श्रवणम्

2.23.9
त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु᳚ मनु॒ष्या द᳚दीमहि ।
या नो᳚ दू॒रे त॒ळितो॒ या अरा᳚तयो॒॑भि सन्ति᳚ ज॒म्भया॒ ता अ᳚न॒प्नसः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । सु॒॑वृधा᳚ । ब्र॒ह्म॒णः॒ । प॒ते॒ । स्पा॒र्हा । वसु᳚ । म॒नु॒ष्या᳚ । आ । द॒दी॒म॒हि॒ ।
याः । नः॒ । दू॒रे । त॒ळितः᳚ । याः । अरा᳚तयः । अ॒भि । सन्ति᳚ । ज॒म्भय᳚ । ताः । अ॒न॒प्नसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते सुवृधासुष्ठुवर्धयित्रा त्वयाहेतुनावयं स्पार्हास्पृहणीयानिवसुधनानिमनुष्या सुपांसु लुगितिचतुर्थीबहुवचनस्याकारः मनुष्येभ्योदातृभ्यः आददीमहि गृह्णीमहि आङोदोनास्यविहरणे इत्यात्मनेपदम् दूरेदूरदेशेयाअरातयः याश्चतळितोन्तिकेअरातयः नोस्मानभिसन्ति अभिभवन्ति अनप्रसः कर्महीनान् ताः अरातीः तान् शत्रून् जंभय नाशय जभिनाशनेचुरादिः अत्रनिरुक्तम्—त्व यावयंसुवर्धयित्राब्रह्मणस्पतेस्पृहणीयानिवसूनिमनुष्येभ्यआददीमहियाश्चनोदूरेतळितोयाश्चान्ति केरातयोदानकर्माणोवादानप्रज्ञावाजंभयताअनप्रसोप्रइतिरूपनामेति ॥ ९ ॥