द्वितीयं मण्डलम् - सूक्तम् 23

19 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: ब्रह्मणस्पतिः छन्दः: जगती

सूक्तम् 2.23 - सम्पूर्णम्

1 / 19
ऋक्: 2.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
2.23.1
ग॒णानां᳚ त्वा ग॒णप᳚तिं हवामहे क॒विं क᳚वी॒नामु᳚प॒मश्र᳚वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म᳚णां ब्रह्मणस्पत॒ आ नः᳚ शृ॒ण्वन्नू॒तिभि᳚ः सीद॒ साद᳚नम् ॥
▶ पदपाठः (Word-by-word)
ग॒णाना᳚म् । त्वा॒ । ग॒ण॑प᳚तिम् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र᳚वः॑तमम् ।
ज्ये॒ष्ठ॒॑राज᳚म् । ब्रह्म᳚णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । आ । नः॒ । शृ॒ण्वन् । ऊ॒ति॑भिः᳚ । सी॒द॒ । साद᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते ब्रह्मणोन्नस्यपरिवृढस्यकर्मणोवापतेपालयितः गणानांदेवादिगणानांसंबन्धिनंगण- पतिंस्वीयानांपतिंकवीनांक्रान्तदर्शिनांकविंउपमश्रवस्तमं उपमीयतेनयेत्युपमा सर्वेषामन्नानामुपमा नं श्रवोन्नंयस्यसतथोक्तः अतिशयेनोपमश्रवाः उपमश्रवस्तमः माङ् माने आतश्चोपसर्गे करणेअङ्प्रत्य यः ङ्यापोःसंज्ञाछन्दसोरितिह्रस्वत्वम् ज्येष्ठराजं ज्येष्ठाःप्रशस्यतमाः तेषांमध्येराजन्तं ब्रह्मणांमन्त्रणां स्वामिनंत्वात्वांहवामहे अस्मिन्कर्मण्याह्वयामः किञ्च नोस्माकं स्तुतीः आशृण्वन् त्वंऊतिभिः पाल नैर्हेतुभूतैः सादनंसीदंत्यस्मिन्नितिसदनंयज्ञगृहमासीदोपविश ॥ १ ॥

2.23.2 समानपद
दे॒वाश्चि᳚त्ते असुर्य॒ प्रचे᳚तसो॒ बृह᳚स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः ।
उ॒स्रा इ᳚व॒ सूर्यो॒ ज्योति᳚षा म॒हो विश्वे᳚षा॒मिज्ज᳚नि॒ता ब्रह्म᳚णामसि ॥
▶ पदपाठः (Word-by-word)
दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्य॒ । प्र॑चे᳚तसः । बृह᳚स्पते । य॒ज्ञिय᳚म् । भा॒गम् । आ॒न॒शुः॒ ।
उ॒स्राः॑इ᳚व । सूर्यः᳚ । ज्योति᳚षा । म॒हः । विश्वे᳚षाम् । इत् । ज॒नि॒ता । ब्रह्म᳚णाम् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

असुर्य असुराणांहन्तः हेबृहस्पते प्रचेतसः प्रकृष्टज्ञानाः तेत्वदीयादेवाश्चित् देवाअपि यज्ञियंयज्ञार्हं भागमानशुः प्राप्नुवन् यद्वा प्रचेतसइतिबृहस्पतेर्विशेषणं प्रकृष्टज्ञानवतस्तेतवसंबन्धिनोदेवाइतियोज नीयं यद्वा प्रचेतसः विभक्तिपरिणामः प्रचेतसित्वयिसतिदेवाः यज्ञियंभागमानशिरे कर्मविघ्नकारिणा मसुराणां रक्षोघ्नमन्त्रैरपाकरणात् नवैब्रह्मण्वद्रिष्यतीतिश्रवणात् । ज्योतिषातेजसामहः मंहनीयः सूर्यउस्राइव उस्राः किरणाः स्फायितंचीत्यादिनारक्प्रत्ययः यथाकिरणान् जनयति तथाविश्वेषां सर्वे षांब्रह्मणांमन्त्रणां जनितेत् जनयितैवासि जनितामन्त्रेइतिनिपातनाण्णिलोपः ॥ २ ॥

2.23.3
आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति᳚ष्मन्तं॒ रथ᳚मृ॒तस्य᳚ तिष्ठसि ।
बृह᳚स्पते भी॒मम᳚मित्र॒दम्भ᳚नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । वि॒॑बाध्य᳚ । प॒रि॒॑रपः᳚ । तमां᳚सि । च॒ । ज्योति᳚ष्मन्त᳚म् । रथ᳚म् । ऋ॒तस्य᳚ । ति॒ष्ठ॒सि॒ ।
बृह᳚स्पते । भी॒मम् । अ॒मि॒त्र॒॑दम्भ᳚नम् । र॒क्षः॒॑हन᳚म् । गो॒त्र॒॑भिद᳚म् । स्वः॒॑विद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते परिरपः परितःरपःपापरूपंरक्षः यद्वा रपलपव्यक्तायांवाचि क्विप् परिवदतोनिन्दकान् तमांसिचविबाध्यतेज्सानिराकृत्य ज्योतिष्मंतंज्योतिषातद्वन्तं ऋतस्ययज्ञस्यप्रापकं भीमंशत्रूणांभयं करं अमित्रदंभनं शत्रूणां हिंसकं तदेवाह रक्षोहणं रक्षसांहन्तारं गोत्रभिदं मेघानांभेत्तारं स्वर्विदं स्वर्गस्यलंभकंरथमातिष्ठसि अधितिष्ठसि ॥ ३ ॥

2.23.4
सु॒नी॒तिभि᳚र्नयसि॒ त्राय᳚से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो᳚ अश्नवत् ।
ब्र॒ह्म॒द्विष॒स्तप᳚नो मन्यु॒मीर᳚सि॒ बृह᳚स्पते॒ महि॒ तत्ते᳚ महित्व॒नम् ॥
▶ पदपाठः (Word-by-word)
सु॒नी॒ति॑भिः᳚ । न॒य॒सि॒ । त्राय᳚से । जन᳚म् । यः । तुभ्य᳚म् । दाशा᳚त् । न । तम् । अंहः᳚ । अ॒श्न॒व॒त् ।
ब्र॒ह्म॒॑द्विषः᳚ । तप᳚नः । म॒न्यु॒॑मीः । अ॒सि॒ । बृह᳚स्पते । महि᳚ । तत् । ते॒ । म॒हि॒॑त्व॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते सुनीतिभिः शोभनानीतयोतेसुनीतयः सन्मार्गाःतैर्जनंनयसि अपेक्षितफलंप्रापयसि त्रायसेजनमापद्भ्योरक्षसिच किञ्च योयजमानःतुभ्यं हविर्लक्षणमन्नंदाशात् प्रयच्छेत् दाश्रृदाने लेट्या डागमः तमंहः पापंपापरूपदारिद्र्यं वानाश्नवत् नप्राप्नुयात् अश्नोतेर्लेटिव्यत्ययेनपरस्मैपदं अडागमः ब्रह्मद्विषः ब्राह्मणानांमन्त्रणांवाद्वेष्टुः तपनः तापकोसि किञ्च मन्युमीः मन्योःक्रोधस्यपरेषांज्ञानस्य वाहिंसकोसि मीङ् हिंसायां क्विप् तेतवतत्तादृशं महिमहत्प्रभूतं महित्वनं माहात्म्यमस्ति ॥ ४ ॥

2.23.5
न तमंहो॒ न दु᳚रि॒तं कुत᳚श्च॒न नारा᳚तयस्तितिरु॒र्न द्व᳚या॒विनः᳚ ।
विश्वा॒ इद᳚स्माद्ध्व॒रसो॒ वि बा᳚धसे॒ यं सु᳚गो॒पा रक्ष᳚सि ब्रह्मणस्पते ॥
▶ पदपाठः (Word-by-word)
न । तम् । अंहः᳚ । न । दुः॒॑इ॒तम् । कुतः᳚ । च॒न । न । अरा᳚तयः । ति॒ति॒रुः॒ । न । द्व॒या॒विनः᳚ ।
विश्वाः᳚ । इत् । अ॒स्मा॒त् । ध्व॒रसः᳚ । वि । बा॒ध॒से॒ । यम् । सु॒॑गो॒पाः । रक्ष᳚सि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते सुगोपाः सुष्टुपालयितात्वंयंजनंरक्षसि पालयसि तंजनंअंहः आहन्तव्यं दुःखंनबाधते दुरितंतत्कारणंपापंचनबाधते अरातयः हिंसकाः तंजनंकुतश्चन सर्वासुदिक्षुन तितिरुः तिरतिर्हिंसाक र्मा लिट् नहिंसन्ति तथाद्वयाविनःमनस्यन्यक्रियायांचान्यदित्येतद्वयं येषामस्तितेद्वयाविनोवञ्चकाः तेपितंजनंनबाधन्ते किञ्चअस्मात् ध्वरसोहिंसिकाः विश्वाः सर्वाः सेनाः तदर्थंविबाधसेइत् विशेषे णबाधसएव ॥ ५ ॥

2.23.6
त्वं नो᳚ गो॒पाः प᳚थि॒कृद्वि᳚चक्ष॒णस्तव᳚ व्र॒ताय᳚ म॒तिभि᳚र्जरामहे ।
बृह᳚स्पते॒ यो नो᳚ अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर᳚स्वती ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । गो॒पाः । प॒थि॒॑कृत् । वि॒॑च॒क्ष॒णः । तव᳚ । व्र॒ताय᳚ । म॒ति॑भिः᳚ । ज॒रा॒म॒हे॒ ।
बृह᳚स्पते । यः । नः॒ । अ॒भि । ह्वरः᳚ । द॒धे । स्वा । तम् । म॒र्म॒र्तु॒ । दु॒च्छुना᳚ । हर᳚स्वती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते त्वंनोस्माकं गोपाः पालयिता पथिकृत्सन्मार्गकृच्चभवसि विचक्षणः विशेषेण द्रष्टासर्व ज्ञस्त्वं तवव्रतायत्वत्संबन्धिनेयज्ञाय मतिभिःस्तोत्रैःजरामहे स्तुमः जरतिःस्तुतिकर्मा यःपुमान्नोस्मा नभिअभिलक्ष्यह्वरः ह्वृकौटिल्येभावेअसुन् कौटिल्यंदधेविदधाति तंस्वावीयादुच्छुनादुर्बुद्धिः हरस्व ती वेगवतीसती मर्मर्तु मारयतु मृङ्प्राणत्यागे अन्तर्भावितण्यर्थस्य यङ्लुकिलोटिरूपम् ॥ ६ ॥

2.23.7 समानपद
उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसो॑राती॒वा मर्त᳚ः सानु॒को वृकः᳚ ।
बृह᳚स्पते॒ अप॒ तं व᳚र्तया प॒थः सु॒गं नो᳚ अ॒स्यै दे॒ववी᳚तये कृधि ॥
▶ पदपाठः (Word-by-word)
उ॒त । वा॒ । यः । नः॒ । म॒र्चया᳚त् । अना᳚गसः । अ॒रा॒ति॒॑वा । मर्तः᳚ । सा॒नु॒कः । वृकः᳚ ।
बृह᳚स्पते । अप᳚ । तम् । व॒र्त॒य॒ । प॒थः । सु॒॑गम् । नः॒ । अ॒स्यै । दे॒व॑वी᳚तये । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतवाअपिचहेबृहस्पते अरातीवाअभिमुख्मागमनवान् सानुकः समुच्छ्रितः सानुसमुच्छ्रितमिति यास्कः । वृकः वृकआदाने धनादीनामादाता योमर्तोमनुष्यः अनागसोपराधहीनान्नोस्मान्मर्चयात् मर्चयतिर्हिसाकर्मा हिंस्यात् तंमर्तं पथोवैदिकान्मार्गादपवर्तय निवर्तय नोस्माकं अस्यैदेववीतये देवानांवीतिंसोमभक्षणमर्चयतीतिदेववीतिर्यज्ञः अस्यै देववीतयेअस्मै यज्ञायनोस्माकंसुगंसुष्ठुगन्त- व्यंमार्गंकृधिकुरु यज्ञानुष्ठानायसुमतिंदेहीत्यर्थः ॥ ७ ॥

2.23.8
त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हे॑व᳚स्पर्तरधिव॒क्तार᳚मस्म॒युम् ।
बृह᳚स्पते देव॒निदो॒ नि ब᳚र्हय॒ मा दु॒रेवा॒ उत्त᳚रं सु॒म्नमुन्न᳚शन् ॥
▶ पदपाठः (Word-by-word)
त्रा॒तार᳚म् । त्वा॒ । त॒नूना᳚म् । ह॒वा॒म॒हे॒ । अव᳚॑स्पर्तः । अ॒धि॒॑व॒क्तार᳚म् । अ॒स्म॒युम् ।
बृह᳚स्पते । दे॒व॒॑निदः᳚ । नि । ब॒र्ह॒य॒ । मा । दुः॒॑एवाः᳚ । उत्॑त᳚रम् । सु॒म्नम् । उत् । न॒श॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवस्पर्तः उपद्रवेभ्यः पारयितः यद्वा अवसारक्षणेनआपद्भ्यः पारयितः हेबृहस्पते तनूनामङ्गानां पुत्रादीनांवात्रातारंपालयिता धिवक्तारं अस्मासुपक्षपातेनअधिकंवक्तारं अस्मयुं हविःप्रदानस्मान् कामयमानं त्वात्वांहवामहे अस्मिन्कर्मणिआह्वयामः किञ्च देवनिदोदेवनिन्दकानसुरान्निबर्हय विना शय दुरेवाः दुष्टगमनादुर्बुद्धयः शत्रवः उत्तरंउत्कृष्टतरं सुम्नंसुखंमाउन्नशन् माव्याप्नुवन्तु ॥ ८ ॥

2.23.9
त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु᳚ मनु॒ष्या द᳚दीमहि ।
या नो᳚ दू॒रे त॒ळितो॒ या अरा᳚तयो॒॑भि सन्ति᳚ ज॒म्भया॒ ता अ᳚न॒प्नसः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । सु॒॑वृधा᳚ । ब्र॒ह्म॒णः॒ । प॒ते॒ । स्पा॒र्हा । वसु᳚ । म॒नु॒ष्या᳚ । आ । द॒दी॒म॒हि॒ ।
याः । नः॒ । दू॒रे । त॒ळितः᳚ । याः । अरा᳚तयः । अ॒भि । सन्ति᳚ । ज॒म्भय᳚ । ताः । अ॒न॒प्नसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते सुवृधासुष्ठुवर्धयित्रा त्वयाहेतुनावयं स्पार्हास्पृहणीयानिवसुधनानिमनुष्या सुपांसु लुगितिचतुर्थीबहुवचनस्याकारः मनुष्येभ्योदातृभ्यः आददीमहि गृह्णीमहि आङोदोनास्यविहरणे इत्यात्मनेपदम् दूरेदूरदेशेयाअरातयः याश्चतळितोन्तिकेअरातयः नोस्मानभिसन्ति अभिभवन्ति अनप्रसः कर्महीनान् ताः अरातीः तान् शत्रून् जंभय नाशय जभिनाशनेचुरादिः अत्रनिरुक्तम्—त्व यावयंसुवर्धयित्राब्रह्मणस्पतेस्पृहणीयानिवसूनिमनुष्येभ्यआददीमहियाश्चनोदूरेतळितोयाश्चान्ति केरातयोदानकर्माणोवादानप्रज्ञावाजंभयताअनप्रसोप्रइतिरूपनामेति ॥ ९ ॥

2.23.10 समानपद
त्वया᳚ व॒यमु᳚त्त॒मं धी᳚महे॒ वयो॒ बृह᳚स्पते॒ पप्रि᳚णा॒ सस्नि᳚ना यु॒जा ।
मा नो᳚ दु॒ःशंसो᳚ अभिदि॒प्सुरी᳚शत॒ प्र सु॒शंसा᳚ म॒तिभि᳚स्तारिषीमहि ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । उ॒त्॑त॒मम् । धी॒म॒हे॒ । वयः᳚ । बृह᳚स्पते । पप्रि᳚णा । सस्नि᳚ना । यु॒जा ।
मा । नः॒ । दुः॒॑शंसः᳚ । अ॒भि॒॑दि॒प्सुः । ई॒श॒त॒ । प्र । सु॒॑शंसाः᳚ । म॒ति॑भिः᳚ । ता॒रि॒षी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते पप्रिणा पॄपालनपूरणयोः आदृगमहनेतिकिन्प्रत्ययः छान्दसोयणादेशः कामानांपूरके ण सस्निनाशुद्धेनयुजासहायेनत्वयाहेतुनाउत्तमंवयोहविर्लक्षणमन्नंवयंधीमहे धारयामः धीधारणे दैवा दिकः दुःशंसःदुःशंसनीयः अभिदिप्सुः अभिदंभितुंअभिभवितुमिच्छुः पुरुषः नोस्माकंमाईशत मा ई- शिष्ट ईश्वरोमाभवतु ईशऎशर्येलेट्यडागमः वयंमतिभिः स्तोत्रैः सुशंसाः शोभनशंसनोपेताः सन्तः प्रातरिषीमहि प्रकर्षेणवर्धेमहि ॥ १० ॥

2.23.11
अ॒ना॒नु॒दो वृ᳚ष॒भो जग्मि᳚राह॒वं निष्ट᳚प्ता॒ शत्रुं॒ पृत᳚नासु सास॒हिः ।
असि᳚ स॒त्य ऋ᳚ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य᳚ चिद्दमि॒ता वी᳚ळुह॒र्षिणः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒न॒नु॒॑दः । वृ॒ष॒भः । जग्मिः᳚ । आ॒॑ह॒वम् । निः॑त᳚प्ता । शत्रु᳚म् । पृत᳚नासु । स॒स॒हिः ।
असि᳚ । स॒त्यः । ऋ॒ण॒॑याः । ब्र॒ह्म॒णः॒ । प॒ते॒ । उ॒ग्रस्य᳚ । चि॒त् । द॒मि॒ता । वी॒ळु॒॑ह॒र्षिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते अनानुदः अनुपश्चाद्ददातीत्यनुदः सयस्यनास्तीत्यननुदः दात्रन्तरशून्यइत्यर्थः अत- एववृषभः कामानांवर्षिताआहवंआहूयतेत्रेतिआहवोयुद्धं आङियुद्धइतिअप प्रत्ययः संप्रसारणंच तद्युद्धंजग्मिः गन्ता आदृगमहनेतिकिन्प्रत्ययः लिङ्वद्भावादाहवमित्यत्रषष्ठीप्रतिषेधः शत्रुंशातयि तारं निष्टप्तानितरांतस्यतापकः तृन्नन्तत्वात्षष्ठीप्रतिषेधः निसस्तपतावनासेवनेइतिषत्वम् तादौचनि तीतिगतेःस्वरः पृतनासुसङ्ग्रामेषुसासहिः शत्रूणामभिभविता एतादृशस्त्वं सत्यः सत्यपराक्रमः सत्यप्रज्ञोवासि ऋणयाः ऋणस्ययावयितासि युमिश्रणामिश्रणयोः ण्यन्तस्यक्विपिणिलोपेलोपोव्योर्व लीतिवलोपः किञ्च उग्रस्यचित् ओजस्विनोपि दमिताउपशमयितावीळु हर्षिणः दृढहर्षस्यकामुकस्य नास्तिक्स्यदमयितासि ॥ ११ ॥

2.23.12
अदे᳚वेन॒ मन᳚सा॒ यो रि᳚ष॒ण्यति᳚ शा॒सामु॒ग्रो मन्य᳚मानो॒ जिघां᳚सति ।
बृह᳚स्पते॒ मा प्रण॒क्तस्य᳚ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव᳚स्य॒ शर्ध᳚तः ॥
▶ पदपाठः (Word-by-word)
अदे᳚वेन । मन᳚सा । यः । रि॒ष॒ण्यति᳚ । शा॒साम् । उ॒ग्रः । मन्य᳚मानः । जिघां᳚सति ।
बृह᳚स्पते । मा । प्रण᳚क् । तस्य᳚ । नः॒ । व॒धः । नि । क॒र्म॒ । म॒न्युम् । दुः॒॑एव᳚स्य । शर्ध᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःपुमान् अदेवेनदेवानमन्यमानेन यद्वाआसुरव्रुत्तिविशिष्टेनमनसास्मान् रिषण्यति हिनस्ति दुर स्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिनिपातितः यश्चोग्रः पापचित्तः मन्यमानः आत्मानं बहुमन्यमानः पुमान् शासां उक्थस्यशंसितारं यद्वा अस्माकमाशंसांशसितॄणां उग्रइतिवायोजनीयं अस्मान् जिघां सतिहन्तुमिच्छति हन्तेःसनिअज्झनगमांसनीतिदीर्घः हेबृहस्पते तस्यवधः वध्यतेनेनेतिवधआयुधं नोस्मान् मापृणक् मासंपर्कयतु पृचीसंपर्के श्नम् विकरणी व्यत्ययेनअमागमः चादिलोपेइतिननिघातः व्यत्ययेनाद्युदात्तः किञ्च दुरेवस्यदुष्टगमनस्यशर्धतोबलवतः यद्वा दुष्टाभिसन्धेःवेगंकुर्वतः तस्यमन्युं क्रोधंज्ञानंवानिकर्म त्वत्प्रसादान्निराकुर्मश्च ॥ १२ ॥

2.23.13
भरे᳚षु॒ हव्यो॒ नम᳚सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि᳚ता॒ धनं᳚धनम् ।
विश्वा॒ इद॒र्यो अ᳚भिदि॒प्स्वो॒३॒᳚ मृधो॒ बृह॒स्पति॒र्वि व᳚वर्हा॒ रथा{4}᳚ इव ॥
▶ पदपाठः (Word-by-word)
भरे᳚षु । हव्य᳚ । नम᳚सा । उ॒प॒॑सद्यः᳚ । गन्ता᳚ । वाजे᳚षु । सनि᳚ता । धन᳚म्॑धनम् ।
विश्वाः᳚ । इत् । अ॒र्यः । अ॒भि॒॑दि॒प्स्वः᳚ । मृधः᳚ । बृह॒स्पतिः᳚ । वि । व॒व॒र्ह॒ । रथा᳚न्॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

सबृहस्पतिः भरेषुङ्ग्रामेषुहव्यः योद्धृभिःस्वरक्षणार्थमाह्वातव्यः नमसोपसद्यः सर्वैर्नमसोपसद नीयः किञ्च वाजेषुगन्तासंग्रामेषुरक्षार्थंगमनशीलः तथाधनंधनंसनितासंभक्तादातावा तृन्नन्तत्वात्ष ष्ठीप्रतिषेधः तथाअर्थः स्वामीबृहस्पतिः अभिदिप्स्वः अभिभवनेच्छावतीः विश्वाइत् सर्वाएवमृधः हिंसकाः सेनारथानिवयुद्धेवेगेनपरकीयान् रथानिवविववर्ह विशेषेण थिथिलीचकार यद्वा इवशब्दा श्चार्थे रथांश्चविववर्ह लडर्थेलिट् ॥ १३ ॥

2.23.14
तेजि᳚ष्ठया तप॒नी र॒क्षस᳚स्तप॒ ये त्वा᳚ नि॒दे द᳚धि॒रे दृ॒ष्टवी᳚र्यम् ।
आ॒विस्तत्कृ᳚ष्व॒ यदस᳚त्त उ॒क्थ्यं१॒᳚ बृह᳚स्पते॒ वि प᳚रि॒रापो᳚ अर्दय ॥
▶ पदपाठः (Word-by-word)
तेजि᳚ष्ठया । त॒प॒नी । र॒क्षसः᳚ । त॒प॒ । ये । त्वा॒ । नि॒दे । द॒धि॒रे । दृ॒ष्ट॑वी᳚र्यम् ।
आ॒विः । तत् । कृ॒ष्व॒ । यत् । अस᳚त् । ते॒ । उ॒क्थ्य᳚म् । बृह᳚स्पते । वि । प॒रि॒॑रपः᳚ । अ॒र्द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते तेजिष्ठयातिशयेनतिग्मया तपनीतापकारिण्यहेत्यारक्षसोराक्षसांस्तप तापय येरा क्षसाः दृष्टवीर्यंयुद्धेषुदृष्टपराक्रमं त्वात्वांनिदेनिन्दायाविषयंदधिरे कृतवन्तः तान् तापयेतिसमन्वयः तेतवउक्थ्यंसर्वैःप्रशंसनीयंयद्वीर्यमसत्पूर्वमासीत् तदधुनाआविष्कृष्व प्रकटीकुरु तेनचवीर्येणपरि रापः परिवदतोनिन्द्रकानसुरान् व्यर्दय विशेषेणबाधस्व ॥ १४ ॥ बार्हस्पत्येपशौएषाहविषोनुवाक्या प्रदानानामितिखण्डेसूत्रितम्—बृहस्पतेअतियदर्थोअर्हात्त म्रुत्वियाउपवाचःसचन्तइति एषैवाश्विनशस्त्रेपरिधानीया सूत्रितञ्च—बृहस्पतेअतियदर्योअर्हादिति परिधानीयेति ।

2.23.15 समानपद
बृह᳚स्पते॒ अति॒ यद॒र्यो अर्हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु᳚म॒ज्जने᳚षु ।
यद्दी॒दय॒च्छव᳚स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि᳚णं धेहि चि॒त्रम् ॥
▶ पदपाठः (Word-by-word)
बृह᳚स्पते । अति᳚ । यत् । अ॒र्यः । अर्हा᳚त् । द्यु॒॑मत् । वि॒॑भाति᳚ । क्रतु᳚॑मत् । जने᳚षु ।
यत् । दी॒दय᳚त् । शव᳚सा । ऋ॒त॒॑प्र॒जा॒त॒ । तत् । अ॒स्मासु᳚ । द्रवि᳚णम् । धे॒हि॒ । चि॒त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतप्रजात सत्येनोत्पन्नहेबृहस्पते अर्यःश्रेष्ठोब्राह्मणः सर्वान्कामानतिअतीत्ययद्ब्रह्मवर्चसं तेजः अर्हत्पूजयेत् अर्हपूजायां लेट्याडागमः जनेषुब्राह्मणेषुद्युमत् दीप्तियुक्तंक्रतुमत् ज्ञानोपेतंयद्ब्रह्मवर्चसं विभाति विशेषेणदीप्यते यच्चशवसाबलेनस्वाश्रयंजनंदीदयत् दीदयतिर्दीप्तिकर्मा दीपयति चित्रंचाय नीय्ंतद्ब्रह्मवर्चसरूपंद्रविणंअस्मासुधेहिनिधेहि यद्वा अर्यउदारोपि त्वयादत्तंधनंअतीवार्हात् श्रद्द- धीत यच्चत्वद्दत्तंधनंजनेषुतवस्तोत्रंकुर्वाणेषुदीप्तियुक्तंकर्मसाधनंचविभाति यच्चधनं शवसान्नादिसमृ द्भ्यादीयत् स्वाश्रयंदीपयति तादृशं धनमस्मासुधेहि तथाच ब्राह्मणम्—बृहस्पतेअतियदर्योअर्हादित्ये तयापरिदध्यात्तेजस्कामोब्रह्मवर्चसकामोतीववान्यान्ब्रह्म्वर्चसमर्हतिद्युमदितिद्युमदिवविब्रह्मवर्चसं विभातीतिवीववैब्रह्मवर्चसंभातियद्दीद्यच्छवसऋतप्रजातेतिदीदायेववैब्रह्मवर्चसंतदस्मासुद्रविणंधेहि चित्रमितिचित्रमिववैब्रह्मवर्चसंब्रह्मवर्चसीब्रह्मयशसीभवतीति ॥ १५ ॥

2.23.16 समानपद
मा नः᳚ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि᳚रा॒मिणो᳚ रि॒पवो॑न्ने᳚षु जागृ॒धुः ।
आ दे॒वाना॒मोह᳚ते॒ वि व्रयो᳚ हृ॒दि बृह᳚स्पते॒ न प॒रः साम्नो᳚ विदुः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । स्ते॒नेभ्यः᳚ । ये । अ॒भि । द्रु॒हः । प॒दे । नि॒रा॒मिणः᳚ । रि॒पवः᳚ । अन्ने᳚षु । ज॒गृ॒धुः ।
आ । दे॒वाना᳚म् । ओह᳚ते । वि । व्रयः᳚ । हृ॒दि । बृह᳚स्पते । न । प॒रः । साम्नः᳚ । वि॒दुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृह्स्प्ते नोस्मान् स्तेनेभ्यः स्त्यानमस्तियेषुइतिस्तेनाश्चौराः तेभ्योमादाः तान् दर्शयति येचौरा द्रुहः प्राणद्रोहस्यपदेस्थानेनिरामिणः नितरांरमणशीलाः रिपवः हिंसकाःसन्तः अन्नेषुपरकीयेषु अभि जागृधुः अभिकांक्षन्ति गृधुअभिकांक्षायां लिटिरूपं येचदेवानांविव्रयः विविशेषेणवर्जनं व्रीव्लीइति धातूवर्जनेवर्तेते यएवंविद्वान्दक्षिणांप्रतिगृह्णातिनैनंदक्षिणाव्लीनातीतिएकस्यवर्जनार्थेदृष्टत्वादपर स्यापिवर्जनार्थत्वम् तत् हृदिस्वकीयेहृदयेआओहतेआवहन्ति देवानांयागान्स्तुतींश्चनकरवामेतिमन्य न्तइतियावत् तेभ्योस्मान्मादाइतिसमन्वयः येपुमांसः साम्नः साममयात्त्वत्तः परः परस्तादन्यदुत्कृष्टं सामयद्रक्षोघ्रं सामवैरक्षोहमितिश्रुतेः । नविदुर्नजानन्ति किन्तु सर्वसाधकंसामत्वामेवविदुषोस्मान् स्तेनेभ्योमादाः ॥ १६ ॥

2.23.17
विश्वे᳚भ्यो॒ हि त्वा॒ भुव᳚नेभ्य॒स्परि॒ त्वष्टाज᳚न॒त्साम्न᳚ःसाम्नः क॒विः ।
स ऋ᳚ण॒चिदृ᳚ण॒या ब्रह्म᳚ण॒स्पति᳚र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य᳚ ध॒र्तरि᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚भ्यः । हि । त्वा॒ । भुव᳚नेभ्यः । परि᳚ । त्वष्टा᳚ । अज᳚नत् । साम्नः᳚॑साम्नः । क॒विः ।
सः । ऋ॒ण॒॑चित् । ऋ॒ण॒॑याः । ब्रह्म᳚णः । पतिः᳚ । द्रु॒हः । ह॒न्ता । म॒हः । ऋ॒तस्य᳚ । ध॒र्तरि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते त्वष्टाप्रजापतिः विश्वेभ्योभुवनेभ्यस्परिसर्वेभ्योभूतजातेभ्यः उत्कृष्टंत्वात्वां अजन द्धि अजीजनत् खलु ततस्त्वंसाम्नःसाम्नः सर्वस्यापिसाम्नःकविः कुशब्दे अचइरितिइमत्ययः उच्चारयि ताकार्तासि यद्वा कविःक्रान्तदर्शीत्वष्टासाम्नःसाम्नः सर्वस्यापिसाम्नाः सारेण त्वामजीजनत् किञ्च सब्रह्मणस्पतिः महोमहतऋतस्ययज्ञधर्तरि धारकेयजमानेऋणचित् स्तोतृकाममृणमिवचिनोतीति ऋणचित् किञ्च ऋणयाः पापरूपस्यऋणस्ययाव्यितापृथक्कर्ताचद्रुहः कर्मणोद्रोग्धुरसुरस्यहन्ताभवेति ॥ ७ ॥

2.23.18
तव᳚ श्रि॒ये व्य᳚जिहीत॒ पर्व᳚तो॒ गवां᳚ गो॒त्रमु॒दसृ᳚जो॒ यद᳚ङ्गिरः ।
इन्द्रे᳚ण यु॒जा तम᳚सा॒ परी᳚वृतं॒ बृह᳚स्पते॒ निर॒पामौ᳚ब्जो अर्ण॒वम् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । श्रि॒ये । वि । अ॒जि॒ही॒त॒ । पर्व᳚तः । गवा᳚म् । गो॒त्रम् । उ॒त्॑असृ᳚जः । यत् । अ॒ङ्गि॒रः॒ ।
इन्द्रे᳚ण । यु॒जा । तम᳚सा । परि᳚॑वृतम् । बृह᳚स्पते । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरः आङ्गिरसहेबृहस्पते गवामावारकोबलेनाधिष्ठितः पर्वतः तवश्रियेआश्रयणार्थं व्यजि- हीत विवृतद्वारतामगच्छत् ततस्त्वंयद्यदागोत्रं इनित्रकट्यचश्छेतिस मूहार्थेत्रप्रत्ययः गवां समूहमु दस्रुजोनिरगमयः तदाइन्द्रेणयुजासहायेनयुक्तस्त्वंतमसावृत्रासुरेणपरीवृतंपरितआक्रान्तंअपामर्णवं स्थानभूतं मेघंनिरौच्चः नितरामधोमुखमकार्षीः ॥ १८ ॥

2.23.19
ब्रह्म᳚णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य᳚ बोधि॒ तन᳚यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒॑उ॒क्तस्य᳚ । बो॒धि॒ । तन᳚यम् । च॒ । जि॒न्व॒ ।
विश्व᳚म् । तत् । भ॒द्रम् । यत् । अव᳚न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते ब्रह्मणांस्तोत्रणामधिपते अस्यजगतोयन्तनियामकस्त्वं सूक्तस्यअस्मदीयमिदं ब्राह्म णस्पत्यंसूक्तंबोधि बुध्यस्व त्वंतनयंपुत्रपौत्रादिलक्षणंसन्तानंचजिन्व जिविःप्रीणनार्थः लोटिरूपम् प्रीणय भवादृशादेवायदवन्तिरक्षन्ति तत्तादृशंविश्वंसर्वंभद्रंकल्याणंभवति अतोवयं विदथेस्मिन् यज्ञे- सुवीराः शोभनपुत्रपौत्राःसन्तः बृहत्प्रभूतमिदंस्तोत्रंवदेमब्रूयाम ॥ १९ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेणसायणा- चार्येणविरचिते माधवोयेवेदार्थप्रकाशॆऋक्संहिताभाष्येद्वितीयाष्टकेषष्ठोध्यायः ॥ ६ ॥