श्रवणम्

2.34.14
ता{4} इ᳚या॒नो महि॒ वरू᳚थमू॒तय॒ उप॒ घेदे॒ना नम᳚सा गृणीमसि ।
त्रि॒तो न यान्पञ्च॒ होतॄ᳚न॒भिष्ट᳚य आव॒वर्त॒दव᳚राञ्च॒क्रियाव᳚से ॥
▶ पदपाठः (Word-by-word)
तान् । इ॒या॒नः । महि᳚ । वरू᳚थम् । ऊ॒तये᳚ । उप᳚ । घ॒ । इत् । ए॒ना । नम᳚सा । गृ॒णी॒म॒सि॒ ।
त्रि॒तः । न । यान् । पञ्च᳚ । होतॄ᳚न् । अ॒भिष्ट᳚ये । आ॒॑व॒वर्त᳚त् । अव᳚रान् । च॒क्रिया᳚ । अव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

तान्मरुतोमहिमहत् वरूथंवरणीयंप्रशस्तंधनं तन्मरुतः ऊतयेरक्षणार्थं इयानः इयानाः याच- मानावयं सुपांसुलुगितिजसःसुः एनाअनेननमसा नमस्कारेणस्तोत्रेणवाउपेत् उपेत्यगृणीमसिस्तु- मः घेतिपादपूरणः एनेत्यत्रसुपांसुलुगितितृतीयायाआजादेशः नशब्दः समुच्चये त्रितऋषिश्चयाने- तान् मरुतः पञ्चहोतॄन् अध्यात्मप्रणापानादिपञ्चवृत्त्यात्मनावर्तमानान् अतएवहोमनिष्पादकान् अवरान्मुख्यान् अभिष्टयेअभिलषितसिद्भ्यर्थंचक्रियानाभिचक्रेणअवसेअवतुंसङ्गन्तुं आववर्तत् स्व- स्मान्निर्जिगमिषून् प्राणान् स्वात्माभिमुखमावर्तयेत् यद्वा चक्रियाऋष्ट्याख्येनायुधेनयुक्तान् अवसे स्तुत्यादिभिःपरिचरितुमावर्तयत् तान् स्तुमइतिपूर्वत्रसंबन्धः ववर्तदिति वृतेर्ण्यन्ताल्लुङिचङिरू- पम् ॥ १४ ॥