श्रवणम्

2.34.9 समानपद
यो नो᳚ मरुतो वृ॒कता᳚ति॒ मर्त्यो᳚ रि॒पुर्द॒धे व᳚सवो॒ रक्ष᳚ता रि॒षः ।
व॒र्तय᳚त॒ तपु᳚षा च॒क्रिया॒भि तमव᳚ रुद्रा अ॒शसो᳚ हन्तना॒ वधः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । म॒रु॒तः॒ । वृ॒क॑ता᳚ति । मर्त्यः᳚ । रि॒पुः । द॒धे । व॒स॒वः॒ । रक्ष᳚त । रि॒षः ।
व॒र्तय᳚त । तपु᳚षा । च॒क्रिया᳚ । अ॒भि । तम् । अव᳚ । रु॒द्राः॒ । अ॒शसः᳚ । ह॒न्त॒न॒ । वध॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः योमर्त्योमनुष्यः वृकतातिआदाता वृकः वृकआदाने वृकज्येष्ठाभ्यांतिल् तातिलौचच्छन्द सीतिस्वार्थिकस्तातिल् प्रत्ययः तादृशःसन् नोस्माकंरिपुर्दधे रिपुतयाआत्मानंधारयति हेवसवोवास- यितारोमरुतः रिषोहिंसकादस्मान् रक्षत पालयत अस्माकंशत्रुभूतंमर्त्यंतपुषातापयित्र्याचक्रिया ऋ- ष्ट्याख्ययाशक्त्याअभिवर्तयत अभितोनिवर्तयत हेरुद्राः रुद्रपुत्राः यद्वा रोरूयमाणाद्रवन्तः अशसो- भक्षकस्य अशभोजने इत्यस्मादौणादिकोसिप्रत्ययः तादृशस्यराक्षसादेर्वधः हननसाधनमायुधंअवह- न्तनअवयुत्यास्मत्तः पृथक् क्रुत्यनाशयत हन्तेर्लोटितप्तनप्तनथनाश्चेतितनप् ॥ ९ ॥