द्वितीयं मण्डलम् - सूक्तम् 18

9 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 2.18 - सम्पूर्णम्

1 / 9
ऋक्: 2.18.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
2.18.1 समानपद
प्रा॒ता रथो॒ नवो᳚ योजि॒ सस्नि॒श्चतु᳚र्युगस्त्रिक॒शः स॒प्तर᳚श्मिः ।
दशा᳚रित्रो मनु॒ष्य᳚ः स्व॒र्षाः स इ॒ष्टिभि᳚र्म॒तिभी॒ रंह्यो᳚ भूत् ॥
▶ पदपाठः (Word-by-word)
प्रा॒तरिति᳚ । रथः᳚ । नवः᳚ । यो॒जि॒ । सस्निः᳚ । चतुः᳚॑युगः । त्रि॑क॒शः । स॒प्त॑र᳚श्मिः ।
दश᳚॑अरित्रः । म॒नु॒ष्यः᳚ । स्वः॒॑साः । सः । इ॒ष्टि॑भिः᳚ । म॒ति॑भिः᳚ । रंह्यः᳚ । भू॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथोरंहणाद्रथोयज्ञः सचनबोनूयतेस्तूयतेत्रेतिनवःस्तुतिमान् सस्निः स्नाशौचे आदृगमहनेतिकिन्प्र- त्ययः शुद्धः एवंविधोयज्ञः प्रातः प्रातःकालेयोजि अयोज्यस्माभिः चतुर्युगः युज्यन्तइतियुगानिग्रावा- णः चत्वारियुगानियस्यसतथोक्तः अध्वर्य्वाद्यृत्विगभिप्रायंवा त्रिकशः तिस्रः कशावाचोमन्द्रमध्यमो- त्कृष्टरूपायस्यसतथोक्तः सवनत्रयाभिप्रायंवा सप्तरश्मिःअश्नुवते व्याप्नुवन्ति कर्माणीतिरश्मयः छन्दां सिसप्तसंख्याकानिगायत्र्यादीनिच्छन्दांसियस्यसतथोक्ताः दशारित्रः अरिभ्यः पापेभ्यस्त्रायन्तइतिअ- रित्राग्रहाः दशसंख्याकाग्रहायस्यसतादृशः चमसाध्वर्य्वभिप्रायंवा मनुष्योमनुष्याणांहितः स्वर्षाः स्वर्गस्यदाता सएवंविधोयज्ञः इष्टिभिः प्रायणीयातिथ्यादिभिः मतिभिर्मननीयैःस्तोत्रैःरंह्यः शब्दनी- योभूदभूत् यद्वा नवोभिवः सस्निः स्नोतेर्द्विर्वचनादि कामानांदातारथः रमन्तेस्मिन्नितिरथः स्यन्दनः प्रातः सवनेचसोमपानार्थंयोजि अश्वैरयोजि कीदृशःचतुर्युगः त्रिकशः तिस्रःकशाय्स्यसतथोक्तः सप्तर- श्मिः सप्तरज्जु दशारित्रोदशवक्रः मनुष्यः मनुष्यहितः स्वर्षाः स्वर्गस्यसङ्गमयिताइन्द्ररथः इष्टिभिः यागैर्मतिभिः स्तोत्रैश्चव्याप्तव्योभवति ॥ १ ॥

2.18.2
सास्मा॒ अरं᳚ प्रथ॒मं स द्वि॒तीय᳚मु॒तो तृ॒तीयं॒ मनु᳚ष॒ः स होता᳚ ।
अ॒न्यस्या॒ गर्भ᳚म॒न्य ऊ᳚ जनन्त॒ सो अ॒न्येभि᳚ः सचते॒ जेन्यो॒ वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
सः । अ॒स्मै॒ । अर᳚म् । प्र॒थ॒मम् । सः । द्वि॒तीय᳚म् । उ॒तो इति᳚ । तृ॒तीय᳚म् । मनु᳚षः । सः । होता᳚ ।
अ॒न्यस्याः᳚ । गर्भ᳚म् । अ॒न्ये । ऊं॒ इति᳚ । ज॒न॒न्त॒ । सः । अ॒न्येभिः᳚ । स॒च॒ते॒ । जेन्यः᳚ । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सयज्ञः सोमोवाअस्माइन्द्रायप्रथमंप्रातःसवनेअरंपर्याप्तोभूत् सचद्वितीयं माध्यन्दिनेसवनेपर्याप्तो- भूत् उतोअपिचसतृतीयं तृतीयेसवनेपर्याप्तोभूत् सर्वत्रकालाध्वनोरितिद्वितीया सयज्ञः सोमोवामनु- षोमनुष्यस्यहोताशुभानांवोढाभवति किञ्च अन्येऋत्विजः अन्यस्याः पृथिव्याः वेदात्मिकायावाचो- वागर्भंसन्तं सोमंयज्ञं वाजनन्त अजनयन्त उप्रसिद्भ्यर्थः वृषाअभिमतफलवर्षकः जेन्योजयसमर्थः सयज्ञः सोमोवाअन्येभिः अन्यैरिन्द्रादिभिःदेवैःसचते सङ्गच्छते सचसमवाये अनुदात्तेत् ॥ २ ॥

2.18.3
हरी॒ नु कं॒ रथ॒ इन्द्र᳚स्य योजमा॒यै सू॒क्तेन॒ वच᳚सा॒ नवे᳚न ।
मो षु त्वामत्र᳚ ब॒हवो॒ हि विप्रा॒ नि री᳚रम॒न्यज᳚मानासो अ॒न्ये ॥
▶ पदपाठः (Word-by-word)
हरी॒ इति᳚ । नु । क॒म् । रथे᳚ । इन्द्र᳚स्य । यो॒ज॒म् । आ॒॑यै । सू॒क्तेन᳚ । वच᳚सा । नवे᳚न ।
मो इति᳚ । सु । त्वाम् । अत्र᳚ । ब॒हवः᳚ । हि । विप्राः᳚ । नि । री॒र॒म॒न् । यज᳚मानासः । अ॒न्ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्यसंबन्धिनिरथे हरीएतन्नामकावश्वौनुक्षिप्रंकंसुखेनआयैगमनायनवेनान्यैरकृत पूर्वेणवचसा- वेदात्मकेनसूक्तेनसाधनेनयोजंयुनज्मि युजिर् योगे लुङि इरितोवेतिच्लेरङादेशः अत्रास्मिन्यज्ञेबह- वोविप्रामेधाविनः स्तोतारोभवंतिहि तथापिअन्येमद्भ्यतिरिक्तायजमानासोयजमानाः त्वां सु सुष्ठु मोनिरीमन् नितरांमारमयन्तु अतोस्मदीयंयज्ञमागत्यसोमंपिबेतिभावः रीरमन् रमतेर्ण्यन्तस्यलुङि- चङिसन्वद्भावादभ्यासस्येत्वदीर्घौ वाक्यभेदादत्र हियोगाभावेननिघातः ॥ ३ ॥

2.18.4 समानपद
आ द्वाभ्यां॒ हरि᳚भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा᳚नः ।
आष्टा॒भिर्द॒शभि᳚ः सोम॒पेय᳚म॒यं सु॒तः सु᳚मख॒ मा मृध᳚स्कः ॥
▶ पदपाठः (Word-by-word)
आ । द्वाभ्या᳚म् । हरि᳚॑भ्याम् । इ॒न्द्र॒ । या॒हि॒ । आ । च॒तुः॑भिः᳚ । आ । ष॒ट्॑भिः । हू॒यमा᳚नः ।
आ । अ॒ष्टा॒भिः । द॒श॑भिः᳚ । सो॒म॒॑पेय᳚म् । अ॒यम् । सु॒तः । सु॒॑म॒ख॒ । मा । मृधः᳚ । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र होतृभिराहूयमानस्त्वं द्वाभ्यांहरिभ्यामश्वाभ्यामिमंयज्ञंप्रति सोमपानार्थमायाहि चतुर्भि- र्हरिभिरायाहि तथाषड्भिरागच्छ सोमपेयं पापाने कर्मणिअचोयत् ईद्यतीतीत्वं पातव्यंसोमंप्रतिअ- ष्टाभिरश्वैरायाहि अष्टनोदीर्घादितिविभक्तेरुदात्तत्वं दशभिर्हरिभिरागच्छ सुमख सुयज्ञ सुधनवा हेइन्द्र अयंसोमस्त्वदर्थंसुतः अभिषुतः अतोयज्ञस्यमृधोहिंसाः माकः माकार्षीः करोतेर्लुङिमन्त्रेघसे- त्यादिनाचेर्लुक् गुणेकृते हल्ङ्यादिनासिपोलोपः यद्यपीन्द्रस्यद्वावेवहरीतथापितयोर्विभूतिभेदान्ना- नात्वं अतोश्वबहुत्वमविरुद्धम् ॥ ४ ॥

2.18.5
आ विं᳚श॒त्या त्रिं॒शता᳚ याह्य॒र्वाङा च᳚त्वारिं॒शता॒ हरि᳚भिर्युजा॒नः ।
आ प᳚ञ्चा॒शता᳚ सु॒रथे᳚भिरि॒न्द्रा ष॒ष्ट्या स᳚प्त॒त्या सो᳚म॒पेय᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । विं॒श॒त्या । त्रिं॒शता᳚ । या॒हि॒ । अ॒र्वाङ् । आ । च॒त्वा॒रिं॒शता᳚ । हरि᳚॑भिः । यु॒जा॒नः ।
आ । प॒ञ्चा॒शता᳚ । सु॒॑रथे᳚भिः । इ॒न्द्र॒ । आ । ष॒ष्ट्या । स॒प्त॒त्या । सो॒म॒॑पेय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सोमपेयंपातव्यंसोमंप्रतिअर्वाङस्मदभिमुखः सन् विंशतिसंख्याकैरशैरायाहि त्रिंशतात्रिं- शत्संख्यकैर्हरिभिरागच्छ चत्वारिंशताचत्वारिंशत्संख्याकैर्हरिभिर्युजानोयुज्यमानस्त्वंसोमपानंप्रत्या- याहि सुरथेभिः सुरंहणैः सुगमनैः पञ्चशताहरिभिरायाहि तथाषष्ट्याषष्टिसंख्याकैर्हरिभिः सप्तत्या- एतत्संख्याकैर्हरिभिः सोमपानंप्रत्यागच्छ ॥ ५ ॥

2.18.6 समानपद
आशी॒त्या न᳚व॒त्या या᳚ह्य॒र्वाङा श॒तेन॒ हरि᳚भिरु॒ह्यमा᳚नः ।
अ॒यं हि ते᳚ शु॒नहो᳚त्रेषु॒ सोम॒ इन्द्र᳚ त्वा॒या परि᳚षिक्तो॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
आ । अ॒शी॒त्या । न॒व॒त्या । या॒हि॒ । अ॒र्वाङ् । आ । श॒तेन᳚ । हरि᳚॑भिः । उ॒ह्यमा᳚नः ।
अ॒यम् । हि । ते॒ । शु॒न॑हो᳚त्रेषु । सोमः᳚ । इन्द्र᳚ । त्वा॒॑या । परि᳚॑सिक्तः । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

अशीत्या अशीतिसंख्याकैश्वैः सोमपानार्थमर्वाङस्मदभिमुखःसन् आयाहि नवत्याएतत्संख्याकैरश्वैरा- गच्छ शतेनशतसंख्याकैर्हरिभिरुह्यमानोधार्ययाणस्त्वंआयाहि हेइन्द्र हियस्मात्तेमदायहर्षायशुनहोत्रे- षु सुखेनहूयतेसोमोयेभिरितिशुनहोत्राः पात्रविशेषाः तेषुअयंसोमः त्वाया त्वत्कामनयापरिषिक्तः ॥ ६ ॥

2.18.7
मम॒ ब्रह्मे᳚न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी᳚ धु॒रि धि᳚ष्वा॒ रथ᳚स्य ।
पु॒रु॒त्रा हि वि॒हव्यो᳚ ब॒भूथा॒स्मिञ्छू᳚र॒ सव᳚ने मादयस्व ॥
▶ पदपाठः (Word-by-word)
मम᳚ । ब्रह्म᳚ । इ॒न्द्र॒ । या॒हि॒ । अच्छ᳚ । विश्वा᳚ । हरी॒ इति᳚ । धु॒रि । धि॒ष्व॒ । रथ᳚स्य ।
पु॒रु॒॑त्रा । हि । वि॒॑हव्यः᳚ । ब॒भूथ᳚ । अ॒स्मिन् । शू॒र॒ । सव᳚ने । मा॒द॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ममब्रह्मअस्मदीयामेवस्तुतिमच्छाभिलक्ष्यायाहि विश्वाव्याप्तौहरीरथस्यधुरियुगप्रान्तेधि- ष्व संयोजय पुरुत्रापुरुभिर्बहुभिर्यजमानैः त्वंविहव्योविविधंह्वातव्योबभूथ बभूविथ बभूथाततंथ- जगृभ्यववर्थेतिनिपातनादिडभावः हिप्रसिद्धः हेशूर अस्मिन् सवनेयज्ञेमादयस्व सोमपाएनहृष्टो- भव ॥ ७ ॥

2.18.8
न म॒ इन्द्रे᳚ण स॒ख्यं वि यो᳚षद॒स्मभ्य᳚मस्य॒ दक्षि᳚णा दुहीत ।
उप॒ ज्येष्ठे॒ वरू᳚थे॒ गभ᳚स्तौ प्रा॒येप्रा᳚ये जिगी॒वांसः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
न । मे॒ । इन्द्रे᳚ण । स॒ख्यम् । वि । यो॒ष॒त् । अ॒स्मभ्य᳚म् । अ॒स्य॒ । दक्षि᳚णा । दु॒ही॒त॒ ।
उप᳚ । ज्येष्ठे᳚ । वरू᳚थे । गभ᳚स्तौ । प्रा॒ये॑प्रा᳚ये । जि॒गी॒वांसः᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रेणसहमेममसख्यंयष्टृयष्टव्यलक्षणंसख्यंनवियोषत् कदाचिदपिनवियुज्यतां यौतेर्लेटिसिब्बहु- लमितिसिप् अडागमः अस्येन्द्रस्यदक्षिणाइन्द्रकर्तृकं दानमस्मभ्यंदुहीत अभिमतफलं दुग्धां दुहेर्लिङि- रूपं ज्येष्ठेअतिशयेनप्रशस्येवरूथे आपदांवारकेवरणीयेवागभस्तौ बाहौउपसमीपेवर्तिनः स्याम इन्द्र- स्यहस्तस्पर्शयोग्याभवेमेत्यर्थः किञ्च प्रायेप्राये सोमपानार्थमिन्द्रस्ययज्ञशालायांप्रवेशेप्रवेशे जिगीवां- सः शत्रूणांजेतारोभवेम यद्वा प्रायेप्रायेप्रकर्षेणईयतेगम्यतेयोद्धृभिरितिप्रायंयुद्धं तस्मिन्युद्धेजिगीवां- सः शत्रून् जितवन्तोभवम ॥ ८ ॥

2.18.9
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु᳚ही॒यदि᳚न्द्र॒ दक्षि᳚णा म॒घोनी᳚ ।
शिक्षा᳚ स्तो॒तृभ्यो॒ माति᳚ ध॒ग्भगो᳚ नो बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । सा । ते॒ । प्रति᳚ । वर᳚म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि᳚णा । म॒घोनी᳚ ।
शिक्ष᳚ । स्तो॒तृ॑भ्यः᳚ । मा । अति᳚ । ध॒क् । भगः᳚ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नूनंसातइतिव्याख्याता ॥ ९ ॥

अपाय्यस्येतिनवर्चमष्टमंसूक्तंगार्त्समदंत्रैष्टुभमैन्द्रम् अषायीत्यनुक्रान्तम् लैङ्गिकः सूक्तविनियो- गः द्वितीयेपर्यायेहोतृशस्त्रयाज्या अपाय्यस्यान्धसोमदायेतियाज्येसूत्रितम् ।