श्रवणम्

2.27.1
इ॒मा गिर᳚ आदि॒त्येभ्यो᳚ घृ॒तस्नू᳚ः स॒नाद्राज᳚भ्यो जु॒ह्वा᳚ जुहोमि ।
शृ॒णोतु᳚ मि॒त्रो अ᳚र्य॒मा भगो᳚ नस्तुविजा॒तो वरु᳚णो॒ दक्षो॒ अंशः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒माः । गिरः᳚ । आ॒दि॒त्येभ्यः᳚ । घृ॒त॑स्नूः᳚ । स॒नात् । राज᳚॑भ्यः । जु॒ह्वा᳚ । जु॒हो॒मि॒ ।
शृ॒णोतु᳚ । मि॒त्रः । अ॒र्य॒मा । भगः᳚ । नः॒ । तु॒वि॒॑जा॒तः । वरु᳚णः । दक्षः᳚ । अंशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्येभ्यः अदितेःपुत्रेभ्यः राजभ्यःराजमानेभ्यः ईश्वरेभ्योवामित्रादिभ्यः घृतस्नूः घृतप्रस्रावि- णीः घृतंक्षरन्तीः इमागिरः स्तुतिलक्षणावाचः सनात् सर्वदाजुह्वा वाङ्गामैतत् वागिन्द्रियेण जुहो- मि प्रयच्छामि करोमीतियावत् यद्वा जुहूस्थानीयत्वेनघृतंक्षरन्ति वाग्रूपाणिहवींषिजुहोमि आदि- त्यानुद्दिश्यत्यजामि मन्त्रणांपयोघृतादिक्षरणेहेतुत्वंच यदृचोधीतेपयसः कुल्याअस्येत्यादिनातैत्ति- रीयेस्पष्टमाम्नातम् नोस्मदीयास्तागिरः मित्रादयः प्रत्येकंश्रृणोतु तेचतैत्तिरीयेअष्टौपुत्रासोअदितेरि- त्युपक्रम्यस्पष्टमनुक्रान्ताः मित्रश्चवरुणश्चधाताचार्यमाचअंशुश्चभगश्चइन्द्रश्चविवस्वांश्चेत्येतइति मित्रःप्रमीतेस्त्रायकः यद्वा सर्वेषांस्निग्धः अरीन् यच्छति नियच्छतीत्यर्यमाभगोभजनीयोदेवः तुविजातः तुवीतिबहुनाम बहुषुदेशेष्वनुग्रहार्थंप्रादुर्भूतः वरुणविशेषणमेतत्पापस्यनिवारणाद्वरुणः दक्षःसमर्थः एतच्चांशस्यविशेषणम् ॥ १ ॥ पूर्वोक्तएवपशौ इमंस्तोममित्येषावपायागस्ययाज्या सूत्रितंच—इमंस्तोमंसक्रतवोमेअद्यतिस्रो- भूमीर्धारयन्त्रीँ रुतद्यूनिति ।