श्रवणम्

2.23.4
सु॒नी॒तिभि᳚र्नयसि॒ त्राय᳚से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो᳚ अश्नवत् ।
ब्र॒ह्म॒द्विष॒स्तप᳚नो मन्यु॒मीर᳚सि॒ बृह᳚स्पते॒ महि॒ तत्ते᳚ महित्व॒नम् ॥
▶ पदपाठः (Word-by-word)
सु॒नी॒ति॑भिः᳚ । न॒य॒सि॒ । त्राय᳚से । जन᳚म् । यः । तुभ्य᳚म् । दाशा᳚त् । न । तम् । अंहः᳚ । अ॒श्न॒व॒त् ।
ब्र॒ह्म॒॑द्विषः᳚ । तप᳚नः । म॒न्यु॒॑मीः । अ॒सि॒ । बृह᳚स्पते । महि᳚ । तत् । ते॒ । म॒हि॒॑त्व॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते सुनीतिभिः शोभनानीतयोतेसुनीतयः सन्मार्गाःतैर्जनंनयसि अपेक्षितफलंप्रापयसि त्रायसेजनमापद्भ्योरक्षसिच किञ्च योयजमानःतुभ्यं हविर्लक्षणमन्नंदाशात् प्रयच्छेत् दाश्रृदाने लेट्या डागमः तमंहः पापंपापरूपदारिद्र्यं वानाश्नवत् नप्राप्नुयात् अश्नोतेर्लेटिव्यत्ययेनपरस्मैपदं अडागमः ब्रह्मद्विषः ब्राह्मणानांमन्त्रणांवाद्वेष्टुः तपनः तापकोसि किञ्च मन्युमीः मन्योःक्रोधस्यपरेषांज्ञानस्य वाहिंसकोसि मीङ् हिंसायां क्विप् तेतवतत्तादृशं महिमहत्प्रभूतं महित्वनं माहात्म्यमस्ति ॥ ४ ॥