द्वितीयं मण्डलम् - सूक्तम् 42

3 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः (कपिंजलरूपी) छन्दः: त्रिष्टुप्

सूक्तम् 2.42 - सम्पूर्णम्

1 / 3
ऋक्: 2.42.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
2.42.1
कनि᳚क्रदज्ज॒नुषं᳚ प्रब्रुवा॒ण इय᳚र्ति॒ वाच᳚मरि॒तेव॒ नाव᳚म् ।
सु॒म॒ङ्गल᳚श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि᳚दभि॒भा विश्व्या᳚ विदत् ॥
▶ पदपाठः (Word-by-word)
कनि᳚क्रदत् । ज॒नुष᳚म् । प्र॒॑ब्रु॒वा॒णः । इय᳚र्ति । वाच᳚म् । अ॒रि॒ता॑इ᳚व । नाव᳚म् ।
सु॒॑म॒ङ्गलः᳚ । च॒ । श॒कु॒ने॒ । भवा᳚सि । मा । त्वा॒ । का । चि॒त् । अ॒भि॒॑भा । विश्व्या᳚ । वि॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कनिक्रदत् पुनःपुनःशब्दायमानः जनुषंनिष्यमाणमर्थं प्रब्रुवाणः सूचयन् कपिञ्चलः अरितेव कर्णधारइवनावंवाचमियर्तिप्रेरयति अथप्रत्यक्षकृतः हेशकुनेकपिञ्चल त्वंसुमङ्गलः प्रकृष्टकल्याण श्चभवासिभव किञ्च काचिदभिभा कोप्यभिभवः त्वात्वां विश्व्याविश्वतः सर्वासुदिक्षुमाविदत् माप्रापत् शकुनिः शक्नोत्युन्नेतुमात्मनं न्यक्रन्दीज्जन्मप्रब्रुवाणोयथास्यशब्दस्तथानामेरयतिवाचमीर यितेवनावंसुमङ्गलश्चशकुनेभवकल्याणमङ्गलोमङ्लंगिरतेर्गृणात्यर्थेगिरत्यर्थानितिवेतियास्कः ॥ १ ॥

2.42.2
मा त्वा᳚ श्ये॒न उद्व᳚धी॒न्मा सु᳚प॒र्णो मा त्वा᳚ विद॒दिषु᳚मान्वी॒रो अस्ता᳚ ।
पित्र्या॒मनु᳚ प्र॒दिशं॒ कनि᳚क्रदत्सुम॒ङ्गलो᳚ भद्रवा॒दी व᳚दे॒ह ॥
▶ पदपाठः (Word-by-word)
मा । त्वा॒ । श्ये॒नः । उत् । व॒धी॒त् । मा । सु॒॑प॒र्णः । मा । त्वा॒ । वि॒द॒त् । इषु᳚॑मान् । वी॒रः । अस्ता᳚ ।
पित्र्या᳚म् । अनु᳚ । प्र॒॑दिश᳚म् । कनि᳚क्रदत् । सु॒॑म॒ङ्गलः᳚ । भ॒द्र॒॑वा॒दी । व॒द॒ । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशकुने त्वात्वां श्येनः प्रबलः पक्षिविशेषो मावधीत् माहिंसीत् उतापिच सुपर्णः गरुडः पक्षिविशेषोमावधीत् माहिंसीत् तथाइषुमान् बाणवान् वीरः अस्ता शराणांक्षेप्ता धन्वीत्वा त्वां माविदत् माप्रापत् किञ्च पित्र्यांप्रदिशंदक्षिणांदिशमनुदक्षिणस्यांदिशीत्यर्थः कनिक्रदत् पुनःपुनः शब्दंकुर्वन् सुमङ्गलः कल्यणमङ्गलः भद्रवादीशोभनवादीसन् इहास्मद्विषये वद मङ्गलंसूचय ॥ २ ॥

2.42.3
अव᳚ क्रन्द दक्षिण॒तो गृ॒हाणां᳚ सुम॒ङ्गलो᳚ भद्रवा॒दी श᳚कुन्ते ।
मा नः᳚ स्ते॒न ई᳚शत॒ माघशं᳚सो बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । क्र॒न्द॒ । द॒क्षि॒ण॒तः । गृ॒हाणा᳚म् । सु॒॑म॒ङ्गलः᳚ । भ॒द्र॒॑वा॒दी । श॒कु॒न्ते॒ ।
मा । नः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घ॑शं᳚सः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शकुन्ते हेकपिञ्चल त्वंसुमङ्गलोभद्रवादीचसन् गृहाणांदक्षिणतः दक्षिणस्यांदिशिअवक्रन्द शब्दंकुरु दक्षिणतः शब्दायमानःशकुन्तोमङ्गलसूचकोहि नोस्माकं स्तेनस्तस्करोमाईशतमाईशिष्ट अघशंसः अनर्थकानांशंसकोपिमेशिष्ट उत्तमःपादोव्याख्यातचरः ॥ ३ ॥

प्रदक्षिणिदितितृचमेकादशंसूक्तंगार्त्समदंजागतं तथाचानुक्रान्तं—प्रदक्षिणिज्जागतंमध्येतिशक्वर्य ष्टिर्वेति द्वितीयातिशक्वरी अष्टिर्वा इतरेजगत्यौ कपिञ्चलरूपीन्द्रोदेवता वयसाममनोज्ञांवाचंश्रु- त्वाप्रदक्षिणिदितिसूक्तंजपेत् सूत्रंप्रागेवोदाह्रुतम् ।