श्रवणम्

2.18.3
हरी॒ नु कं॒ रथ॒ इन्द्र᳚स्य योजमा॒यै सू॒क्तेन॒ वच᳚सा॒ नवे᳚न ।
मो षु त्वामत्र᳚ ब॒हवो॒ हि विप्रा॒ नि री᳚रम॒न्यज᳚मानासो अ॒न्ये ॥
▶ पदपाठः (Word-by-word)
हरी॒ इति᳚ । नु । क॒म् । रथे᳚ । इन्द्र᳚स्य । यो॒ज॒म् । आ॒॑यै । सू॒क्तेन᳚ । वच᳚सा । नवे᳚न ।
मो इति᳚ । सु । त्वाम् । अत्र᳚ । ब॒हवः᳚ । हि । विप्राः᳚ । नि । री॒र॒म॒न् । यज᳚मानासः । अ॒न्ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्यसंबन्धिनिरथे हरीएतन्नामकावश्वौनुक्षिप्रंकंसुखेनआयैगमनायनवेनान्यैरकृत पूर्वेणवचसा- वेदात्मकेनसूक्तेनसाधनेनयोजंयुनज्मि युजिर् योगे लुङि इरितोवेतिच्लेरङादेशः अत्रास्मिन्यज्ञेबह- वोविप्रामेधाविनः स्तोतारोभवंतिहि तथापिअन्येमद्भ्यतिरिक्तायजमानासोयजमानाः त्वां सु सुष्ठु मोनिरीमन् नितरांमारमयन्तु अतोस्मदीयंयज्ञमागत्यसोमंपिबेतिभावः रीरमन् रमतेर्ण्यन्तस्यलुङि- चङिसन्वद्भावादभ्यासस्येत्वदीर्घौ वाक्यभेदादत्र हियोगाभावेननिघातः ॥ ३ ॥