श्रवणम्

2.29.4 समानपद
ह॒ये दे᳚वा यू॒यमिदा॒पयः᳚ स्थ॒ ते मृ᳚ळत॒ नाध᳚मानाय॒ मह्य᳚म् ।
मा वो॒ रथो᳚ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव᳚त्स्वा॒पिषु᳚ श्रमिष्म ॥
▶ पदपाठः (Word-by-word)
ह॒ये । दे॒वाः॒ । यू॒यम् । इत् । आ॒पयः᳚ । स्थ॒ । ते । मृ॒ळ॒त॒ । नाध᳚मानाय । मह्य᳚म् ।
मा । वः॒ । रथः᳚ । म॒ध्य॒म॒॑वाट् । ऋ॒ते । भू॒त् । मा । यु॒ष्माव᳚त्॑सु । आ॒पिषु᳚ । श्र॒मि॒ष्म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हयेदेवाः छान्दसोवर्णोपजनः हेदेवाः यूयमित् यूयमेवआपयः धनस्यप्रापयितारोबन्धवः स्थ भवथ तेयूयंनाधमानायअभिमतंफलंयचमानायमह्यंस्तोत्रेमृळतसुखयत तथावोयुष्माकंरथःऋते- स्मदीयेयज्ञेनिमित्तभूतेमध्यमवाट् माभूत् मध्यमेनमन्दगमनेनवाहकोमाभूत् शीघ्रंयुष्मान्वहत्वित्यर्थः वयंयुष्मावत्सुयुष्मत्सदृशेष्वापिषुबन्धुषुसत्सुमाश्रमिष्म श्रान्तामाभूम वतुप्प्रकरणेयुष्मदस्मद्भ्यांछ- न्दसिसादृश्यउपसंख्यानमितिवतुप् आसर्वनाम्नइत्यात्वम् ॥ ४ ॥