पिबे᳚न्द्र॒ स्वाहा॒ प्रहु᳚तं॒ वष᳚ट्कृतं हो॒त्रादा सोमं᳚ प्रथ॒मो य ईशि᳚षे ॥
पदपाठः (Word-by-word)
पिब᳚ । इ॒न्द्र॒ । स्वाहा᳚ । प्र॑हु᳚तम् । वष᳚ट्॑कृतम् । हो॒त्रात् । आ । सोम᳚म् । प्र॒थ॒मः । यः । ईशि᳚षे ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र तुभ्यंत्वदर्थंहिन्वानः प्रेर्यमाणः सोमः गाः गोविकाराणि दधिपयः प्रभृतीनिश्रपणद्र व्याणिवसतीवर्याख्याअपश्चवसिष्ट वस्ते आच्छादयति तैःसंयुज्यतइत्यर्थः नरोयज्ञस्यनेतारोध्वर्य वश्चसीमेनंसोमंअविभिः अवेर्वालमयैर्दशापवित्रैः अद्रिभिर्ग्रावभिश्चअधुक्षन्नक्षारयन् ग्रावभिरभिषु त्यदशापवित्रेणपुनन्तीत्यर्थः हेइन्द्र यस्त्वमीशिषेसर्वस्यजगतईश्वरोभवसि त्वंप्रथमः अन्येभ्योदेवे भ्यःपूर्वभावीसन्स्वाहास्वाहाकारेणप्रहुतंप्रकर्षेणाग्नौक्षिप्तंवषट् कृतंवषट् कारेणचत्यक्तम् तंसोमं होत्रात् होतुर्यागादासमन्तात्पिब ॥ १ ॥