚ । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः एवयाव्नः एवंगन्तव्यं स्तोत्रंयज्ञंवागंतॄन्महोमहोमहतोमहानुभावांस्तान् वोयुष्मान् वि- ष्णोर्व्यापकस्यग्रहचमसादिषुसर्वत्रव्याप्यवर्तमानस्यएषस्यएषणीयस्यप्रार्थनीयस्यसोमस्यप्रभृथेप्र- भरणे अभिषवादिभिः प्रकर्षेणसंपादनेसति हवामहे आह्वयामहे आहूयच हिरण्यवर्णान् हितर- मणीयवर्णान्वाककुहान् श्रेष्ठान् स्तुत्यान्वा एवंभूतांस्तान् यतस्रुचः यागायोद्यतस्नुचः ब्रह्मण्यन्तः ब्रह्मस्तोत्रं तदिच्छन्तोवयंशंस्यं प्रशंसनीयंराधोधनं ईमहेयाचामहे ॥ ११ ॥

2.34.12 समानपद
ते दश᳚ग्वाः प्रथ॒मा य॒ज्ञमू᳚हिरे॒ ते नो᳚ हिन्वन्तू॒षसो॒ व्यु᳚ष्टिषु ।
उ॒षा न रा॒मीर᳚रु॒णैरपो᳚र्णुते म॒हो ज्योति᳚षा शुच॒ता गोअ᳚र्णसा ॥
▶ पदपाठः (Word-by-word)
ते । दश᳚॑ग्वाः । प्र॒थ॒माः । य॒ज्ञम् । ऊ॒हि॒रे॒ । ते । नः॒ । हि॒न्व॒न्तु॒ । उ॒षसः᳚ । वि॑उ᳚ष्टिषु ।
उ॒षाः । न । रा॒मीः । अ॒रु॒णैः । अप᳚ । ऊ॒र्णु॒ते॒ । म॒हः । ज्योति᳚षा । शु॒च॒ता । गो॑अ᳚र्णसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते मरुतः दशग्वाः येदशभिर्मासैः सिद्धिंगताः अङ्गिरसस्तद्रूपाभूत्वा प्रथमाआदित्येभ्यः प्र- थमभाविनःसन्तः यज्ञमूहिरेअवहन् आदित्यानामङ्गिरसांचस्वर्गगमनंप्रतिस्पर्धमानानांमध्येपूर्व- मेवाङ्गिरसोयागाननुष्ठायस्वर्गंप्राप्ताः तथाचश्रूयते—आदित्याश्चैवेहासन्नङ्गिरसश्चतेग्रेग्निनाग्निमय- जन्तेति । तादृशास्ते उषसोव्युष्टिषुविवासेषुप्रभातेषुसत्सुनोस्मान् हिन्वन्तु ग्रेरयन्तु हिगतौ वृद्धौच रामीः कृष्णवर्णारात्रीः उषोनयथाउषाः अरुणैरारोचमानैःस्वतेजोभिः अपोर्णुते अपवृणोत्यपसा- रयति तथामहोमहताशुचतादीप्यमानेन गोअर्णसागच्छदुदकेनज्योतिषासूर्याख्येनतमोनिवारयन्ति सूर्यमण्डलमावृण्वतोवृत्रादीन् हत्वासर्वं जगत्प्रकाशयन्तीत्यर्थः ॥ १२ ॥

2.34.13
ते क्षो॒णीभि᳚ररु॒णेभि॒र्नाञ्जिभी᳚ रु॒द्रा ऋ॒तस्य॒ सद᳚नेषु वावृधुः ।
नि॒मेघ᳚माना॒ अत्ये᳚न॒ पाज᳚सा सुश्च॒न्द्रं वर्णं᳚ दधिरे सु॒पेश᳚सम् ॥
▶ पदपाठः (Word-by-word)
ते । क्षो॒णीभिः᳚ । अ॒रु॒णेभिः᳚ । न । अ॒ञ्जि॑भिः᳚ । रु॒द्राः । ऋ॒तस्य᳚ । सद᳚नेषु । व॒वृ॒धुः॒ ।
नि॒॑मेघ᳚मानाः । अत्ये᳚न । पाज᳚सा । सु॑च॒न्द्रम् । वर्ण᳚म् । द॒धि॒रे॒ । सु॒॑पेश᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुद्रारुद्रपुत्रास्तेमरुतः क्षोणीभिः शब्दकारिभिर्वीणाख्यैर्वीणाविशेषैः अरुणेभिर्नाञ्जिभिः नश- ब्दः समुच्वये आरोचमानैररुणवर्णैर्वारूपाभिव्यञ्चकैरलंकारैश्चसमन्विताःसन्तः ऋतस्योदकस्य स- दनेषुनिवासभूतेषुमेघेषुवावृधुः वर्धन्ते अपिच अत्येनसततगामिना शीघ्रंव्याप्नुवता पाजसाआत्मी येनबलेननिमेघमानाः नितरां मेघादुदकंसिञ्चन्तस्ते सुश्चन्द्रं शोभनाह्लादनंसुपेशसं पेशइतिरूप- नाम शोभनरूपंवर्णदधिरे कान्तिंधारयन्ति ॥ १३ ॥

2.34.14
ता{4} इ᳚या॒नो महि॒ वरू᳚थमू॒तय॒ उप॒ घेदे॒ना नम᳚सा गृणीमसि ।
त्रि॒तो न यान्पञ्च॒ होतॄ᳚न॒भिष्ट᳚य आव॒वर्त॒दव᳚राञ्च॒क्रियाव᳚से ॥
▶ पदपाठः (Word-by-word)
तान् । इ॒या॒नः । महि᳚ । वरू᳚थम् । ऊ॒तये᳚ । उप᳚ । घ॒ । इत् । ए॒ना । नम᳚सा । गृ॒णी॒म॒सि॒ ।
त्रि॒तः । न । यान् । पञ्च᳚ । होतॄ᳚न् । अ॒भिष्ट᳚ये । आ॒॑व॒वर्त᳚त् । अव᳚रान् । च॒क्रिया᳚ । अव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

तान्मरुतोमहिमहत् वरूथंवरणीयंप्रशस्तंधनं तन्मरुतः ऊतयेरक्षणार्थं इयानः इयानाः याच- मानावयं सुपांसुलुगितिजसःसुः एनाअनेननमसा नमस्कारेणस्तोत्रेणवाउपेत् उपेत्यगृणीमसिस्तु- मः घेतिपादपूरणः एनेत्यत्रसुपांसुलुगितितृतीयायाआजादेशः नशब्दः समुच्चये त्रितऋषिश्चयाने- तान् मरुतः पञ्चहोतॄन् अध्यात्मप्रणापानादिपञ्चवृत्त्यात्मनावर्तमानान् अतएवहोमनिष्पादकान् अवरान्मुख्यान् अभिष्टयेअभिलषितसिद्भ्यर्थंचक्रियानाभिचक्रेणअवसेअवतुंसङ्गन्तुं आववर्तत् स्व- स्मान्निर्जिगमिषून् प्राणान् स्वात्माभिमुखमावर्तयेत् यद्वा चक्रियाऋष्ट्याख्येनायुधेनयुक्तान् अवसे स्तुत्यादिभिःपरिचरितुमावर्तयत् तान् स्तुमइतिपूर्वत्रसंबन्धः ववर्तदिति वृतेर्ण्यन्ताल्लुङिचङिरू- पम् ॥ १४ ॥

2.34.15
यया᳚ र॒ध्रं पा॒रय॒थात्यंहो॒ यया᳚ नि॒दो मु॒ञ्चथ᳚ वन्दि॒तार᳚म् ।
अ॒र्वाची॒ सा म᳚रुतो॒ या व᳚ ऊ॒तिरो षु वा॒श्रेव᳚ सुम॒तिर्जि᳚गातु ॥
▶ पदपाठः (Word-by-word)
यया᳚ । र॒ध्रम् । पा॒रय᳚थ । अति᳚ । अंहः᳚ । यया᳚ । नि॒दः । मु॒ञ्चथ᳚ । व॒न्दि॒तार᳚म् ।
अ॒र्वाची᳚ । सा । म॒रु॒तः॒ । या । वः॒ । ऊ॒तिः । ओ इति᳚ । सु । वा॒श्रा॑इ᳚व । सु॒॑म॒तिः । जि॒गा॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः ययाऊत्यारध्रमाराधकंयजमानंअंहः पापंअतिपारयथ अतिक्रामयथ यया ऊत्या- वन्दितारंस्तोतारंनिदोनिन्दितुः शत्रोः सकाशात् मुञ्चथ मोचयथ हेमरुतः वोयुष्मदीयाया ऊतिः साअर्वाची अस्मदभिमुखाभवतु तथासुमतिर्युष्मदीयाशोभनामतिः अनुग्रहात्मिकाबुद्धिश्चवाश्रे- वहंभारवंकुर्वतीधेनुरिववत्संसुसुष्ठुओजिगातु आगच्छतु एवमस्मान् प्रतिसर्वथाआगच्छत्वित्यर्थः ॥ १५ ॥

उपेमितिपञ्चदशर्चंतृतीयंसूक्तंगार्त्समदंत्रैष्टुभंअपान्नपाद्देवताकं तथाचानुक्रान्तं उपेमपोनत्नीय- मिति सूक्तविनियोगोलैङ्गिकः ।