जु॒षेथां᳚ य॒ज्ञं बोध᳚तं॒ हव᳚स्य मे स॒त्तो होता᳚ नि॒विदः᳚ पू॒र्व्या अनु᳚ ।
अच्छा॒ राजा᳚ना॒ नम᳚ एत्या॒वृतं᳚ प्रशा॒स्त्रादा पि᳚बतं सो॒म्यं मधु᳚ ॥
अच्छा॒ राजा᳚ना॒ नम᳚ एत्या॒वृतं᳚ प्रशा॒स्त्रादा पि᳚बतं सो॒म्यं मधु᳚ ॥
पदपाठः (Word-by-word)
जु॒षेथा᳚म् । य॒ज्ञम् । बोध᳚तम् । हव᳚स्य । मे॒ । स॒त्तः । होता᳚ । नि॒॑विदः᳚ । पू॒र्व्याः । अनु᳚ ।
अच्छ᳚ । राजा᳚ना । नमः᳚ । ए॒ति॒ । आ॒॑वृत᳚म् । प्र॒॑शा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु᳚ ॥
अच्छ᳚ । राजा᳚ना । नमः᳚ । ए॒ति॒ । आ॒॑वृत᳚म् । प्र॒॑शा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौं मदीयमिमंयज्ञं जुषेथांसेवेथां मेममहव्स्यहवमाह्वानंपूर्ववत्कर्मणिषष्ठी बोधत मवगच्छतं तथासत्तोनिषण्णोस्मदीयोहोतापूर्व्याश्चिरन्तनीः निविदः वाङ्गामैतत् शस्त्रलक्षणा वाचः अनुशंसन्तीतिशेषः उद्गातृभिः क्रुतस्यस्तोत्रस्यानुगुण्येनआज्यादीनि शस्त्राणिशंसतीत्यर्थः अपिच नमः सोमलक्षणमन्नंआवृतंऋत्विग्भिर्वेष्टितंराजानाराजमानौयुवांअच्छाभिमुख्येनएतिगच्छ ति प्राप्नोति तादृशं सोम्यं सोममयंमधुमादकंहविः प्रशास्त्रात् प्रशास्तुर्यागात् आपिबतं आभिमुख्येनपिबतम् ॥ ६ ॥
वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेण सायणा चार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेसप्तमोध्यायः ॥ ७ ॥