द्वितीयं मण्डलम् - सूक्तम् 27

17 ऋचः

ऋषिः: कूर्मो गार्त्समदो गृत्समदो वा देवता: आदित्याः छन्दः: त्रिष्टुप्

सूक्तम् 2.27 - सम्पूर्णम्

1 / 17
ऋक्: 2.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (17)
2.27.1
इ॒मा गिर᳚ आदि॒त्येभ्यो᳚ घृ॒तस्नू᳚ः स॒नाद्राज᳚भ्यो जु॒ह्वा᳚ जुहोमि ।
शृ॒णोतु᳚ मि॒त्रो अ᳚र्य॒मा भगो᳚ नस्तुविजा॒तो वरु᳚णो॒ दक्षो॒ अंशः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒माः । गिरः᳚ । आ॒दि॒त्येभ्यः᳚ । घृ॒त॑स्नूः᳚ । स॒नात् । राज᳚॑भ्यः । जु॒ह्वा᳚ । जु॒हो॒मि॒ ।
शृ॒णोतु᳚ । मि॒त्रः । अ॒र्य॒मा । भगः᳚ । नः॒ । तु॒वि॒॑जा॒तः । वरु᳚णः । दक्षः᳚ । अंशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्येभ्यः अदितेःपुत्रेभ्यः राजभ्यःराजमानेभ्यः ईश्वरेभ्योवामित्रादिभ्यः घृतस्नूः घृतप्रस्रावि- णीः घृतंक्षरन्तीः इमागिरः स्तुतिलक्षणावाचः सनात् सर्वदाजुह्वा वाङ्गामैतत् वागिन्द्रियेण जुहो- मि प्रयच्छामि करोमीतियावत् यद्वा जुहूस्थानीयत्वेनघृतंक्षरन्ति वाग्रूपाणिहवींषिजुहोमि आदि- त्यानुद्दिश्यत्यजामि मन्त्रणांपयोघृतादिक्षरणेहेतुत्वंच यदृचोधीतेपयसः कुल्याअस्येत्यादिनातैत्ति- रीयेस्पष्टमाम्नातम् नोस्मदीयास्तागिरः मित्रादयः प्रत्येकंश्रृणोतु तेचतैत्तिरीयेअष्टौपुत्रासोअदितेरि- त्युपक्रम्यस्पष्टमनुक्रान्ताः मित्रश्चवरुणश्चधाताचार्यमाचअंशुश्चभगश्चइन्द्रश्चविवस्वांश्चेत्येतइति मित्रःप्रमीतेस्त्रायकः यद्वा सर्वेषांस्निग्धः अरीन् यच्छति नियच्छतीत्यर्यमाभगोभजनीयोदेवः तुविजातः तुवीतिबहुनाम बहुषुदेशेष्वनुग्रहार्थंप्रादुर्भूतः वरुणविशेषणमेतत्पापस्यनिवारणाद्वरुणः दक्षःसमर्थः एतच्चांशस्यविशेषणम् ॥ १ ॥ पूर्वोक्तएवपशौ इमंस्तोममित्येषावपायागस्ययाज्या सूत्रितंच—इमंस्तोमंसक्रतवोमेअद्यतिस्रो- भूमीर्धारयन्त्रीँ रुतद्यूनिति ।

2.27.2
इ॒मं स्तोमं॒ सक्र᳚तवो मे अ॒द्य मि॒त्रो अ᳚र्य॒मा वरु᳚णो जुषन्त ।
आ॒दि॒त्यास॒ः शुच᳚यो॒ धार᳚पूता॒ अवृ᳚जिना अनव॒द्या अरि᳚ष्टाः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । स्तोम᳚म् । स॑क्र᳚तवः । मे॒ । अ॒द्य । मि॒त्रः । अ॒र्य॒मा । वरु᳚णः । जु॒ष॒न्त॒ ।
आ॒दि॒त्यासः᳚ । शुच᳚यः । धार᳚॑पूताः । अवृ᳚जिनाः । अ॒न॒व॒द्याः । अरि᳚ष्टाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमंमेस्मदीयंस्तोमंस्तोत्रंसक्रतवः समानक्रमाणःसमानप्रज्ञावामित्रादयः अद्येदानींजुषन्त जुषन्ताम् सेवन्ताम् कीदृशास्तेआदित्यासः अदितेःपुत्राःशुचयोदीप्यमानाः धारपूताः उदकधाराभिः क्षालिताइवपूताः निर्मलाइत्यर्थः अवृजिनाः वृजीवर्जने अवर्जितारः सर्वानुग्राहकाइत्यर्थः अनवद्याः अवद्येनगर्ह्येणपापेनरहिताः अरिष्टाः केनाप्यहिंसिताः ॥ २ ॥ तस्मिन्नेवपशौतआदित्यासइतिहविषोनुवाक्या सूत्रंतुपूर्वमेवोदाहृतम् ।

2.27.3
त आ᳚दि॒त्यास᳚ उ॒रवो᳚ गभी॒रा अद᳚ब्धासो॒ दिप्स᳚न्तो भूर्य॒क्षाः ।
अ॒न्तः प᳚श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज᳚भ्यः पर॒मा चि॒दन्ति᳚ ॥
▶ पदपाठः (Word-by-word)
ते । आ॒दि॒त्यासः᳚ । उ॒रवः᳚ । ग॒भी॒राः । अद᳚ब्धासः । दिप्स᳚न्तः । भू॒रि॒॑अ॒क्षाः ।
अ॒न्तरिति᳚ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व᳚म् । राज᳚॑भ्यः । प॒र॒मा । चि॒त् । अन्ति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तआदित्यासः अदितेःपुत्राः उरवोमहान्तः गभीराः गांभीर्योपेताः अदब्धासः शत्रुभिरहिंसिताः सन्तः दिप्सन्तः शत्रून् दंभितुं हिंसितुमिच्छन्तः दंभुदंभे अस्मादिच्छासनि सनीवन्तर्धेतीडभावपक्षेदं- भइच्चेतीकारः दंभेर्हल् ग्रहणस्यजातिवाचकत्वात्सिद्धमितिसनःकित्त्वे अनुनासिकलोपः तथाभूर्यक्षाः भूरीणिबहून्यक्षीणिचक्षूंषियेषांतेतथोक्ताः बहुतेजसोवा बहुव्रीहौसक्थ्यक्ष्णोरितिषच् समासान्तः एवं भूताआदित्याः अन्तः मध्येप्राणिनांहृदिप्रेरकतयावर्तमानाःसन्तः वृजिनावृजिनानिपापानि उत अपिच साधुसाधूनिपुण्यानिच प्राणिनाःकृतानिपश्यन्ति जानन्ति परमाचित् परमाणिदूरदेशावस्थि- तान्यपिसर्वंसर्वाणिदृश्यमानानि राजभ्यः राज्ञामीश्वराणामादित्यानां अन्ति अन्तिकेस्मीपेवर्ततइति शेषः कादिलोपोबहुलमित्यन्तिकशब्दस्य कादिलोपः ॥ ३ ॥ साग्निचित्येक्रतौदीक्षणीयायां आदित्ययागस्यधारयन्तइत्यादिकेद्वेयाज्यानुवाक्ये अतएवभुवद्व द्भुवनपतिविशेषणविशिष्टादित्ययागेपि तथाचदीक्षणीयायामितिखण्डेसूत्रितम्—धारयन्तआदित्या सोजगत्स्थाइतिद्वेएतीवभुवद्वद्भ्योभुवनपतिभ्योवेति ।

2.27.4
धा॒रय᳚न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व᳚स्य॒ भुव᳚नस्य गो॒पाः ।
दी॒र्घाधि᳚यो॒ रक्ष᳚माणा असु॒र्य᳚मृ॒तावा᳚न॒श्चय᳚माना ऋ॒णानि᳚ ॥
▶ पदपाठः (Word-by-word)
धा॒रय᳚न्तः । आ॒दि॒त्यासः᳚ । जग᳚त् । स्थाः । दे॒वाः । विश्व᳚स्य । भुव᳚नस्य । गो॒पाः ।
दी॒र्घ॑धि᳚यः । रक्ष᳚माणाः । अ॒सु॒र्य᳚म् । ऋ॒त॑वा᳚नः । चय᳚मानाः । ऋ॒णानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जगज्जङ्गमं स्थाः स्थावरंच तिष्ठतेःकर्तर्यसुन् एतदुभयविधंभूतजातं धारयन्तः अवस्थापयन्तः देवाः दानादिगुणयुक्ताः विश्वस्यभूवनस्यसर्वस्यलोकस्यगोपाः गोपयितारोरक्षकाः दीर्घाधियः दीर्घा णिधियःकर्माणिज्ञानानिवायेषांतादृशाः अन्येषामपिदृश्यतइतिपूर्वपदस्यदीर्घः असुर्यं असवःप्राणाः तेनचतद्धेतुभूताः आपोलक्ष्यन्ते अपांतद्धेतुत्वंच छान्दोग्र्येस्पष्टमाम्नातम्—आपामयःप्राणइति असुमु- दकंरातिददातीत्यसुरोमेघः तत्रभवं मेघान्तर्वर्तमानमुदकंरक्षमाणाः तत्तत्कालेवृष्ट्युत्पादनायरक्षन्तः असुरशब्दाद्भवेछन्दसीतियत् ऋतावानः सत्यवन्तो यज्ञवन्तोवा छन्दसीवनिपावितिमत्वर्थीयो- वनिप् पूर्ववद्दीर्घः ऋणानिस्तोतृभिः अन्येभ्यः प्रदेयानिहविर्द्रव्याणिचयमानाः अपगमयन्तः चय- गतौ भौवादिकोनुदात्तेत् एवंगुणविशिष्टामहानुभावाः आदित्यासः आदित्याः अस्मदधीनाभवन्त्वि तिशेषः ॥ ४ ॥

2.27.5
वि॒द्यामा᳚दित्या॒ अव᳚सो वो अ॒स्य यद᳚र्यमन्भ॒य आ चि᳚न्मयो॒भु ।
यु॒ष्माकं᳚ मित्रावरुणा॒ प्रणी᳚तौ॒ परि॒ श्वभ्रे᳚व दुरि॒तानि᳚ वृज्याम् ॥
▶ पदपाठः (Word-by-word)
वि॒द्याम् । आ॒दि॒त्याः॒ । अव᳚सः । वः॒ । अ॒स्य । यत् । अ॒र्य॒म॒न् । भ॒ये । आ । चि॒त् । म॒यः॒॑भु ।
यु॒ष्माक᳚म् । मि॒त्रा॒व॒रु॒णा॒ । प्र॑नी᳚तौ । परि᳚ । श्वभ्रा᳚॑इव । दुः॒॑इ॒तानि᳚ । वृ॒ज्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआदित्याः अदितेःपुत्राः वोयुष्माकं अस्यावसः कर्मणिषष्ठी इदंरक्षणं विद्याम लभेम भयेराक्ष- सादिभ्यः आआगतेसति यद्युष्मदीयंरक्षणम् चिच्छब्दश्चार्थे मयोभु मयसःसुखस्यभावयितृच तदिदं लभेमेत्यन्वयः हेअर्यमन् हे मित्रावरुणौ युष्माकंप्रणीतौ अस्मद्विषये प्रकृष्टेनयनेसति श्वभ्रेवश्वभ्राणी वस्थातुमयोग्यानिगर्तवन्तिस्थलानीवदुरितानिपापानिपरिवृज्यां परित्यजेयं वृजीवर्जने बहुलंछन्द- सीतिविकरणस्यलुक् ॥ ५ ॥

2.27.6
सु॒गो हि वो᳚ अर्यमन्मित्र॒ पन्था᳚ अनृक्ष॒रो व᳚रुण सा॒धुरस्ति᳚ ।
तेना᳚दित्या॒ अधि᳚ वोचता नो॒ यच्छ᳚ता नो दुष्परि॒हन्तु॒ शर्म᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑गः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः᳚ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति᳚ ।
तेन᳚ । आ॒दि॒त्याः॒ । अधि᳚ । वो॒च॒त॒ । नः॒ । यच्छ᳚त । नः॒ । दुः॒॑प॒रि॒हन्तु᳚ । शर्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअर्यमन् मित्र वरुण वोयुष्माकंसुगः सुखेनगन्तव्यः अनृक्षरः ऋक्षरःकण्टकऋच्छतेरिति तद्रहि- तः साधुः साधकः शोभनोवा एवंगुणविशिष्टः पन्थामार्गोस्तिहि विद्यतेखलु अतस्तेपथाअस्मान् शो- भनं नयतेतिशेषः हेआदित्याः नोस्माकं अधिवोचत अधिवचनं पक्षपातेनवचनं कुरुत अपिनोस्मभ्यं दुष्परिहन्तु दुःखेनपरिहन्तुं विनाशयितुमशक्यंशर्मसुखंयच्छत दत्त दाण् दाने शपिपाघ्रेत्यादिनाय- च्छादेशः ॥ ६ ॥

2.27.7 समानपद
पिप᳚र्तु नो॒ अदि᳚ती॒ राज᳚पु॒त्राति॒ द्वेषां᳚स्यर्य॒मा सु॒गेभि᳚ः ।
बृ॒हन्मि॒त्रस्य॒ वरु᳚णस्य॒ शर्मोप᳚ स्याम पुरु॒वीरा॒ अरि᳚ष्टाः ॥
▶ पदपाठः (Word-by-word)
पिप᳚र्तु । नः॒ । अदि᳚तिः । राज᳚॑पु॒त्रा । अति᳚ । द्वेषां᳚सि । अ॒र्य॒मा । सु॒॑गेभिः᳚ ।
बृ॒हत् । मि॒त्रस्य᳚ । वरु᳚णस्य । शर्म᳚ । उप᳚ । स्या॒म॒ । पु॒रु॒॑वीराः᳚ । अरि᳚ष्टाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

राजपुत्रा राजानोराजमानामित्रादयःपुत्रायस्याः तादृशी अदितिरदीना अखण्डनीयावादेवीनो- स्मान् द्वेषांसिद्वेष्ट्;उणिरक्षांसि अतिपिपर्तु अतिपारयतु अतिक्रम्यतद्रहितंदेशंप्रापयत्वित्यर्थः अर्य माचसुगेभिः सुष्ठुगन्तव्यैर्मार्गैरस्मान् पारयतु अपिचवयंपुरुवीराः बहुभिःवीरैः पुत्रादिभिरुपेताः अरिष्टाः केनाप्यहिंसिताश्चसन्तः मित्रस्यवरुणस्यचबृहत्परिवृढंशर्मसुखंउपस्याम उपगताभवेम ॥ ७ ॥

2.27.8
ति॒स्रो भूमी᳚र्धारय॒न्त्री{4}रु॒त द्यून्त्रीणि᳚ व्र॒ता वि॒दथे᳚ अ॒न्तरे᳚षाम् ।
ऋ॒तेना᳚दित्या॒ महि᳚ वो महि॒त्वं तद᳚र्यमन्वरुण मित्र॒ चारु᳚ ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । भूमीः᳚ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि᳚ । व्र॒ता । वि॒दथे᳚ । अ॒न्तः । ए॒षा॒म् ।
ऋ॒तेन᳚ । आ॒दि॒त्याः॒ । महि᳚ । वः॒ । म॒हि॒॑त्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तिस्रोभूमीः अत्रभूमिशब्दोलोकत्रयेवर्तते योद्वितीयस्यांतृतीयस्यांपृथिव्यामित्यत्रयथा पृथिवी शब्दः भूम्यन्तरिक्षस्वर्गांस्त्रीन्लोकान् आदित्याः धारयन् वृष्टिप्रदानादिनाधारयन्ति उतअपिच द्यून् दीप्तान् ततउपरितनान् महरादिकानपित्रीन् लोकन्धारयन्ति यद्वा दीप्तान् अग्निंवायुंसूर्यं चधारयन्ति अपिचैषामादित्यानांविदथेयज्ञेअन्तर्मध्येत्रीणिव्रतासवनत्रयनिष्पाद्यानित्रीणिकर्माणिसन्ति यद्वा एषांलोकानामंतर्मध्येविदथेयज्ञेनिमित्तभूतेसति एषामादित्यानांत्रीणिकर्माणिरसादानधारणविसर्ज- नलक्षणानिसन्ति उत्तरोर्धर्चःप्रत्यक्षकृतः हेआदित्याः ऋतेनसत्येनयज्ञेन वामहिमहत्प्रभूतंवोयुष्माकं महित्वंमहत्त्वंयन्महाभाग्यं हेअर्यमन् वरुण मित्र तन्महाभाग्यंचारुशोभनंसर्वोत्कृष्टमित्यर्थः ॥ ८ ॥

2.27.9
त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त हिर॒ण्यया॒ः शुच᳚यो॒ धार᳚पूताः ।
अस्व᳚प्नजो अनिमि॒षा अद᳚ब्धा उरु॒शंसा᳚ ऋ॒जवे॒ मर्त्या᳚य ॥
▶ पदपाठः (Word-by-word)
त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । हि॒र॒ण्ययाः᳚ । शुच᳚यः । धार᳚॑पूताः ।
अस्व᳚प्न॑जः । अ॒नि॒॑मि॒षाः । अद᳚ब्धाः । उ॒रु॒॑शंसाः᳚ । ऋ॒जवे᳚ । मर्त्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रीरोचनात्रीणिरोच्नानिरोचमानान्यग्न्यादीनितेजांसि दिव्यादिव्यानिदिविभवानिधारयन्त आदित्याअवस्थापयन् किमर्थं ऋजवेऋजीकायउपार्जकायस्तोत्राणां मर्त्यायमनुष्यायभोगसिद्भ्यर्थ मितियावत् कीदृशाआदित्याः हिरण्ययाः हिरण्मयाः हिरण्यालंकृतसर्वाङ्गः यद्वा हितरमणीय वेषाः शुचयोदीप्यमानाः धारपूताः उदकधारयाक्षालिताइवनिर्मलाः अस्वप्नजः असञ्चातस्वप्नाः सुपांसुलुगितिजसःसुः अपरआह अस्वप्नजः अस्वपन्तः विगतनिद्राः स्वपितृषोर्नजिङितिनजिङ्प्र- त्ययइति तदेतत्पदकारस्यानभिमतम् अनिमिषाः निमेशराहिताः अदब्धाः असुरादिभिरहिंसिताः उरुशंसाः उरुभिर्बहुभिःशंसनीयाः स्तोतव्याः एवंगुणविशिष्टाअधारयन्तेत्यन्वयः ॥ ९ ॥

2.27.10
त्वं विश्वे᳚षां वरुणासि॒ राजा॒ ये च᳚ दे॒वा अ᳚सुर॒ ये च॒ मर्ता᳚ः ।
श॒तं नो᳚ रास्व श॒रदो᳚ वि॒चक्षे॒॑श्यामायूं᳚षि॒ सुधि᳚तानि॒ पूर्वा᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । विश्वे᳚षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा᳚ । ये । च॒ । दे॒वाः । अ॒सु॒र॒ । ये । च॒ । मर्ताः᳚ ।
श॒तम् । नः॒ । रा॒स्व॒ । श॒रदः᳚ । वि॒॑चक्षे᳚ । अ॒श्याम᳚ । आयूं᳚षि । सुधि᳚तानि । पूर्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअसुर शत्रूणांक्षेपकवरुण त्वंविश्वेषांसर्वेषांराजासि केषां येचदेवाःदेवजनाः येचमर्तामरणधर्मा- णोमनुष्याः तेषामित्यर्थः अतस्त्वंनोस्मभ्यंशतंशरदः शतसंख्याकान्संवत्सरान् विचक्षे विशेषेणदर्श- नायरास्वप्रयच्छ रादाने व्यत्ययेनात्मनेपदम् वयंचपूर्वापूर्वैः सुधितानिसुष्ठुहितानिशतसंवत्सरलक्ष- णान्यायूंषिअश्याम व्याप्नुयाम सुधितवसुधितनेमधितधिष्वधिषीयचेतिनिपात्यते गतिरनन्तरइति- गतेः प्रकृतिस्वरत्वम् सुपांसुलुगितितृतीयायाडादेशः ॥ १० ॥ आदित्यदेवताकेपशौनदक्षिणेत्येषाहविषोयाज्या सूत्रितञ्च—तिस्रोभूमीर्धारयन् त्रीँरुतद्यून्न- दक्षिणाविचिकितेनसव्येति ।

2.27.11
न द᳚क्षि॒णा वि चि᳚किते॒ न स॒व्या न प्रा॒चीन᳚मादित्या॒ नोत प॒श्चा ।
पा॒क्या᳚ चिद्वसवो धी॒र्या᳚ चिद्यु॒ष्मानी᳚तो॒ अभ᳚यं॒ ज्योति᳚रश्याम् ॥
▶ पदपाठः (Word-by-word)
न । द॒क्षि॒णा । वि । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन᳚म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा ।
पा॒क्या᳚ । चि॒त् । व॒स॒वः॒ । धी॒र्या᳚ । चि॒त् । यु॒ष्मा॑नी᳚तः । अभ᳚यम् । ज्योतिः᳚ । अ॒श्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआदित्याः दक्षिणादक्षिणोभागः नविचिकिते मयानविज्ञायते सव्यासव्योवामभागोपिनज्ञायते उभयत्रसुपांसुलुगितिसोराजादेशः तथाप्राचीनं पुरस्तादपिनज्ञायते विभाषाञ्चेरदिक् स्त्रियामिति- स्वार्थेखः उतअपिच पश्चा पश्चात्पृष्ठभागेपिनज्ञायते नैशेनतमसाआवृतत्वात् आन्तरादज्ञानाद्वा पश्च- पश्चाचच्छन्दसीतिनिपात्यते किंबहुना पाक्याचित् पाक्यःपक्तव्योपरिपक्वज्ञानोपि हुपचष् पाके ऋहलोर्ण्यत् तित्स्वरितः धीर्याचित् धीरेनेतव्यत्वेनभवोधीर्यः कातरः भवेछन्दसीतियत् कातरोपि उभयत्रसुपांसुलुगितिआकारः हेवसवोवासयितारआदित्याः युष्मानीतः युष्माभिर्नीतः शोभनेनमार्गे णप्रापितःसन् अभयं भयरहितं ज्योतिः सौरंतेजः आन्तरंवा ज्ञानात्मकं अश्यां प्राप्नुयाम् ॥ ११ ॥

2.27.12
यो राज᳚भ्य ऋत॒निभ्यो᳚ द॒दाश॒ यं व॒र्धय᳚न्ति पु॒ष्टय᳚श्च॒ नित्या᳚ः ।
स रे॒वान्या᳚ति प्रथ॒मो रथे᳚न वसु॒दावा᳚ वि॒दथे᳚षु प्रश॒स्तः ॥
▶ पदपाठः (Word-by-word)
यः । राज᳚॑भ्यः । ऋ॒त॒नि॑भ्यः᳚ । द॒दाश᳚ । यम् । व॒र्धय᳚न्ति । पु॒ष्टयः᳚ । च॒ । नित्याः᳚ ।
सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे᳚न । व॒सु॒॑दावा᳚ । वि॒दथे᳚षु । प्र॒॑श॒स्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानः राजभ्योराजमानेभ्यः ऋतनिभ्यः क्रतस्ययज्ञस्यसत्यस्यवानेतृभ्यः आदित्येभ्योददा- श चरुपुरोडाशादिकंददाति यंयजमानं पुष्टयः पोषकाः नित्याः शाश्वताः आदित्याश्चवर्धयन्ति सयज मानोरेवान् धनवान्प्रथमः प्रथितः प्रख्यातः वसुदावा वसूनांधनानां दातासन् प्रशस्तः सर्वैःप्रशस्य- मानः विदथेषुवेद्येषुलब्धव्येषुगृहेषुरथेनवाहनेनयातिगच्छति ॥ १२ ॥

2.27.13
शुचि᳚र॒पः सू॒यव᳚सा॒ अद᳚ब्ध॒ उप᳚ क्षेति वृ॒द्धव᳚याः सु॒वीरः᳚ ।
नकि॒ष्टं घ्न॒न्त्यन्ति᳚तो॒ न दू॒राद्य आ᳚दि॒त्यानां॒ भव᳚ति॒ प्रणी᳚तौ ॥
▶ पदपाठः (Word-by-word)
शुचिः᳚ । अ॒पः । सु॒॑यव᳚साः । अद᳚ब्धः । उप᳚ । क्षे॒ति॒ । वृ॒द्ध॑व᳚याः । सु॒॑वीरः᳚ ।
नकिः᳚ । तम् । घ्न॒न्ति॒ । अन्ति᳚तः । न । दू॒रात् । यः । आ॒दि॒त्याना᳚म् । भव᳚ति । प्र॑नी᳚तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सयजमानः शुचिर्दीप्यमानः शुद्धोवाअदब्धः सपत्नैरबाधितः वृद्धवयाः प्रभूतान्नः सुवीरः शोभ- नपुत्रश्चसन् सूयवसाः शोभनसस्यान्यपः वृष्टिलक्षणान्युदकानिउपक्षेति उपनिवसति सर्वदासुसस्या नामपांचसमीपेनिवसतीत्यर्थः तथानकिर्नचतंघ्नन्तिहिंसन्ति अंतितोनअन्तिकात्समीपदेशाच्चदूराद्वि- प्रकृष्टाच्चदेशादागताबाधकाः अन्तिकस्यतसिलादिलोपइतिलोपः योयजमानः आदित्यानांअदितेः पुत्राणां मित्रादीनां प्रणीतौ प्रकृष्टेनयनेप्रापणे भवति वर्ततेसइतिपूर्वत्रसंबन्धः ॥ १३ ॥

2.27.14
अदि᳚ते॒ मित्र॒ वरु᳚णो॒त मृ᳚ळ॒ यद्वो᳚ व॒यं च᳚कृ॒मा कच्चि॒दागः᳚ ।
उ॒र्व᳚श्या॒मभ᳚यं॒ ज्योति᳚रिन्द्र॒ मा नो᳚ दी॒र्घा अ॒भि न᳚श॒न्तमि᳚स्राः ॥
▶ पदपाठः (Word-by-word)
अदि᳚ते । मित्र᳚ । वरु᳚ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः᳚ ।
उ॒रु । अ॒श्या॒म् । अभ᳚यम् । ज्योतिः᳚ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि᳚स्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच हेअदिते मित्र वरुण आमन्त्रितंपूर्वमविद्यमानवदिति पूर्वपूर्वस्यामन्त्रितस्याविद्यमा नवद्भावात् सर्वेषांषाष्ठिकमामन्त्रितस्येत्याद्युदात्तत्वम यूयंप्रत्येकंमृळ अस्माकमुपरिदयांकुरु रक्षेत्य- र्थः यत् यद्यपिवयंवोयुष्माकंकच्चित् किञ्चदागापराधंचकृम अकर्मतथापिमृळेत्यर्थः हेइन्द्र परमैश्व- र्योपेतादित्य उरुविस्तीर्णंअभयंभयरहितंज्योतिस्त्वदीयंप्रकाशंज्ञानात्मकंवाअश्यां अहंप्राप्नुयाम् दीर्घाविस्तृतास्तमिस्रास्तमसायुक्तानिशाः ज्योत्स्नातमिस्राशृङ्गिणेतिनिपात्यते तानोस्मान् माभिनशन् आभिमुख्येनव्याप्नुवन्तु ॥ १४ ॥

2.27.15
उ॒भे अ᳚स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य᳚न् ।
उ॒भा क्षया᳚वा॒जय᳚न्याति पृ॒त्सूभावर्धौ᳚ भवतः सा॒धू अ᳚स्मै ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति᳚ स॒म्॑ई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒॑भगः᳚ । नाम᳚ । पुष्य᳚न् ।
उ॒भा । क्षयौ᳚ । आ॒॑जय᳚न् । या॒ति॒ । पृ॒त्॑सु । उ॒भौ । अर्धौ᳚ । भ॒व॒तः॒ । सा॒धू इति᳚ । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यआदित्यानांभवतिप्रणीतावितिव्यवहितोप्यत्रेदंशब्देनपरामृश्यते अस्मैयजमानायसमीची स- ङ्गच्छमानेउभेद्यावापृथिव्यौपीपयतः प्याययतः कामान्वर्धयतः प्यायीवृद्धौ अस्माण्ण्यन्ताच्छान्द- सोलुङ् व्यत्ययेनतसस्तामादेशाभावः धातोःपीभावश्च सचसुभगः शोभनधनः दिवोद्युलोकादागतां वृष्टिंपुष्यन् वर्धयन् भवति नामेतिप्रसिद्धिर्द्योत्यते किञ्च पृत्सुपृतनासुसङ्ग्रामेषुआजयन् शत्रूनाभि- मुख्येनाभिभवन् उभाक्षयाउभौनिवासौ क्षियंति निवसन्त्यस्मिन्नितिक्षयोनिवासस्थानं पुंसिसंज्ञायां घःप्रायेणेतिअधिकरणेघः क्षयोनिवासेइत्याद्युदात्तत्वं तौपरैरनाक्रान्तं स्वकीयंनिवासस्थानम् आत्म- नापहृतंपरकीयंनिवासस्थानंचयातिगच्छति तथास्मैयजमानाय उभावर्धौजग्तोभागौचराचरात्मकौ मर्त्यामर्त्यात्मकौवासाधूसाधकौभवतः ॥ १५ ॥

2.27.16
या वो᳚ मा॒या अ᳚भि॒द्रुहे᳚ यजत्रा॒ः पाशा᳚ आदित्या रि॒पवे॒ विचृ᳚त्ताः ।
अ॒श्वीव॒ ता{4} अति᳚ येषं॒ रथे॒नारि᳚ष्टा उ॒रावा शर्म᳚न्त्स्याम ॥
▶ पदपाठः (Word-by-word)
याः । वः॒ । मा॒याः । अ॒भि॒॑द्रुहे᳚ । य॒ज॒त्राः॒᳚ । पाशाः᳚ । आ॒दि॒त्याः॒ । रि॒पवे᳚ । वि॑चृ᳚त्ताः ।
अ॒श्वी॑इ᳚व । तान् । अति᳚ । ये॒ष॒म् । रथे᳚न । अरि᳚ष्टाः । उ॒रौ । आ । शर्म᳚न् । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजत्राः यष्टव्याआदित्याः वोयुष्माकंयाःमायाः अभिद्रुहे अभिद्रोहंकुर्वतेराक्षसादयेनिर्मिताः येचपाशाः रिपवेशत्रवेविचृत्ताः चृतीहिंसाग्रन्थनयोः प्रसारिताइत्यर्थः तान्पाशान् मायाश्चरथेन अतियेषं अतीत्यप्रयतेयं अतितरेयमित्यर्थः तत्रदृष्टान्तः—अश्वीव यथाशोभनाश्वः कशित्पुरुषः दुस्तरान्मार्गान् शीघ्रमतिक्रामति तद्वत् येष्टृप्रयत्ने भौवादिकोनुदात्तेत् छान्दसोलङ् व्यत्ययेनपर स्मैपदम् तथावयंअरिष्टाः शत्रुभिरहिंसिताःसन्तः उरौविस्तीर्णेशमन् शर्मेतिगृहनाम त्वयादत्ते- सुखेगृहेवाआसमन्तात् स्याम वर्तमानाभवेम ॥ १६ ॥

2.27.17
माहं म॒घोनो᳚ वरुण प्रि॒यस्य᳚ भूरि॒दाव्न॒ आ वि᳚दं॒ शून᳚मा॒पेः ।
मा रा॒यो रा᳚जन्त्सु॒यमा॒दव᳚ स्थां बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । अ॒हम् । म॒घोनः᳚ । व॒रु॒ण॒ । प्रि॒यस्य᳚ । भू॒रि॒॑दाव्नः᳚ । आ । वि॒द॒म् । शून᳚म् । आ॒पेः ।
मा । रा॒यः । रा॒ज॒न् । सु॒॑यमा᳚त् । अव᳚ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण मघोनोधनवतः प्रियस्यानुकूलस्य भूरिदाव्रः भूरेर्बहुलस्यदातुरहंमाआविदं माआवे- दयानि आवेदनंविज्ञापनंमाकरवाणि किंतदनावेद्यं आपेर्ज्ञातेः शूनंशून्यंदारिद्मम् वर्णलोपश्छान्दसः यद्वा शूनंगतंप्राप्तंदारिद्मम् टुओश्विगतिवृद्भ्योः श्वीदितोनिष्ठायामितीट् प्रतिषेधः यजादित्वात्संप्र- सारणम् ओदितश्चेतिनकारः वृषादित्वादाद्युदात्तत्वम् एतदुक्तंभवति अस्मदीयाः पुत्रादयः क्षुधिता- इतिप्रभुसमीपेभिधाययाचमानोमाभूवमिति हेराजन्सुयमात् सुष्ठुनियम्यतेर्ननपुरुषोगृहइतिसुयमः ईषद्दृःसुष्वितिखल् तादृशाद्रायोधनान्मावस्थांअवयुत्यस्थितोमाभूवं वयंसुवीराः शोभनपुत्राविद- थेयज्ञेगृहेवावर्तमानाः सन्तीबृहत् प्रौढंस्तोत्रं वदेम उच्चारयाम ॥ १७ ॥

इदमित्येकादशर्चंषष्ठंसूक्तम् अत्रानुक्रम्यते—इदमेकादशवारुणमिति पूर्वसूक्ते कूर्मोगार्त्समदो- हिवेत्युक्तत्वादस्योत्तरस्यचकूर्मोगृत्समदोवाऋषिः त्रिष्टुप् छन्दः वरुणोदेवता विनियोगोलैङ्गिकः अत्रकेचिदाहुः इदमेकादशर्चंतुवारुणंभयपापनुत् । ऋणदारिद्भदुःस्वप्ननाशनंचेतिशुश्रुमेति ।