श्रवणम्

2.18.8
न म॒ इन्द्रे᳚ण स॒ख्यं वि यो᳚षद॒स्मभ्य᳚मस्य॒ दक्षि᳚णा दुहीत ।
उप॒ ज्येष्ठे॒ वरू᳚थे॒ गभ᳚स्तौ प्रा॒येप्रा᳚ये जिगी॒वांसः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
न । मे॒ । इन्द्रे᳚ण । स॒ख्यम् । वि । यो॒ष॒त् । अ॒स्मभ्य᳚म् । अ॒स्य॒ । दक्षि᳚णा । दु॒ही॒त॒ ।
उप᳚ । ज्येष्ठे᳚ । वरू᳚थे । गभ᳚स्तौ । प्रा॒ये॑प्रा᳚ये । जि॒गी॒वांसः᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रेणसहमेममसख्यंयष्टृयष्टव्यलक्षणंसख्यंनवियोषत् कदाचिदपिनवियुज्यतां यौतेर्लेटिसिब्बहु- लमितिसिप् अडागमः अस्येन्द्रस्यदक्षिणाइन्द्रकर्तृकं दानमस्मभ्यंदुहीत अभिमतफलं दुग्धां दुहेर्लिङि- रूपं ज्येष्ठेअतिशयेनप्रशस्येवरूथे आपदांवारकेवरणीयेवागभस्तौ बाहौउपसमीपेवर्तिनः स्याम इन्द्र- स्यहस्तस्पर्शयोग्याभवेमेत्यर्थः किञ्च प्रायेप्राये सोमपानार्थमिन्द्रस्ययज्ञशालायांप्रवेशेप्रवेशे जिगीवां- सः शत्रूणांजेतारोभवेम यद्वा प्रायेप्रायेप्रकर्षेणईयतेगम्यतेयोद्धृभिरितिप्रायंयुद्धं तस्मिन्युद्धेजिगीवां- सः शत्रून् जितवन्तोभवम ॥ ८ ॥