द्वितीयं मण्डलम् - सूक्तम् 20

9 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 2.20 - सम्पूर्णम्

1 / 9
ऋक्: 2.20.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
2.20.1
व॒यं ते॒ वय᳚ इन्द्र वि॒द्धि षु ण॒ः प्र भ᳚रामहे वाज॒युर्न रथ᳚म् ।
वि॒प॒न्यवो॒ दीध्य᳚तो मनी॒षा सु॒म्नमिय᳚क्षन्त॒स्त्वाव᳚तो॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । वयः᳚ । इ॒न्द्र॒ । वि॒द्धि । सु । नः॒ । प्र । भ॒रा॒म॒हे॒ । वा॒ज॒॑युः । न । रथ᳚म् ।
वि॒प॒न्यवः᳚ । दीध्य᳚तः । म॒नी॒षा । सु॒म्नम् । इय᳚क्षन्तः । त्वा॑व᳚तः । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयंतेवयइतिनवर्चंनवमंसूक्तम् गार्त्समदंत्रैष्टुभमैन्द्रम् वयन्तइत्यनुक्रान्तम् सूक्तविनियोगोलिङ्गा दवधार्यताम् ।

हेइन्द्र तेत् भ्यंवयंवयः सोमलक्षणमन्नं प्रभरामहे प्रकर्षेणसंपादयामः तत्रदृष्टान्तः—वाजयुर्नय थान्नमात्मनइच्छन्पुमान् रथंशकटंसंपादयतितद्वत् एवंहविःसंपादकान्नोस्मान् सुसुष्ठु विद्धिजानीहि विदेर्ज्ञानार्थस्यलोटिरूपं वाक्यादित्वादनिघातः किंकुर्वन्तोवयं विपन्यवः तवस्तोत्रं कुर्वाणाः मनी षामनसईषयास्तुत्यादीध्यतोदीप्यमानाः दीधीङ्दीप्तिदेवनयोः व्यत्ययेनशतृ त्वावतः युष्मदस्मद्भ्यां छन्दसिसादृश्यौपसंख्यानमितिवतुप् त्वत्सदृशान् नॄन् नेतॄन् अग्न्यादीन्सुम्नं सुखमियक्षन्तः याचमा- नाः यद्वा सुम्नंसुखेननॄन् नेतॄन् अग्न्यादीन् देवान् इयक्षन्तः इयक्षतिर्गतिकर्मा हविषातान्प्राप्नुवन्तोवयं भरमहइतिसमन्वयः ॥ १ ॥

2.20.2 समानपद
त्वं न᳚ इन्द्र॒ त्वाभि᳚रू॒ती त्वा᳚य॒तो अ᳚भिष्टि॒पासि॒ जना᳚न् ।
त्वमि॒नो दा॒शुषो᳚ वरू॒तेत्थाधी᳚र॒भि यो नक्ष᳚ति त्वा ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । इ॒न्द्र॒ । त्वाभिः᳚ । ऊ॒ती । त्वा॒॑य॒तः । अ॒भि॒ष्टि॒॑पा । अ॒सि॒ । जना᳚न् ।
त्वम् । इ॒नः । दा॒शुषः᳚ । व॒रू॒ता । इ॒त्था॑धीः᳚ । अ॒भि । यः । नक्ष᳚ति । त्वा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंत्वाभिःत्वदीयाभिरूती ऊतिभिः पालनादिभिःनोस्मान् पाहि किञ्च त्वायतः सुपआ- त्मनः क्यच् शतुरनुमइतिविभक्तेरुदात्तत्वं त्वत्कामान् जनान् अभिष्टिपा सुपांसुलुगितिसोराकारः अभिश्ख्टयोभिगन्तारः शत्रवः तेभ्यः पातारक्षकोसिभवसि दाशुषोहविर्दत्तवतोयजमानस्यत्वमिनः ईश्वरःखलु वरूता ग्रसितस्कभितेतिनिपातनादीकारस्यऊकारः बाधकानांनिवारकोसि किञ्च त्वंत- स्यस्तोतुरित्थाधीः एवंविधोपद्रवोपशमरूपकर्मासि यस्त्वात्वामभिनक्षति हविषापरिचरति ॥ २ ॥

2.20.3 समानपद
स नो॒ युवेन्द्रो᳚ जो॒हूत्र॒ः सखा᳚ शि॒वो न॒राम᳚स्तु पा॒ता ।
यः शंस᳚न्तं॒ यः श᳚शमा॒नमू॒ती पच᳚न्तं च स्तु॒वन्तं᳚ च प्र॒णेष᳚त् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । युवा᳚ । इन्द्रः᳚ । जो॒हूत्रः᳚ । सखा᳚ । शि॒वः । न॒राम् । अ॒स्तु॒ । पा॒ता ।
यः । शंस᳚न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती । पच᳚न्तम् । च॒ । स्तु॒वन्त᳚म् । च॒ । प्र॒॑नेष᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

युवातरुणोयष्टृणांपापस्यशमयितावा जोहूत्रः स्तोतृभिराह्वातव्यः होतव्योवासखासखिभूतः सुखकर सइन्द्रः नरांनृशब्दस्यामछान्दसोगुणः नरशब्दस्यवाआमि आगमानुशासनस्यानित्यत्वान्नु डभावः कर्मनेतॄणां नोस्माकंपाताअस्तु पालकोभवतुयः शस्त्राणिशंसन्तंयश्च शशमानं शशप्लुतगतौ क्रियाःकुर्वाणं पुरोडाशादिहवींषिपचन्तं स्तुवन्तंचसामभिः स्तोत्रं कुर्वाणंस्तुतशस्त्रयोः प्रगीताप्रगीत मन्त्रसाध्यत्वेनभेदस्यप्रतिपादितत्वादत्रपृथङ्गिर्देशः एवंयजमानंऊती ऊत्यारक्षणेनप्रणेषत् नयते र्लेटि सिब्बहुलमितिसिप् अडागमः तिङिचोदात्तवतीतिगतेर्निघातः कर्मणापारंप्रापयत् ॥ ३ ॥

2.20.4
तमु᳚ स्तुष॒ इन्द्रं॒ तं गृ᳚णीषे॒ यस्मि᳚न्पु॒रा वा᳚वृ॒धुः शा᳚श॒दुश्च᳚ ।
स वस्व॒ः कामं᳚ पीपरदिया॒नो ब्र᳚ह्मण्य॒तो नूत᳚नस्या॒योः ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्तु॒षे॒ । इन्द्र᳚म् । तम् । गृ॒णी॒षे॒ । यस्मि᳚न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ ।
सः । वस्वः᳚ । काम᳚म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत᳚नस्य । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमुतमेवेन्द्रंस्तुषेस्तौमि तथातमिन्द्रंगृणीषेशंसामि उभयत्रपुरुषव्यत्यय्ः यस्मिन्निन्द्रेपुरापूर्वं स्तो तारोवावृधुःप्रवृद्धाअभवन् शाशदुश्च शत्रून् हिंसितवन्तश्च शदॢशातने लिटि तुजादीनामित्यभ्यासस्य दीर्घः इयानः स्तोतृभिर्याच्यमानः सइन्द्रः ब्रह्मण्यतः स्तोत्रमिच्छतोनूतनस्यायोर्मनुष्यस्ययजमानस्य वस्वः वसुनःकाममभिलाषंपीपरत् अभिलषितफलदानेनपूरयतु ॥ ४ ॥

2.20.5
सो अङ्गि᳚रसामु॒चथा᳚ जुजु॒ष्वान्ब्रह्मा᳚ तूतो॒दिन्द्रो᳚ गा॒तुमि॒ष्णन् ।
मु॒ष्णन्नु॒षस॒ः सूर्ये᳚ण स्त॒वानश्न᳚स्य चिच्छिश्नथत्पू॒र्व्याणि᳚ ॥
▶ पदपाठः (Word-by-word)
सः । अङ्गि᳚रसाम् । उ॒चथा᳚ । जु॒जु॒ष्वान् । ब्रह्मा᳚ । तू॒तो॒त् । इन्द्रः᳚ । गा॒तुम् । इ॒ष्णन् ।
मु॒ष्णन् । उ॒षसः᳚ । सूर्ये᳚ण । स्त॒वान् । अश्न᳚स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरसांसंबन्धीनिउचथाउक्थानिजुजुष्वान् जुषीप्रीतिसेवनयोरित्यस्यलिटिक्वसौरूपं सेवमा- नः सइन्द्रः गातुंपणिभिरुपद्रुतानामङ्गिरसांमार्गमिष्णन् प्रेरयन् ब्रह्म तेषां स्तोत्रंकामप्रदानेन तूतोत् तुविद्धावित्यस्यलङि बहुलंछन्दसीतिविकरणस्यश्लुः अवर्धयत् किञ्च स्तवान् स्तोत्रुभिः स्तूयमानः सूर्येणस्वात्मभूतेनौषसोमुष्णन् अपहरन् उदितेहिसूर्येउषसोव्यावर्तन्ते तादृशः सइन्द्रः अश्नस्य अश्नुते स्वतेजसासर्वंजगदित्यश्नःकश्विदसुरः तस्यपूर्व्याणिपुरातनानि पुराणिबलानिवा शिश्नयत् अश्नथयत् शिथिलीचकार चित्पूरणः ॥ ५ ॥

2.20.6
स ह᳚ श्रु॒त इन्द्रो॒ नाम᳚ दे॒व ऊ॒र्ध्वो भु᳚व॒न्मनु᳚षे द॒स्मत᳚मः ।
अव᳚ प्रि॒यम᳚र्शसा॒नस्य᳚ सा॒ह्वाञ्छिरो᳚ भरद्दा॒सस्य᳚ स्व॒धावा᳚न् ॥
▶ पदपाठः (Word-by-word)
सः । ह॒ । श्रु॒तः । इन्द्रः᳚ । नाम᳚ । दे॒वः । ऊ॒र्ध्वः । भु॒व॒त् । मनु᳚षे । द॒स्म॑त᳚मः ।
अव᳚ । प्रि॒यम् । अ॒र्श॒सा॒नस्य᳚ । स॒ह्वान् । शिरः᳚ । भ॒र॒त् । दा॒सस्य᳚ । स्व॒धा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवोद्योतमानः श्रुतः कीर्तिमान् अतएवदस्मतमः सर्वैरतिशयेनदर्शनीयः सइन्द्रः मनुषेमनोरर्थंउ र्ध्वोभुवत् कामप्रदानेप्रवृत्तेउदङ्मुखोभवतु नामप्रसिद्धौ हेतिपूरणः तदुच्यते साह्वान् शत्रूनभिभवन् स्वधावान् बलवानिन्द्रः अर्शसानस्यलोकंबाधमानस्यदासस्यएतन्नामकस्यासुरस्यप्रियंशिरःअवभरत् अधःपातयतु हरतेर्लेट्यडागमः हृग्रहोर्भः ॥ ६ ॥

2.20.7
स वृ᳚त्र॒हेन्द्र᳚ः कृ॒ष्णयो᳚नीः पुरंद॒रो दासी᳚रैरय॒द्वि ।
अज᳚नय॒न्मन᳚वे॒ क्षाम॒पश्च᳚ स॒त्रा शंसं॒ यज᳚मानस्य तूतोत् ॥
▶ पदपाठः (Word-by-word)
सः । वृ॒त्र॒॑हा । इन्द्रः᳚ । कृ॒ष्ण॑यो᳚नीः । पु॒र॒म्॑द॒रः । दासीः᳚ । ऐ॒र॒य॒त् । वि ।
अज᳚नयत् । मन᳚वे । क्षाम् । अ॒पः । च॒ । स॒त्रा । शंस᳚म् । यज᳚मानस्य । तू॒तो॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहावृत्रस्यहन्तापुरन्दरः शंबरपुरांदारयितासइन्द्रः कृष्णयोनीर्निक्रुष्टजातीःदासीरुपक्षपयित्री रासुरीःसेनाः व्यैरयत् व्यनुदत् किञ्च मनवेमनोरर्थंक्षांप्रुथिवीमपउदकानिचअजनयत् यजमानस्यस त्रामहान्तंशंसमभिलाषंतूतोत् कामप्रदानेनपूरयतु तुव्रुद्धावितिसौत्रोधातुः शपःश्लुः तुजादित्वाद्दीर्घः यद्वा सत्रामहत् शंसंशंसनीयंशस्त्रंकामप्रदानेनवर्धयतु यद्वा कृष्णयोनीः कृष्णाख्येनासुरेणनिषिक्तरेत स्काः दासीर्भार्याव्यैरयत् व्यनुदत् तथामन्त्रः—यःकृष्णगर्भानिरहन्नृजिश्वनेति ॥ ७ ॥

2.20.8
तस्मै᳚ तव॒स्य१॒᳚मनु᳚ दायि स॒त्रेन्द्रा᳚य दे॒वेभि॒रर्ण᳚सातौ ।
प्रति॒ यद᳚स्य॒ वज्रं᳚ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय᳚सी॒र्नि ता᳚रीत् ॥
▶ पदपाठः (Word-by-word)
तस्मै᳚ । त॒व॒स्य᳚म् । अनु᳚ । दा॒यि॒ । स॒त्रा । इन्द्रा᳚य । दे॒वेभिः᳚ । अर्ण᳚॑सातौ ।
प्रति᳚ । यत् । अ॒स्य॒ । वज्र᳚म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू᳚न् । पुरः᳚ । आय᳚सीः । नि । ता॒री॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवेभिर्देवनशीलैः स्तोतृभिः अर्णसातौ उदकलाभेनिमित्ते तस्माइन्द्रायतवस्यंतवसे बलायहितं बलवर्धनंहविः सत्रासन्तं सर्वेष्वहस्सुअनुअनुक्रमेणसवनत्रयेदायिअदायि यद्वा तवस्यंयद्बलं प्रवृद्धाय- दीयते तत्तवस्यं देवेभिर्देवैरुदकभजने अनुक्रमेणतद्बलंतस्माइन्द्रायादायि तथामन्त्रः—अनुतेदायिमह इन्द्रियायेति । यद्यदाअस्येन्द्रस्यबाह्वोर्वज्रंप्रतिधुः स्तोतारोसुरवधसूचकेनस्तोत्रेणप्रतिनिदधुः स्तूय मानोहीन्द्रोदस्युवधार्थं वज्रमादत्ते दधुः दधातेर्लुङि गातिस्थेतिसिचोलुक् आतइतिझेर्जुस् ततस्तेन वज्रेणदस्यूनसुरान् हत्वीहत्वा तंदीयाआयसीरयोमयीः पुरोनितारीत् नितरामनाशयत् ॥ ८ ॥

2.20.9
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु᳚ही॒यदि᳚न्द्र॒ दक्षि᳚णा म॒घोनी᳚ ।
शिक्षा᳚ स्तो॒तृभ्यो॒ माति᳚ ध॒ग्भगो᳚ नो बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । सा । ते॒ । प्रति᳚ । वर᳚म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि᳚णा । म॒घोनी᳚ ।
शिक्ष᳚ । स्तो॒तृ॑भ्यः᳚ । मा । अति᳚ । ध॒क् । भगः᳚ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नूनंसात् इतिव्याख्याता ॥ ९ ॥

विश्वजितइतिषळृचंदशमंसूक्तं गार्त्समदमैन्द्रं अन्त्यात्रिष्टुप् शिष्टाःपञ्चजगत्यः तृतीयेपर्यायेहोतुः शस्त्रएतत्सूक्तं सूत्रितञ्च—विशजितेतिष्ठाहरीरथआयुज्यमानेतियाज्याइति ।