द्वितीयं मण्डलम् - सूक्तम् 19

9 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 2.19 - सम्पूर्णम्

1 / 9
ऋक्: 2.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
2.19.1
अपा᳚य्य॒स्यान्ध᳚सो॒ मदा᳚य॒ मनी᳚षिणः सुवा॒नस्य॒ प्रय᳚सः ।
यस्मि॒न्निन्द्र᳚ः प्र॒दिवि᳚ वावृधा॒न ओको᳚ द॒धे ब्र᳚ह्म॒ण्यन्त᳚श्च॒ नरः᳚ ॥
▶ पदपाठः (Word-by-word)
अपा᳚यि । अ॒स्य । अन्ध᳚सः । मदा᳚य । मनी᳚षिणः । सु॒वा॒नस्य᳚ । प्रय᳚सः ।
यस्मि᳚न् । इन्द्रः᳚ । प्र॒॑दिवि᳚ । व॒वृ॒धा॒नः । ओकः᳚ । द॒धे । ब्र॒ह्म॒ण्यन्तः᳚ । च॒ । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानस्यसोमाभिषवंकुर्वाणस्यमनीषिणः प्राज्ञस्ययजमानस्यसंबन्धिनः प्रयसः प्रीङ् तर्पणे असुन् प्रीतिकरस्यअस्यसोमलक्षणस्यान्धसः अन्नस्यमदायअपायि एतदन्नमिन्द्रेणपीतं इत्यर्थः यद्वा अपायी तिपातेर्व्यत्ययोबहुलमितिचिण् कर्तरिभवति छन्दसिलुङ्लङ्लिटइतिलोडर्थेलुङ् प्रीतिकरस्यान्धसः मदायअपायि शेषविवक्षयाकर्मणिषष्ठी इन्द्रः सोमंपिबतु प्रदिविपुराणेयस्मिन् सोमलक्षणेन्धसिवावृ- धानोवर्धमानइन्द्रः ओकोदधे सेव्यतयनिवासंचकार किञ्च ब्रह्मण्यन्तः इन्द्रायस्तोत्रमिच्छन्तः नरः कर्मणांनेतारऋत्विजः यस्मिन्निवासंदधिरे तदेतदपायीति पूर्वेणान्वयः ॥ १ ॥

2.19.2
अ॒स्य म᳚न्दा॒नो मध्वो॒ वज्र᳚ह॒स्तो॑हि॒मिन्द्रो᳚ अर्णो॒वृतं॒ वि वृ᳚श्चत् ।
प्र यद्वयो॒ न स्वस᳚रा॒ण्यच्छा॒ प्रयां᳚सि च न॒दीनां॒ चक्र᳚मन्त ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । म॒न्दा॒नः । मध्वः᳚ । वज्र᳚॑हस्तः । अहि᳚म् । इन्द्रः᳚ । अ॒र्णः॒॑वृत᳚म् । वि । वृ॒श्च॒त् ।
प्र । यत् । वयः᳚ । न । स्वस᳚राणि । अच्छ᳚ । प्रयां᳚सि । च॒ । न॒दीना᳚म् । चक्र᳚मन्त ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यमध्वः तृतीयार्थेषष्ठी अनेनमदकरेणसोमेनमन्दानोहृष्यम् वज्रहस्तः वज्रयुक्तोहस्तोयस्यस- इन्द्रः अर्णोवृतंउदकस्यावरकंउदकेनावृतंवा अहिंव्ऋत्रंमेघंवाविवृश्चत् विशेषेणाच्छिन्त् ओव्रश्चूछेदने तौदादिकः लङि ग्रहिज्यादिनासंप्रसारणम् किञ्च यद्यदाअहिभेदनेजाते नदीनांप्रयांसिप्रीणयितॄणिज- लानिअच्छसमुद्रमभिलक्ष्यप्रचक्रमन्त गन्तुमुपाक्रमन् तत्रदृष्टान्तः—वयोन यथापक्षिणः स्वसराणि सुष्ठुअर्यन्तेप्राप्यन्तेइतिस्वराणिस्वसराणि कुलायाः तानभिलक्ष्य गच्छन्तितद्वत् ॥ २ ॥

2.19.3
स माहि᳚न॒ इन्द्रो॒ अर्णो᳚ अ॒पां प्रैर᳚यदहि॒हाच्छा᳚ समु॒द्रम् ।
अज᳚नय॒त्सूर्यं᳚ वि॒दद्गा अ॒क्तुनाह्नां᳚ व॒युना᳚नि साधत् ॥
▶ पदपाठः (Word-by-word)
सः । माहि᳚नः । इन्द्रः᳚ । अर्णः᳚ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒॑हा । अच्छ᳚ । स॒मु॒द्रम् ।
अज᳚नयत् । सूर्य᳚म् । वि॒दत् । गाः । अ॒क्तुना᳚ । अह्ना᳚म् । व॒युना᳚नि । सा॒ध॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

माहिनोमहनीयः पूजनीयः यद्वा महिमोपेतः अहिहाअहिंमेघंहतवानिन्द्रःब्रह्मश्रूणवृत्रेषुक्विप् बहु- लंछन्दसीतिभूतकालेक्विप् सइन्द्रःअपामर्णःऋगतौ स्रोतोलक्षणंप्रवाहंसमुद्रमच्छाभिलक्ष्यप्रैरयत् किञ्च सइन्द्रः अङ्गिरसांबिलान्तर्वर्तिनीनामावृतानांगवांलाभायसूर्यमजनयत् ततःगाः पणिभिरप- हृतागाः विददलभत विदिर् लाभे लुङिइरितोवेतिच्लेरङादेशः वाक्यभदादनिघातः तथाक्तुनाते- जसाअह्नांदिवसानांवयुनानिप्रज्ञानानिप्रकाशान् साधत् असाधयत् ॥ ३ ॥

2.19.4
सो अ᳚प्र॒तीनि॒ मन᳚वे पु॒रूणीन्द्रो᳚ दाशद्दा॒शुषे॒ हन्ति᳚ वृ॒त्रम् ।
स॒द्यो यो नृभ्यो᳚ अत॒साय्यो॒ भूत्प᳚स्पृधा॒नेभ्य॒ः सूर्य᳚स्य सा॒तौ ॥
▶ पदपाठः (Word-by-word)
सः । अ॒प्र॒तीनि᳚ । मन᳚वे । पु॒रूणि᳚ । इन्द्रः᳚ । दा॒श॒त् । दा॒शुषे᳚ । हन्ति᳚ । वृ॒त्रम् ।
स॒द्यः । यः । नृ॑भ्यः᳚ । अ॒त॒साय्यः᳚ । भूत् । प॒स्पृ॒धा॒नेभ्यः᳚ । सूर्य᳚स्य । सा॒तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रोदाशुषेह्विर्दत्तवतेमनवेमनुष्याययजमानायपुरूणिबहूनिअप्रतीन्युत्कृष्टानिधनानि दाश- त् ददाति किञ्च वृत्रमसुरंहन्ति कीदृश यइन्द्रः सूर्यस्यसातौ सातिःसंभजनं सूर्यसंभजनविवयभूतेपस्पृ धानेभ्यः अहमेवप्रथमंसूर्यंप्राप्नुयामितिस्पर्धमानेभ्यः नृभ्यः स्तोतृभ्यः सद्यस्तदानीमेवअतसाय्यस्त त्प्राप्तिहेतुभूतःसन् समाश्रयणीयोभूत् अभूत् यद्वा सूर्यस्यसातौ षोन्तकर्मणि अधिकरणेक्तिन् सूर्यस्य संबन्धिनियुद्धेपस्पृधानेभ्यः सूर्येणसहस्पर्धमानेभ्यःअतसाय्योभूत् सततंगमनीयोभवत् ॥ ४ ॥

2.19.5
स सु᳚न्व॒त इन्द्र॒ः सूर्य॒मा दे॒वो रि᳚ण॒ङ्मर्त्या᳚य स्त॒वान् ।
आ यद्र॒यिं गु॒हद᳚वद्यमस्मै॒ भर॒दंशं॒ नैत᳚शो दश॒स्यन् ॥
▶ पदपाठः (Word-by-word)
सः । सु॒न्व॒ते । इन्द्रः᳚ । सूर्य᳚म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या᳚य । स्त॒वान् ।
आ । यत् । र॒यिम् । गु॒हत्॑अ᳚वद्यम् । अ॒स्मै॒ । भर᳚त् । अंश᳚म् । न । एत᳚शः । द॒श॒स्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तवान् एतशेनस्तूयमानः देवोद्योतमानःसइन्द्रः सुन्वतेसोमाभिषवंकुर्वतेमर्त्यायमनुव्यायएतशा यसूर्यमारिणक् एतशेनस्पर्धमानंसूर्यंबलेनारेचयत् तथाचनिगमः—प्रैतशंसूर्येपस्पृधानंसौवश्व्येसुष्वि मावार्दंद्रइति । यद्यस्मात् एतशः सौवश्व्योराजादशस्यन् यजमानः अस्माइन्द्रायगुहदवद्यंप्रच्छन्नाव द्यंरयिंसोमरूपमाभरत् सम्पादयामास तत्रद्रुष्टान्तः—अंशंन यथापिता अंशं भागंपुत्रायभरतितद्वत् ॥ ५ ॥

2.19.6
स र᳚न्धयत्स॒दिव॒ः सार᳚थये॒ शुष्ण᳚म॒शुषं॒ कुय᳚वं॒ कुत्सा᳚य ।
दिवो᳚दासाय नव॒तिं च॒ नवेन्द्र॒ः पुरो॒ व्यै᳚र॒च्छम्ब᳚रस्य ॥
▶ पदपाठः (Word-by-word)
सः । र॒न्ध॒य॒त् । स॒॑दिवः᳚ । सार᳚थये । शुष्ण᳚म् । अ॒शुष᳚म् । कुय᳚वम् । कुत्सा᳚य ।
दिवः᳚॑दासाय । न॒व॒तिम् । च॒ । नव᳚ । इन्द्रः᳚ । पुरः᳚ । वि । ऐ॒र॒त् । शम्ब᳚रस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

सदिवः दीप्तियुक्तः सइन्द्रः सारथये आत्मनःसारथ्यंकुर्वतेकुत्सायराजर्षयेशुष्णंशोषयतिसर्वमिति शुष्णः कश्चिदसुरः तमशुषंनकेनापिशोषणीयंकुयवंएतन्नामानमसुरंरन्धयत् रध्यतिर्वशगमने वशमन यत् यद्वा रधहिंसासंराध्योरित्यस्यण्यन्तस्यरधिजभोरचीतिनुम् अवधीत् किञ्च सइन्द्रः दिवोदासाय एतन्नामकायराज्ञेशंबरस्यासुरस्यनवनवतिंपुरः व्यैरत् विदारितवान् ॥ ६ ॥

2.19.7
ए॒वा त᳚ इन्द्रो॒चथ᳚महेम श्रव॒स्या न त्मना᳚ वा॒जय᳚न्तः ।
अ॒श्याम॒ तत्साप्त᳚माशुषा॒णा न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ॥
▶ पदपाठः (Word-by-word)
ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ᳚म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना᳚ । वा॒जय᳚न्तः ।
अ॒श्याम᳚ । तत् । साप्त᳚म् । आ॒शु॒षा॒णाः । न॒नमः᳚ । वधः᳚ । अदे᳚वस्य । पी॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र श्रवस्या सुपांसुलुगितितृनीयायाःपूर्वसवर्णदीर्घः अन्नेच्छयावाजयन्तः त्वांबलिनकुर्वन्तः यद्वा श्रवस्यायशःकामनया वाजयन्तोन्नमिच्छन्तः इच्छायामपिणिच् दृश्यते अश्वायन्तोगव्यन्तोवाज यन्तइतिक्यजन्तत्वेचित्प्रातिपदिकस्यान्तोदात्तत्वंस्यात् वाजयन्तःश्तक्रतुमितियथा तादृशावयंतेएव तुभ्यमेव उचथंस्तोत्रं त्मना आत्मनास्वयमेव नअहेम इदानींप्रापयेम अहिगतौ नसम्प्रत्यर्थे आशुषा- णाः अश्नोतेःकानचिव्यत्ययोबहुलमितिलिट्यपिविकरणद्वयं उप्रत्ययः त्वामश्नुवानाः वयंतदभिलषितं तत्साप्तंसप्तपुरुषसंबन्धि साप्तपदीनंसख्यं अश्याम व्याप्नुयाम अदेवस्य देवानिन्द्रादीनजानतः पीयोः पीयतिर्हिंसकर्मा हिंसकस्यासुरस्यवधः वध्यन्तेशत्रवोनेनेतिवधरायुधंननमः तत् अधोनमय ननमः णमुप्रह्वत्वे ण्यंतस्यलुङिचङिरूपं मितांह्रस्वइतिह्रस्वः ॥ ७ ॥

2.19.8 समानपद
ए॒वा ते᳚ गृत्सम॒दाः शू᳚र॒ मन्मा᳚व॒स्यवो॒ न व॒युना᳚नि तक्षुः ।
ब्र॒ह्म॒ण्यन्त᳚ इन्द्र ते॒ नवी᳚य॒ इष॒मूर्जं᳚ सुक्षि॒तिं सु॒म्नम᳚श्युः ॥
▶ पदपाठः (Word-by-word)
ए॒व । ते॒ । गृ॒त्स॒॑म॒दाः । शू॒र॒ । मन्म᳚ । अ॒व॒स्यवः᳚ । न । व॒युना᳚नि । त॒क्षुः॒ ।
ब्र॒ह्म॒ण्यन्तः᳚ । इ॒न्द्र॒ । ते॒ । नवी᳚यः । इष᳚म् । ऊर्ज᳚म् । सु॒॑क्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शूरबलवन् हेइन्द्र गृत्समदाः अत्रयास्कः—गृत्समदोगृत्समदनः गृत्सइतिमेधाविनाम गृणातेः स्तुतिकर्मणइति । तथाविधाःमन्ममननीयं स्तोत्रंतीवतुभ्यमेव तक्षुः ततक्षुःचक्रुःतत्रदृष्टान्तः—अवस्य वोन अवः गत्यर्थादवतेरसुनिरूपमवइति अवोगमनमिच्छन्तः पुमांसोवयुनानि मार्गान् यथाकुर्व- न्तितद्वत् किञ्च नवीयः सुपांसुलुगितिषष्ठ्यालुक् नवीयसोनवतरस्यते तवब्रह्मण्यन्तः स्तोत्रंकर्तुमि च्छन्तः गृत्समदाः सुक्षितिमिषं शोभननिवासोपेतमन्नंऊर्जंबलं सुम्नं सुखं चाश्युः प्राप्नुयुः एकस्मिन् गृत्समदेबहुवचनंपरोक्षनिर्देशश्च ॥ ८ ॥

2.19.9
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु᳚ही॒यदि᳚न्द्र॒ दक्षि᳚णा म॒घोनी᳚ ।
शिक्षा᳚ स्तो॒तृभ्यो॒ माति᳚ ध॒ग्भगो᳚ नो बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । सा । ते॒ । प्रति᳚ । वर᳚म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि᳚णा । म॒घोनी᳚ ।
शिक्ष᳚ । स्तो॒तृ॑भ्यः᳚ । मा । अति᳚ । ध॒क् । भगः᳚ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty