शृ॒ण्व॒तो वो॒ वरु᳚ण॒ मित्र॒ देवा᳚ भ॒द्रस्य᳚ वि॒द्वा{4} अव᳚से हुवे वः ॥
पदपाठः (Word-by-word)
शृ॒ण्व॒तः । वः॒ । वरु᳚ण । मित्र᳚ । देवाः᳚ । भ॒द्रस्य᳚ । वि॒द्वान् । अव᳚से । हु॒वे॒ । वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेधृतव्रताः धृतकर्माणः आदित्याः अदितेःपुत्राः इषिराः गमनशीलाः सर्वैभ्येषणीयाः प्रार्थानी- यावा हेविश्वेदेवाः मदारेमत्तोदूरदेशेआगः विहितानुष्ठानादिजनितंपापंकर्तकुरुत करोतेश्छान्दसोवि- करणस्यलुक् तप्तनप्तनथनाश्चेतितबादेशः तत्रदृष्टान्तः—रहसूरिव रहसिअन्यैरज्ञातेप्रदेशेसूयतइतिर- हसूःव्यभिचारिणी सायथागर्भंपातयित्वादूरदेशेपरित्यजतितद्वत् हेवरुण मित्र देवाः वोयुष्मदीयस्य भद्रस्ययुष्माभिःकरणीयंश्रेयोविद्वान् जानन्नहंश्रृण्वतः मत्कृतानि स्तोत्राणिश्रोत्रेणजानतोवोयुष्मान् अवसे रक्षणार्थंहुवेआह्वयामि ॥ १ ॥